________________ दंसणणय 2430- अमिधानराजेन्द्रः - भाग 4 दंसणपरीसह पाकं तीर्थकराऽऽरख्यफलप्रसाधकम् (वरं खु दंसणं ति) 'खु' शब्दस्यावधारणार्थत्वात् वरं दर्शनमेव, अङ्गीकृतमिति वाक्यशेषः / अयं वृत्तार्थः / किं च शक्य एवोपाये प्रेक्षावतः प्रवृत्तियुज्यते, न पुनरशक्ये शिरःशूलशमनाय तक्षकफणाऽलङ्कारग्रहणकल्पे चारित्रे, चारित्रं च तत्त्वतः मोक्षोपायत्वे सत्यप्यशक्याऽऽसेवनं, सूक्ष्मापराधैरपि अनुपयुक्तगमनाऽऽदिभिर्विराध्यमानत्वादायासरूपत्वाच नियमेन छद्मस्थस्य तद् भ्रंश उपजायते सर्वस्यैव / / 6 / / अत:भट्ठण चरित्ताओ, सुटुअरं दंसणं गहे अव्वं / सिज्झंति चरणरहिआ, दंसणरहिआ न सिज्झंति // 63|| भ्रष्टेन च्युतेन, कृतः? चारित्रात्, सुतरां दर्शनं ग्रहीतव्यं, पुनर्योधिलाभानुबन्धि, स्वर्गाऽऽदेर्वा ग्रहीतव्येऽशक्यमोक्षोपायत्वात्। तथा च सिद्ध्यन्ति चरणरहिताः प्राणिनः दीक्षाप्रवृत्त्यनन्तरमृतान्तकृत्केवलिनः, दर्शनरहितास्तु न सिद्ध्यन्ति, अतो दर्शनमेव प्रधानं सिद्धिकारणं, तद् भावभावित्वादित्ययं गाथाऽर्थः // 63|| आव० 3 अ०॥ दंसणतह (दर्शनतथ्य) शङ्काऽऽद्यतिचाररहिते जीवाऽऽदितत्त्वश्रद्धाने, सूत्र०१ श्रु०१३ अ०। दंसणपडिमा स्त्री०(दर्शनप्रतिमा) उपासकानां प्रथमप्रतिमायाम्, ध०२ अधि०। प्रव०। पञ्चा०। ('उवासगपडिमा' शब्दे द्वितीयभागे 1065 पृष्ठे व्याख्यातेयम्) दंसणपभावग पुं०(दर्शनप्रभावक) सर्वज्ञशासनप्रकाशके, जीवा 13 अधिश दंसणपरिणामपुं०(दर्शनपरिणाम) सम्यग्दर्शनपरिणामे, प्रज्ञा०१३ पद। दसणपरीसह पुं०(दर्शनपरीषह) दर्शनं सम्यग्दर्शनं तदेव क्रियाऽऽदिवादिनां विचित्रमतश्रवणेऽपि सम्यक् परिषह्यमाणं निश्चलचित्ततया धार्यमाणं परीषहः / यदा-दर्शनशब्देन दर्शनव्यामोहहेतुरैहिकाऽऽमुष्मिकफलानुपलम्भाऽऽदिरिह गृह्यते, ततः स एव परीषहः दर्शनपरीषहः / दर्शनपरीषहे, उत्त०२ अ० स०। प्रव०। जिनानां जिनोक्तभावाना चाश्रद्धानवर्जनरूपे परीषहे, भ०८ श०८ उ०। "जिनास्तदुक्तजीवावा, धमधिमा भवान्तरम्। परोक्षत्वान्मृषा नैव, चिन्तयेत्प्राप्तदर्शनः / / 1 / / " ध०३ अधि। एतदेव सूत्रकृदाहनत्थि Yणं परे लोए, इड्डी वा वि तवस्सिणो। अदुवा वंचिओ मि त्ति, इइ भिक्खू ण चिंतए॥४४॥ नास्ति न विद्यते, (णूणं) निश्चितं परलोको, जन्मान्तरमित्यर्थः। भूतचतुष्टयाऽऽत्मकत्वाच्छरीरस्य, तस्य चेहैव पातात्, चैतन्यस्य च भूत धर्मभूतत्वात्। तदतिरिक्तस्य चाऽऽत्मनः प्रत्यक्षतोऽनुपलभ्यमान-त्वात्, ऋद्धिर्वा तपोमाहात्म्यरूपा / अपिः पूरणे / कस्य ? तपस्विनः, सा चाऽऽमर्पोषध्यादिः "पादरजसा प्रशमनं, सर्वरुजां साधवः क्षणात् कुर्यु:। त्रिभुवनविस्मयजननान, दधुः कामॉस्तृणानाद्वा / / 1 / / धर्माद्रत्नोन्मिश्रित-काञ्चनवर्षाऽऽदिसर्गसामर्थ्यम्। अद्भुतभीमोरुशिला--सहस्रसंपातशक्तिश्च / / 2 / / " __ इत्यादिका च, तस्या अप्यनुपलभ्यमानत्वादिति भावः। (अ-दुव त्ति) अथवा किंबहुना? वञ्चितोऽस्मि, भोगानामिति गम्यते। (इति) इत्यमुना शिरस्तुण्डमुण्डनोपवासाऽऽदिना यातनाऽऽत्मकेन धर्मानुष्ठानेन / उक्तं च- "तपासि यातनाश्चित्राः, संयमो भोगवञ्चना।" इत्यादि। (इति) इत्यनन्तरमुपदर्शितं भिक्षुर्न चिन्तयेत्नध्यायेत्, परिफल्गुरूपत्वादस्य। तथाहि यत्तावदुक्तम्-"भूतचतुष्टयाऽऽत्मकत्वाच्छरीरस्य जन्मान्तराऽभाव इति।" तदसत् / न हि शरीरस्य जन्मान्तरानुयायित्वमस्माभिरुच्यते, किं त्वात्मनः, न च भूतधर्म एव चैतन्ये आत्मव्यपदेशः, तस्य तद्धर्मत्वेनोत्तरत्र निषेत्स्यमानत्वात्। यदपि ऋद्धिर्वा तपस्विनो नास्ति, तदपि वचनमात्रमेव / अथाऽऽत्मन ऋद्धीनां चाऽऽभावे अनुपलम्भो हेतुरुक्तः, सोऽपि स्वसंबन्धी, सर्वसम्बन्धी वा? तत्र न तावदात्मनोऽभावे स्वसम्बन्ध्यनुपलम्भो हेतुः, स्वयं तस्य घटाऽऽदिवदुपभ्यमानत्वात्, यथैव हि घटाऽऽदिगता रूपाऽऽदय उपलभ्यन्ते. तथा आत्मगता अपि ज्ञानसुखाऽऽदय इतिनात्र महदन्तरमुत्पश्यामः। उक्तं चाऽश्वसेनवाचकेन-"आत्मप्रत्यक्ष आत्माऽयम्।" इत्यादि। अथाऽयं न दृग्गोचर इति नास्तीत्युच्यते, नाऽयमप्येकान्तः / यतस्तेनैवोक्तम्- "न च नास्तीह तत्सर्वं , चक्षुषा यन्न गृह्यते।" अन्यथा-चैतन्यमपि न दृग्गोचर इति तस्याऽप्यसत्त्वं स्यात्, अथ तत् स्वसंविदितमिति सदुच्यते, अयमपितथाभूत एवेति सन्नस्तु। उक्तं हि-"अस्त्येव चाऽऽत्मा प्रत्यक्षो, जीवो ह्यात्मानमात्मना। अहमस्मीति संवेत्ति, रूपाऽऽदीनि यथेन्द्रियैः / / 1 / / " इति। किं बहुना? यथा चैतन्यमस्तीत्यभ्युपगम्यते, तथाऽऽत्माऽप्यभ्युपगन्तव्यः, तथा चाऽऽह-''ज्ञानं स्वस्थं परस्थं वा, यथा ज्ञानेन गृह्यते। ज्ञाता स्वस्थः परस्थो वा, तथा ज्ञानेन गृह्यताम्'' // 1 / / इति। अथ सर्वसम्बन्ध्यनुपलम्भ आत्माभावे हेतुः, अयमप्यसिद्धः, अहमस्मीतिप्रत्ययेन प्रतिप्राणि स्वात्मनः केवलिनां च सर्वाऽऽत्मनामुपलम्भस्य प्रतिषेधुमशक्यत्वात् / एवमृद्धीनामप्यभावे सर्वसंबन्ध्यनुपलम्भोऽसिद्धः / स्वसंबन्धी तु नियतदेशकालापेक्षोऽन्यथा वाए प्रथमपक्षे को वा किमाह? क्वचित्कदाचित्तासामनुपलम्भस्य (उपलम्भस्य) चास्माकमपि सम्प्रतत्वात्। द्वितीयपक्षे पुनरनैकान्तिकता, देशाऽऽदिविप्रकृष्टानामनुपलम्भेऽपि सत्त्वात, दृश्यते च क्वचित्कदाचिचरणरेणु स्पर्शनाऽऽदितो रोगोपशमाऽऽदिः; ततश्चैहापि कालान्तरे महाविदेहाऽऽदिषु च सर्वकालमृद्ध्यन्तराणामपि संभवस्यानुमीयमानत्वात् / यदपि वशितोऽस्मीति भोगसुखानामनेन शिरस्तुण्डमुण्डनोपवासाऽऽदिना यातनाऽऽत्मकेन धर्मानुष्ठानेनेति। तदप्यसमीक्षिताभिधानम्। भोगसुखानां दुःखानुषतत्वेन तत्त्ववेदिनामनादेयत्वात्। तथा च वात्स्यायनोऽप्याह। तद्यथा"विषसंपृक्तमन्नमनादेयम्, एवं दुःखानुषक्तं सुखमनादेयमिति / " प्रयोगश्चयद्विपक्षानुविद्धं न तत्तत्त्वतस्तदेव, यथा विषव्यामिश्रमन्नम्, अतृप्तिकाशाशोकाऽऽदिनिमित्तं च वैषयिकं सुखम् / न चास्यासिद्धता, कालत्रये यथा-योगमतृप्त्यादीनां प्रतिप्राणि स्वसंविदितत्वात्, नाऽपि तपसो यातनाऽऽत्मकत्वम्, मनइन्द्रिययोगानामहान्यैव तत्प्रतिपादनात्। उक्तं हि-'मनइन्द्रिययोगानामहानिश्चोदिता जिनैः / यतोऽत्र तत्कथं तस्य, युक्ता स्यात् दुःखरूपता? ||1 // '' शिरस्तुण्डमुण्डनाऽऽदेश्व किश्चित्पीडाऽऽत्मकत्वेऽपि समीहितार्थसम्पादकत्वेन न दुःखदायकता / यदुक्तम्-"दृष्टा चेष्टार्थसंसिद्धौ, कायपीडाऽप्यदुःखदा / रत्नाऽऽदिवणिगादीनां, तद्वदत्रापि भाव्यताम् / / 1 / / " प्रयोगश्चयदिष्टार्थप्रसाधकं न तत् कायपीडाऽऽत्मकत्वेऽपि दुःख