SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ जाई 1442 - अभिधानराजेन्द्रः - भाग 4 जाइणाम सम्यक्तवं देशविरतिश्च प्राप्यत इति आवश्यकादावस्तीति। 126 प्र०। सेन०२ उल्ला०) जाइअंतर न०(जात्यन्तर) नरसिंहत्वादिके विलक्षणजातो, "नरस्य सिंहरूपत्वा-अ सिंहो नररुपतः। शब्दविज्ञानकार्याणां, भेदाजात्यन्तरं हि सः॥१॥" सूत्रा०१श्रु 12 अ०॥ जाइअंधपुं० (जात्यन्ध ) जन्मकावादारभ्यान्धे, (विपा०) 'केइ पुरिसे जाइअंधे जाइअंधारुवे' जातेरारभ्यान्धो जात्यन्धः। विपा०१श्रु० 1 अ०॥ जाइआजीवणा स्त्री (जात्याजीवना) आजीवनाभेदे, पिं०। जाइआजीवय पुं० (जात्याजीवक) जातिब्रह्मणादिकामा जीवति उपजीवति तजातीयमात्मानं सूचादिनोपदर्य ततो भक्तादिकं गृहातीति जात्याजीवकः। आजीवकभेदे, स्था० 5 ग०१ ड०। यथा कञ्चन भिल्लमालादिजातीयमीश्वरं दृष्टवा ग्राहाऽहमपि भिल्लमालादिजातीयः स चैकजातिसंबन्धात् तस्य भिक्षादानादिकां प्रतिपत्ति करोति। इति जात्युपजीवी। प्रव०२ द्वार। जाइआरियपुं० (जात्यार्य ) जातितिकः पक्षः तया आर्या अपापा निर्दोषा जात्यार्या। विगुरुमातृके, (स्था०) छव्विहा जाइआरिया मणस्सा पन्नत्ता। तं जहा"अंवट्ठा य कलंदा य, विदेहा वेदिगाइया / हरिया चुंचुणा चेव, ठप्पया इन्भजाइओ" ||1|| अम्बष्ठेत्यादि अनुष्टुपप्रतिकृतिः षडप्येता इभ्यजातय इति / इभमर्हन्तीति इभ्याः यद् "द्रव्यस्तूपान्तरित उच्छ्रितकदलिकीदण्डो हस्ती न दृश्यते ते इभ्याः इति श्रुतिः। तेषां जातव इभ्यजातयस्ता एता इति। स्था०६ ठा। जाइआसीविस पुं० (जात्याशीविष) आइयो दंष्ट्राः तासु विषं येषां ते आशीविषाः / जातित आशीविषा जात्याशीविषाः / वृश्चिकादिके, स्था० 4 ठा० 4 उ०। ('आसीविस' शब्दे द्वितीयभागे 486 पृष्ठे विशेषवक्तव्यता। जाइकहा स्त्री० (जातिकथा) विकथाभेदे, नि० चू० 1 उ०। जाइकुलन०(जातिकुल)जातिसंबन्धिनि कुले, "तेसिण भंते! जीवाणं | कइ जाइकुलकोडीजोणिप्पमुहसयसहस्सा पण्णत्ता' / जातिरिति किल तिर्यग् जातिस्तस्याः कुलानि कृमिकीटवृश्चिकादीनि / जी०३ प्रति०) जाइचउक्क न० (जातिचतुष्क) एके न्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातिस्वरूपे, कर्म०२ कर्म०। जाइच्छ त्रि० (यादृक्) यस्येव दर्शनमस्य यद्-दृश-क्त-क्किप वा। यत्सदृशे, यथाविधे, टान्तात्तु स्त्रियां डीप् / वाच०। *जातेच्छ त्रि०लब्धचिकीर्षापरिणामे, ध०१ अधिक। जाइच्छिय त्रि० (यादृच्छिक) यदृच्छयचा आगतः ठक् / यथेच्छया प्राप्ते, वाच० / अतर्कितोपस्थिते काकतालीयादिकल्पे वस्तुनि, तथा च यदृच्छावादिनः। आचा०१ श्रु०१अ०१०। अनर्थक डित्थादिनाम्नि, न०। स्था०२ ठा०४ उ०। तल्लक्षणं चेदम्"यद्वस्तुनोऽभिधानं, स्थितमन्यार्थे तदर्थनिरपेक्षम्। पर्यायानभिधेयं, च नाम यादृच्छिकं च तथा॥१॥" विनेयाऽनुग्रहार्थमेतद्व्याख्या यवस्तुन इन्द्रादिरभिधानमिन्दू इत्यादि वर्णावलीमात्रमिदमेव आवश्यकलक्षणवर्णचतुष्टयावली मात्रां यत्तदो नित्याभिसंबन्धात् तन्नामेति संटङ्कः। अथ प्रकारान्तरेण नाम्रो लक्षणमाड-(स्थितमन्यार्थे तदर्थनिरपेक्षं पर्यायानभिधेवं चेति) तदपि नाम यत्कथंभूतामित्याह-अन्यश्चासावर्थश्चान्यार्थो गोपालदारकादिलक्षणः। तत्र स्थितम् अन्योन्द्रादावर्थे यथार्थत्वेन प्रसिद्ध तदन्यत्र गोपाल दारकादौ पदारोपितमित्यर्थः। अत एवाङ-(तदर्थनिरपेक्षम् इति) तस्येन्द्रादिनाम्रोऽर्थः परमैश्वर्यादिरुपस्तदर्थः स चासावर्थश्चेति वा तदर्थस्तस्य निरपेक्ष गोपालदारकादौ तथा तदर्थस्याभावात्। पुनः किंभूतं तत् ? इत्याह - पर्यायानिभधेय मिति। पर्यायाणां शक्रपुरन्दरादीनामनभिधेयमवाच्यं गोपालदार कादयो हीन्द्धादिशब्दैरुच्यमाना अपि शचीपत्यादिरिच शक्रपुरन्दरादिशब्दै भिधीयन्ते अतस्तन्नामाऽपि, नामतद्वतोरभेदोपचारात् पर्यायानभिधेर्या मत्युच्यते। चशब्दान्नाम्न एवलक्षणान्तरसूचक शचीपत्याडौ प्रसिद्धंतन्नामवाच्यार्थशून्ये अन्यत्र गोपालदारकादौ यदारोपितं तदपि नामेति तात्पर्यम्। तृतीयप्रकारेणापि लक्षणमाह- (यादृच्छिकं च तथेति) तथाविधव्युत्पत्तिशून्य मित्थकपित्थादिरुपयादृच्छिक स्वेच्छया नाम क्रियते तदपि नामेत्यार्यार्थः / / 1 / / अनु०॥ जाइजरामरणसोगप्पणासन त्रि० (जातिजरामरणशोक-प्रणाशन जातिर्जन्म, जरा बिस्वसा, मरणं प्राणनाशः, शोको मानसो दुःखविशेषः, तान् प्रणाशयत्यपनयति इति जरामरण शोकप्रणाशनः। जातिजरामरणापनयनसमर्थे ,ध०२ अधि० स०। जाइजुत्त त्रि० (जातियुक्त) मातृपक्षयुते, जातिर्मातुकी तथा युक्त विनयादिगुणवान् भवतीति। प्रव०६४ द्वार। जाइजंत त्रि०(यात्यमान) यज-क्तिन् जातस्य संस्कारार्थे कर्तव्या दृष्टिः। भागभेदः। जातकर्माख्ये संस्कारभेदे, वाचा सण जाइट्ठिअत्रि (यद्यदृष्ट)यद्यदृष्ट तत्तदित्यस्मिन्नथें, यद्यदृष्ट तत्तदित्यस्य जाइठि / जइ रचसि, जाइडिअ / जइ रचसि, जाइट्ठिअएहिअकासुद्धसहावा लौह फुट्टणएण जिम्बघणासहेसइ ताव''। प्रा०४ पाइ। जाइणाम न०(जातिनामन्) नामकर्मभेदे, (कर्म) एकेन्द्रियाद्दीनामकेन्द्रियत्वादिरुपसमानपरिणतिलक्षणम् एकेन्द्रियवादिशब्दव्यपदेशभाक यत्सामान्य सा जातिः, तद्विपाकवेद्या कर्म प्रकृतिरपि जातिः। इदमत्र तात्पर्यम्-द्रव्यरुपमिन्द्रियमङ्गोपाङ्गन्द्रियपर्याप्तिनामकर्मसाभार सिद्धं, भावरूपं तु स्पर्शनादीन्द्रियावरणक्षयोपशमसामथ्र्यात "ज्ञायोपशमिकानि इन्द्रियाणि'' इति वचनात्। यत्पुनरेकेन्द्रियादिशब्दप्रवृत्तिनिबन्धन तथा रुपसमानपरिणति लक्षणं सामान्य तदव्यभिचारासाध्यत्वाजतिनामसाध्यम्। उक्तं च-अव्यभिचारिणः सादृश्येन एकीकृतोऽर्थात्मा। उक्तं च-अव्यभिचारिणा सादृश्येन एकीकृतोऽर्थात्मा जातिः तन्निमित्तं जातिनाम। कर्म०६ कर्म० प्रज्ञा पं० सं० तच पञ्चधा-- जातिनामेणं भंते ! कम्मे पुच्छा? गोयमा! पंचविहे पणत्ते / तं जहा-एगिदियजातिनामे वेइंदियजातिनामे तेइंदिय जातिनामे चउरिदियजातिनामे पंचिंदियजातिनामे।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy