________________ तेउक्काइय 2347 - अभिधानराजेन्द्रः - भाग 4 तेउक्काइय शिप्याज्ञापितो भवति। अथ के पुनस्तेऽध्याहाराऽऽदय इति? उच्यतेअध्याहारो, विपरिणमो, व्यवहितकल्पना, गुणकल्पना, लक्षणा, वाक्यभेदश्चेति। इह च द्वितीयाविभक्तेः सप्तमीपरिणामः कृत इति / ये च तत्राग्नी पर्यापद्यन्ते ते प्राणिनः कृमिपिपीलिकाभ्रमरनकुलाऽऽदयः, तत्रानावपदावन्ति प्राणान् मुञ्चन्तीत्यर्थः / तदेवमग्रिसमारम्भे सति न केवलमग्रिजन्तूनां विनाशः, किं त्वन्येषामपि पृथिवीतृणपत्रकायोमयकचवराऽऽश्रितानां सम्पातिनां च व्यापत्तिरवश्यम्भाविनीति / अत एव च भगवत्यां भगवतोक्तम्-"दो पुरिसा सरिसवया अन्नमन्नेहिं सद्धि अगणिकायं समारंभंति, तत्थ ण एगे पुरिसे अगणिकाय समुज्जालेति, एणे विज्झवेति। तत्थ णं के पुरिसे महाकम्मयराए? के पुरिसे अप्पकम्मयराए? गोयमा ! जे उज्जालेति से महाकम्मयवराए, जे विज्झवेति से अप्पकम्मयराए।" तदेवं प्रभूतसत्त्वोपमईनकरमग्न्यारम्भ विज्ञाय मनोवाकायैः कृतकारितानुमतिभिश्च तत्परिहारः कार्य इति दर्शयितुमाह एत्थ सत्थं असमारंभमाणस्स इचेते आरंभा परिणाया भवंति, तं परिण्णाय मेहावीणेव सयं अगणिसत्थं समारंभे, नेवऽण्णेहिं अगणिसत्थं समारंभावेजा, अगणिसत्थं समारंभमाणे अण्णे न समणुजाणेजा, जस्सेते अगणिकम्मसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे // 38|| त्ति बेमि।। (एत्थ सत्थेत्यादि) अनाग्निकाये शस्त्र स्वकायपरकायभेदभिन्नं समारभमाणस्य व्यापारयत इत्येते आरम्भाः पचनपाचनाऽऽदयो बन्ध- / हेतुत्वेन परिज्ञाता भवन्ति। तथाऽत्रैवाग्रिकाये शस्त्रमसमारंभमाणस्यते आरम्भाः परिज्ञाता भवन्ति / यस्यैते अग्निकायसमारम्भा ज्ञपरिज्ञया परिज्ञाता भवन्ति, प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति, स एव मुनिः परमार्थतः परिज्ञातकर्मेति / ब्रवीमीति पूर्ववदिति / आचा०१ श्रु०१ अ०४उन सम्प्रति तेजस्कायपिण्डमाहतिविहो तेउकाओ, सच्चित्तो मीसओ य अचित्तो। सच्चित्तो पुण दुविहो, निच्छय-ववहारओ चेव / / 41 / / त्रिविधः तेजस्कायः / तद्यथा-सचित्तो, मिश्रोऽचित्तश्च / सचित्तः पुनर्द्विविधः-निश्चयतः, व्यवहारतश्च। निश्चयव्यवहाराभ्यामेव सचित्तस्य द्वैविध्यमाहइट्ठगपागाईणं, बहुमज्झे विजुमाइ निच्छयओ। इंगालाई इयरो, मुम्मुरमाई य मिस्सो उ॥४२॥ इष्टकापाकः प्रतीतः। आदिशब्दात् कुम्भकारपाकेक्षुरसक्वथनचुल्ल्यादिपरिग्रहः / तेषां च बहुमध्यभागे विद्युदादिश्च विधुदुल्काप्रमुखस्तेजस्कायो निश्चयतः सचित्तः, शेषस्तु अङ्गाराऽऽदिकः, अङ्गारोज्वालारहितोऽग्निः , आदिशब्दाद् ज्वालाऽऽदि परिग्रहः। व्यवहारतः सचित्तः। सम्प्रति मिश्र तेजस्कायमाह-(मुम्मुरमाई य मिस्सो उ) मुर्मुरः कारीषोऽग्निः, आदिशब्दादविद्ध्याताऽऽदिपरिग्रहः / इत्थंभूतो मिश्र इति। साम्प्रतमचित्त तेजस्कायपिण्डमाहओयणवंजणपाणग-आयामुसिणोदगं च कुम्मासा। डगलगसरक्खसूई, पिप्पलमाई उ उवओगो।।४३।। ओदनः-शाल्याऽऽदिभक्त, व्यञ्जनं–पत्रशाकतीमनाऽऽदि। पा-नककाजिकम्। तत्र ह्यवश्रावण प्रक्षिप्यते, ततस्तदुपेक्षया काञ्जिकस्यानिकायता। आयामम्-अवश्रावण,उष्णोदकम्-उद्धृतत्रिदण्डम् / एतेषां च पदानां समाहारद्वन्द्वः / चकारो मण्डकाऽऽदिसमुच्चयार्थः / कुल्माषाः पक्वा माषाः। एते च ओदनाऽऽदयोऽग्निनिष्पन्नत्वेनाग्रिकार्यत्वादग्नयो व्यपदिश्यन्ते। भवति च तत्कार्यत्वात्तच्छब्देन व्यपदेशः / यथा-द्रम्मो भक्षितोऽनेनेत्यादौ ओदनाऽऽदयश्चाचित्ताः, तत एतेषामचित्तानिकायत्वेनाभिधानं न विरुध्यते / तथा डगलका:-पक्वेष्टकाखण्डानि, सरजस्कोभस्म, सूची लोहमयी वस्त्रसीवनिका / अथवा(सरक्खसूइ त्ति) रक्षा भस्म, सह रक्षया वर्तते इति सरक्षा सूची। किमुक्तं भवति?रक्षा च, सूची चेति। पिप्पलर्क:-किश्चिद्वक्र: क्षुरविशेषः / आदिशब्दानखरदनिकाऽऽदिपरिग्रहः / एतानि च डगलकाऽऽदीनि पूर्वमग्निरूपतया परिणतान्यासीरन्, ततो भूतपूर्वगत्या संप्रत्यपि अग्निकायत्वेन व्यपदिश्यन्ते, अचित्तानि च / न चैतेषामचित्ताग्निकायस्वाभिधाने विरोधः-...(?) संप्रत्यचित्ताग्निकायस्य प्रयोजनमाह-(उवओगो त्ति) एतेषामोदनाऽऽदीनां य उपयोगो भोजनाऽऽदावुपयुज्यमानता, तदचितानिकायेन साधूनां प्रयोजनम: द्रव्याऽऽदिभेदाच्चतुर्विधत्वमचित्ताग्निकायस्य प्रागिव यथायोग भावनीयम् / उक्तस्तेजस्कायपिण्डः / पिं० ओघा आ०म० कल्पका बृ०। (प्रथमं तेजस्कायोद्दीपनम् ऋषभदेवेन शिक्षितमिति 'उसह' शब्दे द्वितीयभागे 1126 पृष्ठउक्तम्) ('सदीयवसइ' प्रस्तावे साधूनामग्निसेवना प्रदर्शयिष्यते) (विकाले विहरतामग्नि-सेवना 'विहार' शब्दे वक्ष्यते) अथ तेजस्कायहिंसानिषेधमाहजायतेयं न इच्छंति, पावगं जलइत्तए। तिक्खमन्नयरं सत्थं, सव्वओ वि दुरासयं // 33 // जाततेजा अग्निः तं जाततेजसं, नेच्छन्ति मनःप्रभृतिभिरपि पापकं पाप एव पापकस्तं, प्रभूतसत्त्वापकारित्वेनाशुभमित्यर्थः / किं नेच्छन्तीत्याह-ज्वलयितुमुत्पादयितुं, वृद्धिं वा नेतुम्। किंविशिष्टमित्याह-तीक्ष्णं च्छेदकरणाऽऽत्मकम्, अन्यतरत् शस्त्रं सर्वशस्त्रम् / एकधाराऽऽदिशस्त्रव्यवच्छेदेन सर्वतोधारशस्त्रकल्पमिति भावः / अत एव सर्वतोऽपि दुराश्रयं सर्वतोधारत्वेनानाश्रयणीयमिति सूत्रार्थः / / 33 / / एतदेव स्पष्टयन्नाहपाईणं पडिणं वा वि, उड्डे अणुदिसामवि। अहे दाहिणओ वा वि, दहे उत्तरओ वि य॥३४|| अग्निरिति शेषः / प्राच्या प्रतीच्यां वाऽपि, पूर्वाया पश्चिमायां चेत्यर्थः / ऊर्ध्वमनुदिक्ष्वपि, सुपांसुपो भवन्तीति सप्तम्यर्थे षष्ठी। विदिक्ष्वपीत्यर्थः / अधो दक्षिणतश्चापि दहति दाह्यं भस्मीकरोति, उत्तरतोऽपि च सर्वासु दिक्षु विदिक्षु च दहतीति सूत्रार्थः // 34 // यतश्चैवमतःभूयाण-मेस-माघाओ, हव्ववाहोन संसओ। तं पईवपयावट्ठा, संजया किं चि नारभे / / 3 / /