SearchBrowseAboutContactDonate
Page Preview
Page 1003
Loading...
Download File
Download File
Page Text
________________ तिविद्द्व 2325 - अभिधानराजेन्द्रः - भाग 4 तिविट्ठ देव्यास्तस्रा च भद्रायाः, बलदेवः सुतोऽभवत्। चतुर्भिः सूचितः स्पप्रचलोऽचलसौष्ठवः / / 3 / / मृगावती च पुत्र्यासीद्, रूपातिशयशालिनी। जगाम जनक नन्तु, सोगिन्ननवयौवना // 4 // दृष्टा तामनुरागेण, स्वाङ्गपर्यड्डुगां व्यधात्। विवोढुं तामथोपायं, चिकीर्षुर्विससर्ज च // 5 / / पुरप्रधानान्याहूयाऽप्राक्षीदेतत्ततो नृपः / इह यजायते रत्नं, स्यात्तत्कस्येति कथ्यताम्? ||6|| अवोर्चस्ते तवैवेति, त्रिरुपादाय तद्वचः। आनाययत्ततस्तत्रोद्वोढुं राजा मृगावतीम् // 7 // ययुस्ते ब्रीडया सर्वे, पुत्रीमपि मृगावतीम्। मान्धर्वेण विवाहेन, राजा स्वयमुपायत।।८।। भद्रा विरक्ता भोगेभ्यस्त्यक्त्वाऽनाचारिणं नृपम्। सुतमादाय निर्गत्य, प्रययौ दक्षिणापथम् / / 6 / / विरचय्याचलस्तत्र, पुरी माहेश्वरी नवाम्। संस्थाप्य जननीं तत्र, तातोपान्तं ययौ स्वयम्॥१०॥ अग्रे च तत्पितु कौलं नाम व्यलोप्यत। स्वप्रजायाः पतित्वेन, प्रजापतिरितीरितम् / / 1 / / विश्वभूतिश्च्युतः शुक्रान्मृगावत्या अथोदरे। कथितः सप्तभिः स्वप्नैर्विष्णुरित्यवतीर्णवान् / / 12 / / पुण्येष्वहःसु संजज्ञे, तनुभूर्विष्णुरादिमः। त्रिकरण्डकप(ष्ट)ष्ठत्वात्, त्रिपृ(ष्ट) ष्ठ इति संज्ञितः।।१३।। अशीतिधनुरुचाङ्गः, खेलन् भ्रात्रा बलेन सः। द्विसप्ततिकलाऽभिज्ञः, क्रमाद्यौवनमासदत् / / 14 / / विशाखभूतिजीवश्च, भवं भ्रान्त्वाऽथ केसरी। जज्ञे तुङ्ग गिरौ शङ्ख-पुरदेशनिषूदकः ||15|| प्रतिविष्णुः पृच्छति स्मा-श्वग्रीवो मे कुतो मृतिः ? भाविनीति निमित्तज्ञ, सोऽप्याचख्याविदं तदा / / 16 // दृप्तस्तेऽभीश्चण्डवेगं, यो दूतं धर्षयिष्यति। यस्तुङ्ग गिरिसिंह च, हेलयैव हनिष्यति।।१७।। ततः शत पुरे शालीनश्वग्रीवोऽध्यवापयत्। वारकेण महीपालान्, तत्त्राणार्थमथाऽऽदिशत्॥१८|| राज्ञः प्रजापतेः पुत्री, सशुश्राव महौजसौ। ततोऽप्यर्थाचण्डवेग, दूतं तस्मै प्रयुक्तवान् / / 16 / / तदा प्रजापतेरगे, संगीतिरङ्गमागते। अकस्मादागतश्चण्डवेगस्तद्रङ्गभङ्गदः // 20 // अभ्युत्तस्थे भूभुजाऽसौ,तदीयस्वामिशङ्कया। मन्त्री पृष्टः कुमाराभ्यामहंयुः कोऽयमाह सः।।२१।। अश्वग्रीवस्य दूतोऽयं, राजराजस्य दुर्दमः / गच्छन्नयं निवेद्यो नाविति तावूचतुर्निजान्॥२२॥ प्रजापतिस्तमन्येधुर्व्यसृजत्कृतगौरवम्। स्वभटैापितौ तौ च, कुमारावन्वधावताम्॥२३।। तमर्द्धमार्ग प्राप्य स्व-हस्तयोश्चक्रतुः सुखम्। काकवद् लगुडाऽऽपाते, तत्सहायाश्च नेशिरे॥२४॥ (?) ज्ञात्वा प्रजापतिस्तच, दूतमानीय तं गृहे। सत्कृत्योचे दुर्विनयं, माऽऽख्यः कौमारमीशितुः // 25 // आर्मत्युक्त्वा ययौ दूतः, क्ष्माषतेः परमग्रतः। पलाय्य यातैः कथितं, सर्व दूतस्य धर्षणम्॥२६।। तद् दूतोऽपि तथैवाऽऽख्यदलीकान्मा कुपन्नृपः। अश्वग्रीवोऽनुशिष्यान्यं, दूतं प्रेषीत्प्रजापतेः / / 27 / / गत्वोचे रक्ष शालींस्त्वं, सिंहाद्राजाऽऽज्ञयैष सः। राजोवाच सुतावेतत्फलं दूतखलीकृते // 28 // अवारकेऽपि यदभू-दादेशः शालिरक्षणे। इत्युक्त्या प्रस्थितं भूपं, प्रतिबोध्य गतौ सुतौ // 26 // कियकालं कथं सिंहमन्येऽरक्षन्नृपा इति। त्रिपृष्ठ ष्टः शिष्ट तैः, शालीनां परिचारकैः॥३०॥ पत्त्यवभरथैर्वप्र. कृत्वाऽरक्षन् क्षितीश्वराः। कर्षणग्रहणं यावदागता वारकक्रमात् // 31 // स्थास्यतीयच्चिरं कोऽत्र, त्रिपृष्ठः स्माऽऽह तान् प्रति। दर्शाता मम सिंहः स, यैनैकोऽपि निहन्मि तम् // 32 // तुङ्गाऽऽचलगुहायां तैर्दर्शितः केशरी ततः। रथाऽऽरुढी कुमारी तावयासिष्टामुभौ गुहाम्॥३३|| तां गुहामभितो लोकाश्चक्रुः कलकलाऽऽरवम्। तं च पक्षाननः श्रुत्वाऽभ्यागाङ्गम्भापराऽऽननः // 34 // अहं स्थी पत्तिरसौ, युक्तो नौ नैष संगरः। रथात्ततोऽवततारः, त्रिपृष्टः फलकासिभृत् / / 3 / / फलकासी मम करे, एष दाढानखाऽऽयुधः। तदप्यनुचित भाति, तत्तावपि मुमोच सः॥३६॥ दध्या तं प्रेक्ष्य सिंहोऽथ, धाट्यदिको यदागमत्। यद्यानशस्त्रमुक्तिश्वायुर्हन्मि तदेणवत्॥३७॥ विचिन्त्येवं महाकोपादजानानो हरि हरिः। दत्त्वा फालां कराला स, त्रिपृष्ठोपान्तमापतत्॥३८॥ एकेनैव करेणोष्ठाधरौ धृत्वा हरि हरिः। पाटयामास तं जीर्णपट्टांशुकमिव क्षणात्।।३६॥ पुष्पाऽऽभरणवस्वैश्व, वृष्टं देवतया हरौ। शौर्येण विस्मितैर्लो कैस्तुष्टुवे स स्फुटन्मुखैः // 40 // एकाकिना मारितोऽहमिति सिंहः स्फुरस्तदा। गौतमजीवस्तत्सुत-स्तमूचे मा स्म खिद्यथाः / / 41 / / पशुसिंहो नृसिंहेन, मारितोऽसीति का व्यथा ? प्रीतस्तद्वचराा मृत्वा, तुर्याा नारकोऽभवत्।।४२।। कुमारावात्ततत्कृत्ती, वलितौ नगर निजम्। ग्राम्यैरूचे हयग्रीव, स्वैरं तिष्ठ रिपोर्वधात्॥४३॥ तत् श्रुत्वा सोऽथ साशड् कः,प्रैषीद् दूतं प्रजापतेः। सुती प्रेषय मत्पावें, कुर्वेऽमू यत्पृथग नृपौ।।४४।। प्रजापतिर्बभाषेऽहमेष्यामि न सुतौ तु मे। दूतोऽवादीद् न चेदेवं, सजो युद्धाय तद्भव / / 45|| इत्युक्ते धर्षयित्वा तं, कुमारी दूतमूचतुः। यत् शिक्षितभरे ! कुर्याः, दुर्दान्तोऽद्यापि ते प्रभुः / / 46 / / दूताऽऽख्यातो हयग्रीवः, सर्वोघेणाऽचलद्युधि। त्रिपृष्ठः साचलश्चाद्रौ, रथावर्तेऽमिलत्स्वयम्॥४७|| उभयोः सैन्ययोयुद्धे, जायमानेऽतिनिष्टुरे। दोलारुढेव तत्कालं, जयलक्ष्मीः समाभवत्।।४८।। ऊचे त्रिपृष्ठोऽश्वग्रीवं, वीक्ष्यानेकजनक्षयम्। युद्धमस्त्वाश्योरेव, वराकैः किं हतैर्जनैः ? ||46 // आड़ाङ्गियुद्धेऽश्वग्रीवः, खिन्नश्चक्र विमुक्तवान्। त्रिपृष्टोरसि तुम्बेन, चक्रं निपतति स्म तत्॥५०॥ त्रिपृष्ठस्तच्छिरस्तेनैवाच्छिनत्तत्क्षणात्तयोः / पुष्पवृष्टिः कृता देवैराधी विष्णुबलाविति // 51 // तदैव प्रणतातोच, समस्तैरपि राजभिः। भरतक्षेत्रयाभ्याई, चक्रतुर्लीलया वशे / / 5 / /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy