________________ खुड्डागणियंठ '१५२-अभिधानराजेन्द्रः भाग-३ खुड्डागभव ये केचन ज्ञानवादिनःशरीरे शक्ताः सन्ति, शरीरे सुखान्वेषिणः सन्ति। तथा-पुनये वर्णे शरीरस्य गौरादिके, च पुनस्तथारूपे सुन्दरनयननासादिके, चशब्दात् शब्दे रसेगन्धे स्पर्शच। सर्वथा मनसा कायेन वाक्येन सक्ताः संलग्राः सन्ति ! ते सर्वे दुःखसम्भवाः दुःखस्य संभवा दुःखभाजनं भवन्ति। मृगपतङ्गमीनधुपमातङ्गवत्। इहलोके यथा मरणदुःखभाजः मृताः, तथा परलोकेऽप्यार्तध्यानेन दुःखिनः स्युरित्यर्थः // 12 // आवन्नादीहमद्धाणं,संसारम्मि अणन्तए। तम्हा सव्वदिसं पस्स, अप्पमत्तो परिव्वए॥१३।। ते ज्ञानवादिनो विषयिणः अनन्तके अपारे संसारे दीर्घ मध्वानं दीर्घ मार्गमापन्नाः प्राप्ताः सन्ति। तस्मात्कारणात्सर्वां दिशं भवभ्रमणरूपाम् / अष्टादश भावदिशः दृष्ट्वा साधुरप्रमत्तः प्रमादरहितः सन् परिव्रजेत् विचरेत् ।अष्टादश भावदिशश्च इमाः "पुढबि 1 जल २जलण ३वाऊ४मूला 5 खंध 6 गा७ पोरदीया य८। विहति 10 चउ 11 पंचिंदियतिरि१२ नारया 13 देवसंघाया 14 // 1 // समुच्छिम 15 कम्मा १६कम्मगा य 17 मणुया 18 तहतरद्दीवा 181 भावदिसा दिस्सइ जं, संसारी नियमेआहिं" ||2|| इति। संसारे प्रमादिनो जीवा इमासु अष्टादशभावदिशासु पुनः पुनर्भमन्तीत्यर्थः॥१३॥ वहिया उडमादाय, नावकंखे कयाइ वि। पुथ्वकम्मक्खयहाए, इमं देहं समुद्धरे ||14|| साधुः पूर्वकर्मक्षयार्थमिमं देहं समुद्धरेत, सम्यक् शुद्धाहारेण धारयेत्। पुनः कदापि च परीषहोपसर्गादिभिः पीडितोऽपि न कस्यापि साहाय्यमवकाङ्केत् अभिलषेत् / अथवा-कदापि विषयादिभ्यो न स्पृहयेत् / किं कृत्वा?-वहिया) संसारादहिस्तात् संसारादहिभूतमूर्द्ध लोकाग्रस्थानं मोक्षमादाय अभिलष्य // 14 // विगिंच कम्मणो हेळं, कालकंखी परिवए। मायं पिंडस्स पाणस्स, कडं लभ्रूण भक्खए / / 15 / / कालकाजी अवसरज्ञः साधुः कर्मणां हेतुं कर्मणां कारणं मिथ्यात्वाविरतिकषाययोगादिकम् (विगिंच) विविच्य आत्मनः सकाशाद् पृथक्कृत्य परित्यजेत्संयममार्ग सञ्चरेत् / कालं स्वक्रियानुष्ठानस्य अवसरंकासतीत्येवंशीलः कालकांक्षी, पुनःससाधुः पिण्डस्य आहारस्य तथा-पानस्य पानीयस्य मात्रां परिमाणं लब्ध्वा भक्षयेत, यावत्या मात्रया आत्मसंयमनिर्वाहः स्यात्, तावत्परिमाणम् आहारं पानीयं च गृहीत्वा, आहारं पानीयं च कुर्यादित्यर्थः / कथंभूतमाहारम् ?-(कर्ड) गृहस्थेन आत्मार्थ कृतं, प्राकृतत्वात् विभक्तिव्यत्ययः / / 15 // संनिहिं च न कुट्विजा, लेवमायाएँ संजए। पक्खी पत्तं समादाय, निरविक्खो परिष्वए॥१६॥ च पुनः संयतः साधुर्लेपमात्रयापि संनिधिं न कुर्यात् लेपस्य मात्रा | लेपमात्रा तया लेपमात्रया, सं सम्यक्प्रकारेण निधीयते स्थाप्यते दुर्गती आत्मा येन स सन्निधिः, घृतगुडादिसञ्चयस्तं न कुर्यात्, यावता पात्रं लिप्यते तावन्मात्रमपि घृतादिकं न सञ्चयेत्। भिक्षुराहारं कृत्वा (पत्तं) पात्रं समादाय गृहीत्वा निरपेक्षः सनिःस्पृहः सन्पविजेत, साधुमार्गे प्रवर्तेत / क इव?.(पक्खी इव) यथा-पक्षी आहारं कृत्वा (पत्तं) पत्रं तनूरुहमात्रं गृहीत्वा उड्डीयते तथा साधुरपि कुक्षिसंवलो भवेत्॥१६।। एसणासमिओ लज्जू, गामे अनिअओचरे। अप्पमत्तोपमत्तेहि,पिंडवायं गवेसए॥१७॥ एषणासमितो निर्दोषाहारग्राहीग्रामे नगरेवा, अनियतो नित्यवासरहितः सन् चरेत् संयममार्गे प्रवर्तेत / कीदृशः साधुः?- (लज्जू) लज्जालुः लद्धा संयमस्तेन सहितः। पुनः कीदृशः?-अप्रमत्तःप्रमादरहितः। पुनः साधुः?-(पमत्तेहिं इति) प्रमत्तेभ्यो गृहस्येभ्यः पिण्डपातं भिक्षां गवेषयेत् गृह्णीत / प्राकृतत्वात्पञ्चमीस्थाने तृतीया / / 17 / / एवं से उदाहु, अणुत्तरनाणी अणुत्तरदंसी अणुत्तरनाणदसणधरे अरहा नायपुत्ते भयवं वेसालिए वियाहिए त्ति वेमि||१५|| सुधर्मास्वामी जम्बूस्वामिनं प्रत्याह-हेजम्बु ! (से इति) स अर्हन् ज्ञातपुत्रो महावीर एवं (उदाहु) उदाहृतवान् / अहं तवाग्रे इति ब्रवीमि। अर्हन् इन्द्रादिभिः पूज्यः ज्ञातः प्रसिद्धः सिद्धार्थक्षत्रियः तस्य पुत्रो ज्ञातपुत्रः / कीदृशः महावीरः?-भगवान् अष्ट महाप्रतिहार्याद्यतिशयमाहत्म्ययुक्तः / पुनः कीदृशः? विशाला त्रिशला तस्याः पुत्रो वैशालिकः। अथवा-विशालाः शिष्य-तीर्थ-यशःप्रभृतयो गुणाः अस्येति वैशालिकः। पुनः कीदृशो महावीरः-(वियाहिए इति) व्याख्यातविशेषण आख्याता द्वादशसु परिषदासु समवसरणे धर्मोपदेशं व्याख्याता, धर्मोपदेशक इत्यर्थः / पुनः कीदृशो महावीरः?-अनुत्तरज्ञानी सर्वोत्कृष्टज्ञानधारी / पुनः कीदृशः ?-अनुत्तरदर्शी अनुत्तरं सर्वोत्कृष्टं पश्यतीत्येवंशीलोऽनुत्तरदर्शी / पुनः कीदृशः?-अनुत्तरज्ञानदर्शनधरः ज्ञानं च दर्शनंच ज्ञानदर्शने, अनुत्तरे च ते ज्ञानदर्शनेच अनुत्तज्ञानदर्शने, अनुत्तरज्ञानदर्शने धरतीति अनुत्तरज्ञानदर्शनधरः, केवलवरज्ञानदर्शधारी इत्यर्थः / अत्र पूर्वम् अनुत्तरज्ञानी अनुत्तरदर्शी इति विशेषणद्वयं मुक्त्वा पुनरनुत्तरज्ञानदर्शनधर इति विशेषणमुक्तं, तेन केवलज्ञानकेवलदर्शनयोरेकसमयान्तरा युगपदुत्पत्तिः सूचिता, अनयोः कथञ्चिद्भेदोऽभेदश्च सूचितः, पुनरुक्तिदोषो न ज्ञेयः // 18 // इति क्षुल्लक निर्गन्थित्वाध्ययनं संपूर्णम् अत्राध्ययने क्षुल्लकस्य साधोर्निर्ग्रन्थित्वमुक्तमित्यर्थः / उत्त०६अ०॥ खुडागनिरगंथसुत्त न० (क्षुल्लकनिम्रन्थसूत्र) क्षुल्लकनिर्ग्रन्थनामकसूत्रे षष्ठे उत्तराध्ययने, उत्त०६ अ०। खुशागभव पुं० (क्षुल्लकभव) क्षुल्लकः सर्वभवापेक्षया लघीयान् भवतीति क्षुल्लकभवः / तस्मिन् क्षुल्लकभवग्रहणं च सर्वेषामप्यौदारिकशरीरिणां भवतीत्यवसेयम्, भगवत्यामेवमेवोक्तत्वात्; कर्मप्रकृत्यादिषु औदारिकशरीरिणां तिर्यड्मनुष्यणामायुषां जघन्यस्थितिः क्षुल्लकभवग्रहणरूपायाः प्रतिपादनाचा यत्पुनरावश्यकटीकायांक्षुल्लकभवग्रहणवनस्पतिष्वेव प्राप्यते इत्युक्तं तन्मतान्तरमित्यवीसयते इति / साम्प्रतमेकस्मिन् क्षुल्लकभवग्रहणे आवलिकाद्वारेण कालमानं निरूपयितुकामो यावत्यः आवलिका ए