SearchBrowseAboutContactDonate
Page Preview
Page 934
Loading...
Download File
Download File
Page Text
________________ गुण 610- अमिधानराजेन्द्रः - भाग 3 भेधविवक्षया तद्भेदस्यानुभूयमानत्वात् / नचैवमेषां सर्वथा भेद इत्यपि मन्तव्यम्, कथञ्चिदभेदस्याप्यविरोधात् न खल्वेषां स्तम्भकुम्भादिवद्भेदो, नापि स्वरूपवदभेदः, किन्तु धर्म्यपेक्षयाऽभेदः, स्वरूपापेक्षया तु भेद इति। रत्ना०५ परि०ा अनु०। सहभावी गुणो धर्मः, पर्याय: क्रममाव्यथ। भिन्ना अभिन्नास्विविधाः, त्रिलक्षणयुता इमे // 2 // (सहभावीति) द्रव्यस्य सहभावी यावव्यभावी यो धर्मः स गुण उच्यते। यथा जीवद्रव्यस्योपयोगाख्यो गुणः, पुद्गलस्य ग्रहणं गुणः, धर्मास्तिकायस्य गतिहेतुत्वं गुणः, अधर्मास्तिकायस्य स्थितिहेतुत्वं गुण:, कालस्य वर्तनाहेतुत्वं गुणः, यदैव द्रव्यमुत्पद्यतेतदैव समवेतास्तेन द्रव्येण गुणा उत्वद्यन्ते, पौर्वापर्यभाव एव नास्ति, गुणगुणिनो: समानसामग्रीकत्वात्, सध्येतरविषाणवत् इति। अनादिनिधनानां द्रव्यगुवानाम्, उत्पत्तिदर्शनं व्यवहारतः कृष्णादिघटवत्। अथ क्रमभावी अयावद्दव्यभावी पर्यायः / यथा-जीवस्य नरकादिपर्यायाः, पुद्गलस्य रूपरसस्पर्शादिपर्यायाः, धर्मस्य व्यञ्जनार्थपर्यायौ, अधर्मय व्यञ्जनार्थपर्यायौ, कालस्य व्यञ्जनार्थपर्यायौ, आकाशस्य व्यञ्जनार्थपर्यायौ। एवं द्रव्याणां संख्याकृतो भेदः, लक्षणादिकृतोऽभेदः / प्रदेशा विभागतः त्रिविधा:, उपचारेण नवविधाः, एकैकस्य त्रिकस्य त्रैविध्यात्। तथा त्रिलक्षणा:-- उत्पाद व्यय-ध्रौव्य-युक्ताः / इत्थं षडपि जैनप्रमाणप्राप्तानि द्रव्याणि, इति द्रव्यगुणपर्यायाः प्रत्येक परस्परं भिन्ना अभिन्नास्विविधास्त्रिलक्षणयुता: सन्तीति व्याख्यायेयम्॥२॥ (8) अथ द्रव्येणसह गुणपर्याययोभेदंदर्शयन्नाहमुक्ताभ्य: श्वेतादिभ्यो, मुक्तादाम यथा पुथक् / गुणपर्याययोर्व्यक्ते-द्रव्यशक्तिस्तथाऽऽश्रिता ||3|| ऊर्ध्वतादिकसामान्यं, पूर्वापरगुणोदयम्। पिण्डास्थ्यादिकसंस्थाना-ऽनुगेका मृद्यथा स्थिता // 4 // (मुक्तति) यथा मुक्ताभ्य: मौक्तिकानां श्वेततादिभ्यश्च मौक्तिमाला भिन्ना वर्तते, तथैव द्रव्यशक्तिर्गुणपर्यायव्यक्तिभ्यां भिन्नाऽस्ति। तथाऽत्र समाधि: गुणपर्याययोर्व्यक्तेः सकाशात् पृथगपि द्रव्यशक्तिरेकप्रदेशसम्बन्धेनाश्रिता अभिन्ना, अपृथक् इत्यर्थः। श्वेततादयो माक्तिकानां गुणस्थानिनः, मौक्तिका: पर्यायस्थानिन: / एतद् द्वयं भिन्नमपि द्रव्यस्थाने मुक्तादानि संगतमभिन्नं सत् मुक्तादामेति व्यवहारो जायते / इति दृष्टान्तयोजना / अथ च-घटादिद्रव्यं प्रत्यक्षप्रमाणेन सामान्यविशेषरूपमनुभवन् सामान्योपयोगेन मृत्तिक्रादिसामान्य भासते, विशेषोपयोगेन घटादिविशेषं च भासते, तत्र यत्सामान्यभानं तत् द्रव्यरूपं, यश्च विशेष: स गुणपर्यायरूयो ज्ञेयः / / 3 / / अथ सामान्य द्विप्रकारं दर्शयन्नाह-पूर्वः प्रथमोऽपरोऽग्रे-मनो यो गुणो विशेषस्तयोरुदयं कारणं पूर्वापरगुणोदयं पूर्वापरपर्याययोररनुगतमेकं द्रव्यं, त्रिकालानुयायी यो वस्त्वंश: तदूध्वंतासामान्यमित्यभिधीयते। निदर्शनमुक्तानमेव। यथा पिण्डो मृत्पिण्ड: अस्थि: कुसूल इत्यादयोऽनेके संस्थाना आकृतयः, तासु अनुगता पूर्वीपरसाधारण परिणामद्रव्यरूपा मृतिका तथाऽकारा स्थिता, एतदूर्ध्वतासामान्यं कथ्यते। यदि च पिण्डकुसूलादि-पर्यायेषु अनुगतमेकं मृद् द्रव्यं न कथ्यते तर्हि घटादिपर्यायेषु अनुगतं घटादिद्रव्यमपि न कथ्यते / तथा च-सर्वं विशेषरूपं भवति, क्षणिकवादिबौद्धमतमायाति।अथवा-सर्वद्रव्येषु एकमेव द्रव्यमागच्छति इति / ततः घटादिद्रव्ये / अथ च तदन्तर्वति सामान्यमृदादिद्रव्ये चाऽनुभवानुसारेण परापरोर्ध्वता सामान्यमवश्यमङ्गीकर्तव्यम्। घटादिद्रव्याणि स्तोकपर्याव्यापीनि, पुनर्मुदादिद्रव्याणि बहुपर्यायव्यापीनि सन्ति, इत्थं नारकादिद्रव्यणां विशेषो ज्ञातव्यः / एतत्सर्वभपि नैगप्रनयमतम् / तथा शुद्धसेग्रहनयमते तु सदद्वैतवादेन एकमेव द्रव्यमापद्येतेति विज्ञेयम्॥४॥ द्रव्या०२ अध्या० स०) (E) अथ च व्यक्ति रूपौ गुणपर्यायौ वर्णयन्नाहस्वस्वतात्या हि भूयस्यो, गुणपर्यायव्यक्तयः / शक्तिरूपो गुण: केषां-चिन्मते तन्मृषाऽऽगमे ||10|| (स्वेति) स्वस्वजात्या सहभाविक्रमभाविविकल्पना-कृन्निजस्वभावेन वर्तमाना गुणपर्यायव्यक्तयो भूयस्यो बहुप्रकाराः सन्ति इति / अत्र कश्चिद्दिगम्बरानुसारी शक्तिरूपो गुण इति कथयन्नाह-यतो द्रव्यपर्यायकारणं द्रव्यम् / गुणपर्यायकारणं गुणः, द्रव्यपर्याययोर्द्रव्यस्याऽन्यथाभावः / यथा-नारनारकादयो, यथावा द्यणुकत्र्यणुकादयः। पुनर्गुणपर्याययोर्गुणस्यान्यथाभावो, यथामतिश्रुतादिविशेषः / अथ वा भवस्थसिद्धादिविशेष: / एतौ द्रव्यगुणौ स्वस्वजात्या शाश्वतौ, पर्यायेण चाशाश्वतो, इत्थं संगिरन्ते। परमार्थतस्तु आगमयुक्त्या एतत्सर्वं मृषा असत्कल्पनमित्यवधार्य, प्रमाणाभावात् // 10 // अथ गुणपर्याययोरैक्यं प्रदर्शयन्नाहपर्यायान्न गुणो भिन्नः, संमतिग्रन्थसंमतः। यस्य भेदो विवक्षातः, स कथं कथ्यते पुथक?||११|| पर्यायात् गुणो भिन्नः पृथक्न , किंतुपर्याय एव गुण इत्यर्थः। कीदृशो गुण:? संमतिग्रन्थसंमत: संमतिग्रन्थे श्रीमत्सिद्धसेनैराचार्येक्तवाचा समुच्चारितः। तथा च तद्ग्रन्थ:-- ''परिगमणं पज्जओ, अणेगकरणं गुण त्ति तुल्लट्ठा / / तह वि न गुण त्ति भण्णइ, पज्जवणयदेसणं जम्मा "||106 // इति। तथा क्रमभावित्वं पर्यायलक्षणं, तथवानेककाणमपि पर्यायस्य लक्षणान्तरमेवास्ति। द्रव्यं तु एकमेवास्ते, ज्ञानदर्शनादिभेदकार्यपि पर्याय एव, परं गुणो न कथ्यते। यस्मात् द्रव्यपर्याययोर्भगवतो देशना वर्तते, परं गुणपर्याययोर्देशना न विद्यते / अयं गाथार्थः।।१०६।। एवं सति गुण: पर्याययादिन्नोन, तर्हिद्रव्यं 1 गुण:२ पर्याय 3 श्चेति नामत्रयं पृथक् कथं संकलितम्? इत्थं केचन व्याचक्षते / तानाह यस्य गुणस्य विवक्षाकुतो भेद: तस्य नामान्तरमपि स्यात्। विवक्षा हि नयस्य कल्पना, यथातैलस्य धारा, अत्र तैलात् धारा भिन्ना प्रदर्शिता, तथाऽपि भिन्ना नास्ति, तथैव सहभावी गुणः, कुमभावी पर्यायः, इति भिन्नत्वं विवक्षित, परं परमार्थदृशा भिन्नत्वं नास्ति। तस्माद्यस्य भेद उपचरितो भवेत् स कथा भिन्नत्वेन व्यपदिश्यते? यथा उपचरितगुणे दृष्टान्तवचनं गौर्दोग्घि इत्यत्र गौर्न दोधितद्वत्, उपचरितगुणोऽपिशक्तित्वंनधत्ते इति॥११॥ द्रव्या०२ अध्या०। आ०म० अथये च गुणः पर्यायाद्भिन्न इति प्रमाणयन्ति तान् दूपयन्नाहगुणो द्रव्यं तृतीयं चेत् तृतीयोऽपि नयस्तदा।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy