SearchBrowseAboutContactDonate
Page Preview
Page 908
Loading...
Download File
Download File
Page Text
________________ गिलाण 854 - अभिधानराजेन्द्रः - भाग 3 गिलाण थ्यादृष्टिः 7, अभिग्रहीतमिथ्यादृष्टिः८, परतीर्थिकश्चिंतिः, (दिट्टत्थे यत्ति) दृष्ट उपलब्धो अर्थः छेदश्रुताभिधेयरूपो येन स दृष्टार्थी, गीतार्थ इत्यर्थः / एतत्पदं सप्रतिपक्षमत्र सर्वत्र योजनीयम्। तद्यथा-य: सेविनः स गीतार्थो वा स्यादगीतार्थो वा / एवमसंविग्नालिङ्गस्थश्रावकसज्ञिष्वपि गीतार्थमगीतार्थत्वं च दृष्टव्यम् तथा चूर्णिकृता व्याख्यातत्वात् / अननभिगृहीतादयस्तु वयोऽपि नियमादगीतार्थाः ।(इड्डि त्ति) संविनसंविनौ नियमादवृद्धिकौ, शेषास्तुऋद्धिमन्तो वा अनुद्धिमन्तो वा भवेयुः / सर्वेऽपि चैते प्रत्येकं द्विधा-कुशला अकुशलाश्च, गत्यागतिर्विचारणिका, सा चामीणां कर्त्तव्या / तद्यथा-प्रथमा संविग्रगीतार्थेन चिकित्साकर्म कारयितव्यम् , अथासौ न लभ्यते ततोऽसंविग्नगीतार्थेन, तदप्राप्तावसं विग्नागीतार्थेनाऽपि / एवं लिङ्ग स्थादिष्वपि संक्षिपर्यन्तेषु भावनीयम्, तेषां संप्राप्तौ पूर्वमनभिगृहीतमिथ्यादृष्टिना, ततोऽभिगृहीतमिथ्यात्वेन, तदनन्तरं परतीर्थिकेनापि कारयितव्यम् / एते च पूर्वमनृद्धि,मन्तो गवेषणोया:, न ऋद्धि,मन्तः, तदीयगृहेषु प्रवेशतया बहुदोषसद्भावात् एवं ते च यदि चिकित्साकुशला भवन्ति तत इत्थं क्रमः प्रतिपत्तव्य:- सविनगीतार्थः सोऽकुशली, यस्त्व संविनगीतार्थः स कुशल:, तत: संविनगीतार्थ परित्यज्यासंविग्नगीतार्थेन कारणीयः / एवं बहून्यप्यपान्तराले परित्यज्य य: कुशलस्तेन चैकित्स्यं कारयितव्यम् / एषा गत्यागतिः प्रतिपत्तव्या। यता-(इड्डिगइरागइ त्ति) ऋद्धिमति गत्यागती कुर्वाणे महदधिकरणं भवति, अतोऽनृद्धिना कारयितव्यम् / नचैतत् स्वमनीषिकाविजृम्भितम् / यत आह विशेषचूर्णिकृत्-'आह वा गइरागइ ति, इड्डिमंताण इंतजंताणं अहिगरणदोसा, तम्हा अणिड्डिणा कारेयव्वं ति"॥ अमुमेवार्थमपराचार्यपरिपाट्या दर्शयतिसंविग्गेतर लिंगी, वइअवइअणागाढआगाठे। परउत्थिय अट्ठमए, अडीगइरागई कुसले॥ संविग्नः 1, इतरश्चासंविग्न:२, लिङ्गी चेति त्रयोऽपि प्राग्वत् 3, प्रती प्रतिपन्नाणुव्रतः ४,अब्रती अधिरतसम्यग्दृष्टिः 5, अनागाढाऽनभिगृहीतदर्शनविशेष:६, अगाढोऽभिगृहीतमिथ्या-दर्शन: 7, परयूथिकः शाक्यपरिब्राजकादिरष्टमः 8 / "इड्ढीगइरागइ कुसले ति" व्याख्यानार्थमनन्रोक्तक्रम-विपर्यासे प्रायश्चित्तमाहवोचत्थे चउ लहुगा, अगियत्थे चउरों मासऽणुग्घाया। चउरो य अणुग्घाया, एवमकुसलेण करणं तू॥ संविग्रं गीतार्थं मुक्त्वा असंविग्नगीतार्थेन कारयति, एवमादिविपर्यस्तकरणे चत्वारो लघवः, गीतार्थं मुक्त्वा अगीतार्थेन कारयति चत्वारो मासा अनुद्धाता:, कुशलं विहायाऽकुशलेन कारयति चत्वारोऽनुद्धता मासा : यत एवमतः कुशलेन चिकित्साकारणमनुज्ञातम्। (21) अथ वैद्यसमीपं गच्छतां विधिममिधित्सुराहचोयगपुच्छाागमणे, पमाणउवगरणसउणवावारे। संगारो य गिहीणं उवएसो चेव तुलणाय॥ प्रथमतो नोदकपृच्छा वक्ताव्या, ततो गमनं वैद्यसकाशे साधूनां, ततस्तेषामेव प्रमाणं, तत उपकरणं, ततः शकुना:, तदनन्तरं वैद्यस्य व्यापार: प्रशस्ताप्रशस्तरूपः, ततःसंगार: संकेतो गृहिणां पश्चातकृतादीनां यथा कर्तयः, ततो वैद्यनौपधादिविषय उपदेशः, यथा दीयते, ततस्तमुपदेशं श्रुत्वा यथा स्वयं तुलना कर्त्तव्या / तदेतत्सर्वमपि वक्तव्यमिति द्वारगाथासमाससार्थः / अथ विस्तारार्थः प्रतिपाद्यते, तत्र प्रथमं नोदकपृच्छाद्वारं शिष्य: पृच्छति-किंग्लानो वैद्यसमीपं नीयताम् ? अथ वैद्य एव ग्लानसकाशमानीयताम् ? अत्र कश्चिदाचार्यदेशीयः प्रतिवचनमाहपाढुडिय त्तिय एगो, नेयव्वो गिलाण एव विज्जघरं। एवं तत्थ भणंते, चाउम्मासा भवे गुरुगा। एकः कश्चित्प्राह-वैोब्लानान्तिकमानीयमाने प्राभृतिका वक्ष्यमाणलक्षणा भवति, अतो ग्लान एव वैद्यगृह नेतव्यः / इत्थमाचार्यदेशीयेनोक्ते सूरिराह-एवं तत्र ग्लाननयनविषये भणतो भवतश्चत्वारो मासा गुरुका भवन्ति। केयं पुन:प्राभृतिकेति? अत आहरहहत्थिजाणतुरए, अतुरंगाईहि इत्ति कायवहो। आसण मट्टिय उदए, कुरुकुय सघरे उ परजोग्गो।। रथहस्तिनौ प्रतीतौ, यानं शिबिकादि, तुरगः प्रसिद्धः, अतुरङ्गा गन्त्री, एतैरादिशब्दादपरेण वा विच्छनायाति आगच्छति वैद्ये कायानां पृथिव्यादीनां वधो भवति।तथा समायातस्या सनंदातव्यं,ग्लानस्य च शरीरे परामृष्ट व्रणादिपाटने वा कृते कुरुकुचाकारापणे मृत्तिकायाउदकस्य च बधो भवति, स्वगृहे तु परयोगेण सर्वमपि भवति, न साधूनां किमप्यधिकरणं भवतीत्यर्थः। एषा प्राभृतिका वैद्ये ग्लानसमीपमानीयमाने यतो भवति अतः किमिति?,आहलिंगत्थमाइयाणं, छण्डं वेजाण गम्म उम्मूलं। संविग्गगमसंविग्गे, उवस्सगं चेव आणज्जा।। लिङ्गस्थादीनां षण्णामपि वैद्याना गृहं ग्लान गृहीत्वा गम्यताम, नैते उपाश्रयमानेतव्यः, अधिकरणदोषभयात् / संविग्नो ऽसंविनश्च एता द्वावप्युपाश्रयमेवानयेत, दोषाभावात्।। एवं परणोक्त सूरिराहवातातवपरितावण, मयपुच्छा सुण्ण किमु तरणकुमी। स चेव य पाहुडिया, उवस्सए फासुया सा उ॥ ग्लानो वैद्यगृहं नीयमानो वातनाऽऽतपेनच महतीं परितापना मनुभवति (मयपुच्छ त्ति) लोकः तं तथा नीयमानं दृष्ट्वा पृच्छतिकिमेष मृतो यदेवं नीयते ?(सुण्णे त्ति) स ग्लानो नीयमानोऽपान्तराले अपद्राणः, ततो वैद्येन यावत् मुखमुद्घाटितं तावत् शून्यंजीवरहितंशवं तिष्ठतीति विज्ञाय ब्रूयात किमदियं गृहं श्मशानकुटीयदेवं मृतमानयत? ततः स वैद्यः शवस्य स्पृष्टोऽहमिति कृत्वा सचेल: स्नायात, फलहकाभ्यन्तरे वा छगणपानीय दापयेत्, ततो न तु सैव प्राभृतिका समधिकतरा भवेत्, उपाश्रये पुन: प्रशुकपानाकादिना सा क्रियते तेनानका विराधना भवतीति / गत नोदकपृच्छाद्वारम्। (22) अथ गमनद्वारमाहउग्गहधारणकुसले, दक्खे परिणाामए य पिपधम्मे।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy