________________ धम्मरयण 2726 - अभिधानराजेन्द्रः - भाग 4 धम्मरयण ना विकलाः, एतेषामुक्तगुणानां मध्याद् ते यथाक्रमं मध्यमावरा ज्ञेयाः, चतुर्थाशविहीना मध्यमाः, अर्द्धविहीना जघन्या इति भावः, तेभ्योऽपि हीनतरेषु का वाता? इत्याह-(इत्तो परेणं ति) एतेभ्योऽपि, परेणादिप्यधिकहींना रहिताः, दरिद्रप्राया अकिञ्चनकजनकल्पाः, 'मुणितव्या' वेदितव्याः / यथाहि दरिद्रा उदरकन्दराभरणचिन्ताव्याकुलत या न रत्नक्रयमनोरथमपि कुर्वन्ति, तथैतेऽपि न धर्माभिलाषमपि विदधतीति। एवं च स्थिते यद्विधेय तदाहधम्मरयणत्थिणा तो, पढमं एयजणम्मि जइयव्वं / जं सुद्धभूमिगाए, रेहइ चित्तं पवित्तं पि।।३१।। धर्मरत्नमुक्तस्वरूप, तदर्थना तल्लिप्सुना, तत्तस्मात् कारणात, प्रथममादावेषां गुणानामर्जने विढपने यतिव्यं, तदुपार्जनं प्रति यत्नो विधेयः, तदविनाभावित्वाद्धर्मप्राप्तेः। अत्रैव हेतुमाह-यस्मात्कारणाच्छुद्धभूमिकायां प्रमासचित्रकरपरिकर्भितभूमाविवाकलङ्काधारे (रहइ ति) राजते, चित्रं चित्रकर्म, पवित्रमपि प्रशस्तमप्यालिखितं सदिति / ध०२०। (प्रभासचित्रकरकथा 'पमासचित्तगर' शब्दे वक्ष्यते) श्रावकसाधुसम्बन्धभेदाद् द्विधा धर्मरत्नं प्रतिपाद्येदानी कः कीदृगिदं कर्तुशक्तोतीत्येतदाहदुविहं वि धम्मरयणं, तरइ नरो चित्तुमविगलं सो उ। जस्सेगवीसगुणरय-णसंपया सुत्थिया अस्थि / / 140 / / द्विविधमपि द्विप्रकारमपि, न पुनरेकतरमेवेत्यपिशब्दार्थः / धर्मरत्न पूर्वोक्तशब्दार्थम्, (तरइ ति) शक्नोति "शके चयतरतीरपाराः" / / 4 / 86|| इति वचनात्। नर इति जातिनिर्देशान्नरो नरजातीयो जन्तुर्न पुनः पुमाने वेति, ग्रहीतुमुपादातुमविकलं सम्पूर्ण, स एव, तुशब्दस्यावधारणार्थत्वात्। यस्य किमित्याह-यस्य श्रीप्रभमहाराजस्यैवैकविंशतिगुणरत्नसम्बत् "अक्खुद्दो रूववं पगइसोमो।" इत्यादिशाखपद्धतिप्रतिपादिता गुणमाणिक्यविभूतिः, सुस्थिता दुर्बोधाऽऽद्यदूषितत्वान्निरुपद्रवाऽस्तिविद्यते इति / ननु पूर्वमुक्तमेवैकविंशतिगुणसमृद्धो योग्यो धर्मरत्नस्येति तत्कि पुनरिदमुच्यते? सत्यम्, पूर्व योग्यतामात्रमुक्तम्, यथा-बालत्वेऽपि वर्तमानो राजपुत्रो राज्याई उच्यते, संप्रति करणशक्तिरप्यस्याभिधीयते, यथा-प्रौढीभूतो राजपुत्रः कर्तु शक्तीत्येव राज्यमिति। ध०र०। (श्रीप्रभमहाराजकथा 'सिरिप्पभ' शब्दे) धर्मरत्नवक्तव्यताप्रतिबद्धे शान्तिसूरिविरचिते स्वनामख्याते प्रकरणग्रन्थाविशेषे च, ध०र०॥ तत्र चैक विंशतिगुणैर्धर्मरत्नयोग्यो भवतीत्यभिधाय विशेषतः पूर्वाचार्याणां श्लाध्यमाहता सुख इमं भणियं, पुव्वाऽऽयरिएहिं परहियरएहिं। इगवीसगुणोवेओ, जोग्गो मइ धम्मरयणस्स // 141 / / यत एभिर्गुणैर्युक्तो धर्म कर्तुं शक्नोति, ततः सुष्ठ शोभनमिदं भणितमुक्तं पूर्वाऽऽचाय्य : पूर्वकालसंभवसूरिभिः, परहितरतैरन्यजनोपकारकरणतालसैः, किं तत्? इत्याह-एकविंशतिगुणैरूपेतो युक्तो, योग्य उचितः, (सइति) सदा, धर्मरत्नस्य पूर्वव्यावर्णितस्वरूपस्येति। अथ प्रकृतशास्त्रार्थमनुवदन्नुपसंहारगाथायुगलमाह-- धम्मरयणुचियाणं, देसचरित्तीण तह चरित्तीणं / लिंगाइजाइँ समए, भणियाइँ मुणियतत्तेहिं / / 142 / / तेसि इमो भावत्थो, नियमइ विहवाणुसारओ भणिओ। सपराणुग्गहहेउं, समासओ संतिसूरीहि ||143|| धर्मरत्नोचितानामुक्तस्वरूपाणा, देशचरित्रिणां श्रमणोपाशकाना, तथा चरित्रिणा साधूनां, लिङ्गानि चिह्नानि, यानि समये सिद्धान्ते, भणितान्यभिहितानि, मुणिततत्वैरवबुद्धसिद्धान्ततत्त्वैरिति प्रथमगाथार्थः॥१४२।। तेषामयमुक्तस्वरूपो, भावार्थस्तात्पर्य, निजमतिविभवानुसारतः स्वबुद्धिसंपदनुरूपं भणितः, सिद्धान्तमहाम्भोधेः पारस्य लब्धुमशक्यत्वाद्यावदवबुद्धतावद्भणितमिति भावः। किमर्थः पुनरियान्प्रयासः कृतः? इत्याह-स्वपरयोरनुग्रह उपकारः, स एव हेतुः कारणं यस्य भणनस्य तत्स्वपरानुग्रहहेतु, क्रियाविशेषणमेतत्, स्वपरानुग्रहोऽप्यागमादेव भविध्यतीति चेन्न, तत्राऽऽगमे कोऽप्यर्थः / क्वापि भणितस्तमल्पायुषो.. ऽल्पमेधसश्चैदयुगीना नावगन्तुमीशा इति समासतोऽल्पग्रन्थेन भणितः। कैः? इत्याह--शान्तिसूरिभिर्जिनप्रवचनावदातमतिभिः परोपकारैकरसिकमानसैश्चन्द्रकुलविमलनभस्तलनिशीथिनीनाथैरिति द्वितीयगाथार्थः // 143 / / अथ शिष्याणामर्थित्वोत्पादनायोक्तशास्त्रार्थ परिज्ञानस्य फलमुपदर्शयन्नाहजो परिभावइ एयं, सम्मं सिद्धतगब्भजुत्तीहिं। सो मुत्तिमग्गलग्गो, कुग्गहगत्तेसुन हु पडई // 144 / / यः कश्चिद् लघुकर्मा, परिभावयति सम्यगालोचयत्येनं पूर्वोक्तं धर्मलिङ्गभावार्थ , सम्यग् मध्यस्थभावेन, सिद्धान्तगर्भाभिरागम-- साराभिर्युक्तिभिरुपपत्तिभिः, स प्राणी, मुक्तिमार्गे निर्वाणनगराध्वनि लग्नो गन्तुं प्रवृत्तः, कुग्रहा दुःषमाभाविनो मतिमोहविशेषाः, त एव गर्ता अवटा गतिविघातहेतुत्वादनर्थजनकत्वाच, तेषु नैव पतति, हुशब्दस्यावधारणार्थत्वात्। अत एव सुखेन सन्मार्गेण गच्छतीति। उक्त प्रकरणार्थपरिभावनस्यानन्तरफलम्, अधुना परम्परफलमाहइय धम्मरयणपगरण-मणुदियहं जे मणम्मि भावंति। ते गलियकलिलपंका, निव्वाणसुहाई पावंति॥१४५।। इत्यनन्तरोक्त, धर्मरत्नमुक्तशब्दार्थं, तत्प्रतिपादकं प्रकरणं शास्त्रविशेषो धर्मरत्नप्रकरणम्, अनुदिवसं प्रतिदिनम्, उपलक्षणत्वात्प्रतिप्रहरमित्याद्यपि द्रष्टव्यम् / ये केचिदासन्नमुक्तिगमना मनसि हृदये, भावयन्ति विवेकसारं चिन्तयन्ति, ते शुभतराध्यवसायभाजो गलितोऽपेतः कलिलपङ्कः पातकमलोत्करो येभ्यस्ते गलितकलिलपङ्काः / (निव्वाणसुहाई ति) निर्वाणं सिद्धिस्तत आधारे आधेयोपचारादिह निर्वाणशब्देन निर्वाणगता जीवा उच्यन्ते, सिद्धा इत्यर्थः / तेषां सुखानि प्राप्नुवन्ति / ध०२०। धर्मरत्न प्रकरणस्य वृत्तिकारो देवेन्द्रसूरिः। "श्रीधर्मरत्नशास्त्र, बह्वर्थ स्वल्पशब्दसंदर्भम् / स्वपरोपकारहेतोविवृणोमि यथाश्रुतं किञ्चित् ||१||ध०र० "स्वान्ययोरुपकाराय, श्रीमद्देवेन्द्रसूरिणा। धर्मरत्नस्य टीकेयं, सुखबोधा विनिर्ममे // 8 // प्रथमा प्रतिमाप्रतिमा, विभ्राणो गुरुजनेषु भक्तिभरम्। विद्वान विद्याऽऽनन्दः, सानन्दमना लिलेखास्याः / / 6 / / श्रीहेमकलशवाचक-पण्डिमवरधर्मकीर्तिमुख्यबुधैः।