________________ देव 2608 - अभिधानराजेन्द्रः - भाग 4 देव ह-अरातिः व्याधिः, तथा किमु प्रश्रे, मूर्ति जराम, अमृतमय॑स्ये तिअमृतत्वं प्राप्तस्य मर्त्यस्य, पुरुषस्येत्यर्थः। अमरणधर्मिणो मनुष्यस्य किं करिष्यन्ति जराव्याधय इति भावः / अत्रापि देवसत्ताप्रतिपत्तिः / ''को जानाति मायोपमान'' इत्यादीनि तु देवाभावप्रतिपादकानि, अतस्तव संशयः। अयुक्तश्चायम् / यतोऽमीषां वेदपदानामर्श त्वं न जानासि, चशब्दाधुक्तिं च न वेत्सि / एतेषां हि वेदपदानां नायमों, यस्तवाभिप्रेतः, किं त्वयं वक्ष्यमाणलक्षण इति / अत्र भाष्यम्तं मन्नसि नेरइया, परतंता दुक्खसंपहृत्ता य। न तरंतीहागंतुं, सद्धेया सुव्वमाणा वि / / 1867 // सच्छंदयारिणो पुण, देवा दिव्यप्पभावजुत्ता य। जं न कयाइ वि दसिण-मुवें ति तो संसओ तेसु / / 1868 / / मौर्य ! त्वमेवं मन्यसे-नारकाः स्वकृतपापनरकपाला-ऽऽदिपरतन्त्राः पराधीनवृत्तयोऽतीवदुःखसंघातविह्वलाश्च न शक्नुवन्त्यत्राऽऽगन्तुमतः प्रत्यक्षीकरणोपायाभावात् श्रूयमाणा अपि श्रद्धया भवन्तु, देवास्तु स्वच्छन्दचारिणो दिव्यप्रभावयुक्ताश्च तथाऽपि यस्मान्न कदाचिद्दर्शनपथमवतरन्ति, श्रूयन्ते च श्रुतिरमृत्यादिषु, अतस्तेषु शङ्केति।।१८६७।। 1868 // अत्रोत्तरमाहमा कुरु संसयमेए, सुदूरमणुयाइभिन्नजाईए। पेच्छसु पचक्खं चिय, चउविहे देवसंघाए।।१८६६।। मौर्यपुत्र ! देवेषु मा संशयं कार्षीस्त्वम्, एतानेव हि सुदूरमत्यर्थ मनुजाऽऽदिभ्यो भिन्नजातीयान् दिव्याऽऽभरणविलेपनवसनसुमनोमालाऽलकृतान् भवनपतिव्यन्तरज्योतिष्कवैमानिकलक्षणांश्चतुर्विधदेवसंघातान् मम वन्दनार्थमिहैव समवसरणाऽऽगतान प्रत्यक्षत एव पश्यति // 1866 // अथैतद्दर्शनात्पूर्व य आसीत्संशयः, सयुक्तोऽभवत्। नैवम्। कुतः ? इत्याह-- पुव्वं पिन संदेहो, जुत्तो जं जोइसा सपञ्चक्खं / दीसंति तक्कया विय, उवघायानुग्गहा जगओ।।१८७०।। इह समवसरणाऽऽगतदेवदर्शनात्पूर्वमपि तवान्येपा च संशयो न युक्तो, यद्यस्माचन्द्राऽऽदिल्याऽऽदिज्योतिष्कास्त्वया सर्वेणापि च लोकेन स्वप्रत्यक्षत एव सर्वथा दृश्यन्ते, अतो देशतः प्रत्यक्षत्वात् कथं समस्तामरास्तित्वशङ्का? किं च-सन्त्येव देवाः, लोकस्य तत्कृतानुग्रहोपघातदर्शनात् / तथाहि-दृश्यन्ते चित्केचित्रिदशाः कस्याऽपि किञ्चिद्भिभवप्रदानाऽऽदिनाऽनुग्रह, तत्प्रहरणाऽऽदिना चोपघातं कुर्वन्तः, ततो राजाऽऽदिवत्कथमेते न सन्तीति।।१८७०।। पुनरपि परमाशङ्कय ज्योतिष्कदेवास्तित्वं साधयन्नाहआलयमेत्तं च मई, पुरं व तव्वासिणो तह वि सिद्धा। जे ते देव त्ति मया, न य निलया निच्चपरिसुण्णा / / 1871 / / अथैवंभूता मतिः परस्य भवेत्-आलया एव आलयमा चन्द्राऽऽदिविमानानि, न तु देवाः, तत्कथं ज्योतिष्कदेवानां प्रत्यक्षत्वमभिधीयते? किं तद्यथा आलयमात्रमित्याह- (पुरं ति) यथा पुरं शून्य लोकानामालयमात्र स्थानमात्रं, न तु तत्र लोकाः सन्ति, एवं चन्द्रा ऽऽदिविमानान्यप्यालयमात्रमेव, न तु तत्र देवाः केचित्तिष्ठन्ति, अतः कथं तेषां प्रत्यक्षत्वम् ? अत्रोत्तरमाह- तथाऽपि तद्वासिन आलयवासिनः सामर्थ्याध सिद्धास्ते देवा इति मताः संमताः। यो ह्यालयः स सर्वोऽपि तन्निवासिना अधिष्ठितो दृष्टः, यथा प्रत्यक्षोपलभ्यमाना देवदनाऽऽद्य - धिष्ठिता वसन्तपुराऽऽद्यालयाः, आलयाश्च ज्योतिष्कविमानान्यत आलयत्वान्यथानुपपत्तेर्ये तन्निवासिनः सिद्धास्ते देवा इति मताः। आह-- नुन कथं ते देवाः सिद्ध्यन्ति ? यादृशा हि प्रत्यक्षेण देवदत्ताऽऽदया दृश्यन्ते तेऽपि तादृशा एव स्युरिति / तदयुक्तम्। विशिष्टा हि देवदत्ताधालयेभ्यश्चन्द्राद्यालया इत्यतस्तन्निवासिनोऽपि विशिष्टाः सिध्यन्ति, तेच देवदताऽऽदिविलक्षणा देवा इति। अपरस्त्वाह-नन्वालयत्वादित्ययं हेतुस्तन्निवासिजन-साधनेऽनैकान्तिकः, शून्याऽऽलयैवर्यभिचारात्। अत्रोत्तरमाह--(नय निलयेत्यादि) न च निलया आलया नित्यमेव शून्या भवन्ति / अयमभिप्रायः- ये केचिदालयास्ते प्राग, इदानीमेष्यति वा कालेऽवश्यमेव तन्निवासिभिरधिष्ठिता एव भवन्ति, न तु नित्यमेव परिशून्याः / ततो यदा तदा वा चन्द्राऽऽद्यालयनिवासिनो देवाः सिध्यन्ति, इति॥१८७१।। पुनरप्यत्र पराभिप्रायमाशङ्कय परिहारमाहको जाणइ व किमेयं, ति होञ्ज निस्संसयं विमाणाइं। रयणमयनभोगमना-दिह जह विज्जाहराईणं / / 1872 / / यदि वा एवंभूता मतिः परस्य भवेद्यदुत-चन्द्राऽऽद्यालयत्वेन यद्गीयते भवद्भिस्तदिदं को जानाति किश्चिद्भवेत्किं सूर्योऽग्निमयो गोलश्चन्द्ररत्वम्बुमयः स्वभावतः स्वच्छः, आहोस्विदेवभूता एवैते भास्वररत्नमया गोलका ज्योतिष्कविमानान्यतः कथमेतेषामालयत्वंसिद्धिः? अत्र प्रतिविधानमाह-निःसंशयं विमानान्येतानि, रत्नमयत्वे सति न भोगमनात्, पुष्पकाऽऽदिविद्याधरतपः सिद्धिविमानवदिति। अभ्रधिकारपवनाऽऽदिव्यवच्छदार्थ रत्नमयत्वविशेषणमिति॥१८७२।। अपरमपि पराभिप्राथमाशङ्कय परिहरन्नाहहोञ्ज मई माएयं, तहा वि तक्कारिणो सुरा जे ते। नय मायाइविगारा, पुरं व निचोवलंभाओ। 1873 / / अथ परस्य मतिर्भवन्नैते चन्द्राऽऽदिविमानान्यालयाः, किं तु मायेयं मायाविना केनाऽपि प्रयुक्ता / अत्रोच्यते- मायात्वभमीषामसिद्ध, वाड्मात्रेणव भवताऽभिधानात्तथाऽप्यभ्युपगम्योच्यते, ये तत्कारिणः तथाविधमायाप्रयोक्तारस्ते सुराः सिद्धा एव, मनुष्याऽऽदीना तथाविधवैक्रियकरणादर्शनात् / अभ्युपगम्य च भायात्वममीषामभिहितं, न चैते मायाऽऽदिविकाराः, नित्योपलम्भात्, सर्वेण सर्वदा दृश्यमानत्वादित्यर्थः, प्रसिद्धपाटलिपुत्राऽऽदिपुरवदिति। मायेन्द्रजालकृतानि हि वस्तूनि न नित्यमुपलभ्यतन्त इति नित्यविशेषणोपादानमिति॥१८७३।। प्रकारान्तरेणाऽपि देवास्तित्वं साधयन्नाहजइ नारगा पवना, पगिट्ठपावफलभोइणो तेणं / सुबहुगपुण्णफलभुजो, पवत्तियव्वा सुरगणा वि।।१८७४|| इह स्वकृतप्रकृष्ट पापफलभोगिनस्तावत्क्वचिन्नारकाः प्रतिपतव्याः, ते च यदि प्रपन्नाः (तेणं ति) तर्हि तेनैव प्रकारेण स्वोपाजितसुष्टु बहुक -पुण्यफलभुजः सुरगणा अपि प्रतिपत्तव्याः / अत्राऽऽह-नन्विहैवातिदुःखितनरास्तिर्यशश्वातिदुःखिताः प्रकृष्ट