SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ खित्तचित्त ७४४-अभिधानराजेन्द्रः भाग-३ खित्तचित्त षां तथारूपं भावमिङ्गिताकारं कुशलो ज्ञात्वा न ददाति न प्रयच्छति। न तेषामासन्न प्रदेशे नयतीति भावः / कुतः ? इति आह--मा एतं गृहस्थीकुर्युरिति हेतोः। सम्प्रति 'तीसु विजयणा' इत्येतद्व्याख्यानयतिआहारनुवहिसेज्जा-उम्गमउप्पायणादिसुजयंता। वायादि खोभम्मि वि, जयंति पत्तेय मिस्सा वा॥ आहारे उपधौ शय्यायां च विषये उद्गमोत्पादनादिषु, आदिशब्दादेषणादिदोषपरिग्रहः / यतन्तेप्रयत्नपरा भवन्ति। उद्गमोत्पादनादिदोषविशुद्धाहाराद्युत्पादनेन प्रतिचरन्तीति भावः / एषा यतना दैविके क्षिप्तचित्तत्वे द्रष्टव्या! एवं वातादिना धातुक्षोभेऽपि प्रत्येकं साम्भोगिका मिश्रा वा असाम्भोगिकैः संमिश्रा वा पूर्वोक्तप्रकारेण यतन्ते। पुटवं दिहो उ विहीं, इह वि करेत्ताण होति तह चेव। तेगिच्छंमि कयम्मी; आदेसा तिन्नि सुद्धो वा।। यः पूर्व कल्पाध्ययने ग्लानस्तत्र उद्दिष्टः प्रतिपादितो विधिः, स एव इहापि क्षिप्तचित्तसूत्रेऽपि वैयावृत्यं कुर्वतातथैव भवति ज्ञातव्यः / चैकिस्ये च चिकित्सायाः कर्मणि च कृते प्रगुणीभूते च तस्मिन् त्रयः आदेशाः / एके ब्रुवते-गुरुको व्यवहारः प्रस्थापयितव्यः। अपरेब्रुवते-लघुकः। अन्ये आचक्षते-लघुस्वकः / तत्र तृतीयः आदेशः प्रमाणं, सूत्रोपदिष्टत्वात्। अथवा स शुद्धो न प्रायश्चित्तभाक् / परवशतया रागद्वेषाभावेन प्रतिसेवनादेव विभावयिषु रिदमाहचउरो यहुति भंगा, तेसिं वयणम्मि होति पण्ण्णवणा। परिसाए मज्झम्मी, पट्ठवणा होइ पच्छित्ते॥ इह चारित्रविषये बृद्धिहान्यादिगताश्चत्वारो भवन्ति भङ्गाः / ते चाग्रे वक्ष्यन्ते-येषां च भङ्गानां वचनेन, गाथायां सप्तमी तृतीयार्थे, भवन्ति पर्षदो मध्ये प्रज्ञापना प्ररूपणा तदनन्तरं यदि भवति शुद्धिमात्रनिमित्तं प्रायश्चित्तं दातव्यम्। ततस्तस्य प्रायश्चित्तस्य लघुकस्वरूपस्य, गाथायां सप्तमी षष्ठ्यर्था, भवति प्रस्थापनादानमिति। सम्प्रति चतुरो भङ्गान् कथयन् प्रायश्चित्तदानाभावं भावयतिवकृति हायति उभयं, अवट्टियं च चरणं भवे चउहा। खइयं तहोवसमियं, मीस अह खायखित्तं च // कस्यापि चारित्रं वर्द्धते, कस्यापि हीयते, कस्यापि वर्द्धते हीयते च, कस्याप्यवस्थितं वर्तते। एते चत्वारो भङ्गाश्चारित्रस्य।साम्प्रतममीषामेव चतुर्णा भङ्गानां यथासंख्येन विषयान्प्रदर्शयति- (खइयमित्यादि) क्षपकश्रेणिं प्रतिपन्ने क्षायिकं चरणं वर्तते / उपशमश्रेणीतः प्रतिपतने औपशमिकं चरणहानिमुपगच्छति। क्षायोपशमिकं तद्रागद्वेषोत्कर्षापकर्षवशतः क्षीयते परिवर्द्धते च यथा क्षिप्तं च 'पदैकदेशे पदसमुदायोपचारात्' क्षिप्तचित्तचारित्रं चावस्थितं ख्यातचारित्रे सर्वथा रागद्वेषोदयाभावात्, क्षिप्तचित्तचारित्रे परवशतया प्रवृत्तेः ततो रागद्वेषाभावात्तीव्र तदेवं यतः क्षिप्तचित्ते चारित्रमवस्थितमसौ प्रायश्चित्तभागिति। पर आहननुस क्षिप्तचित्त आश्रवद्वारेषु चिरकालं प्रवर्त्तितः बहुविधं वाऽसमञ्जसं तेन प्रलपितं लोकलोकोत्तरविरुद्धं च / समाचरितम्। ततः कथमयमप्राश्चित्तभाक् ? अत्र सूरिराहकामं आसवदारे-सु वट्टितो पलवियं बहुविहं च। लोगविरुद्धा य पया, लोगोत्तरिया स आइण्णा / / काममित्यनुमतौ, अनुमतमेतत् / यथा स आश्रवद्वारेषु चिरकालं प्रवर्तितो बहुविधं च तेन प्रलपितं लोविरुद्धानि लोकोत्तरिकाणि च, लोकोत्तरविरूद्धानि च पदानि आचीर्णानि प्रतिसेवितानि। नय बंधहेउविगल-तणेण कम्मस्स उवचओ होइ। लोगो वि एत्थ सक्खी,जह एस परवसो कासी।। तथाऽपि च नैव तस्य च क्षिप्तचित्तस्य बन्धहेतुविकलत्वेन बन्धहेतवो रागद्वेषास्तद्विकलत्वेन तद्रहितत्वेन कर्मण उपचयो भवति। कर्मोपचयस्य रागद्वेषाधीनत्वात्। तस्य च रागद्वेषविकलत्वात्। न च तद्रागद्वेषविकलत्वं वचनमात्रसिद्धम्, यतो लोकोऽप्यत्रास्मिन्विषये साक्षी, यथा एष सर्व परवशोऽकार्षीदिती / ततो रागद्वेषाभावान्न कर्मोपचयः / तस्य तदनुगत्वात्। तथा चाहरागद्दोसाणुगया, जीवा कम्मस्स वंधगा हुंति। रागादिविसेसेण वि, बंधविसेसो वि अविगीतो॥ रागाद्वेषाभ्यामनुगताः सन्तो जीवाः कर्मणो बन्धका भवन्ति। ततो रागद्वेषातारतम्येन बन्धविशेषो बन्धतरतमभावोऽविगीतो विप्रतिपन्नः। ततः क्षिप्तचित्तस्य रागद्वेषाभावतः कर्मोपचयामावः / अमुमेवार्थ दृष्टान्तेन द्रढयतिकुणमाणी वि य चिट्ठा, परतंता णट्टिया बहुविहा उ। किरियाफलेण जुज्जइ, न जहा एमेव एवं पि।। यथा नर्तकी यन्त्रकाष्ठमयी परतन्त्रा परायत्ता परप्रयोगत इत्यर्थः / बहुविधा बहुप्रकारा अपितुशब्दोऽपिशब्दार्थः / चेष्टाः कुर्वाणा क्रियाफलेन कर्मणानयुज्यते। एवमेव अनेनैव प्रकारेण अयमपि क्षिप्तचित्तोऽप्यनेका अपि विरुद्धाः क्रियाः कुर्वाणो न कर्मोपचयं प्राप्नोति। अत्र परस्परमतशङ्कमानमाहजइ इच्छासि सासेरी, अचेयणा तेण से विओ नत्थि। जीवपरिग्गहिया पुण, र्वोदी असमंजसं समया।। यदि त्वमेतदिच्छसि अनुमन्यते / यथा (सेरीति) देशीवचनमेतत्। यन्त्रमयी नर्तकी अचेतना तेन कारणेन (से) तस्याश्च कर्मोपचयो नास्ति। वोन्दिस्तनुः पुनर्जीवपरिगृहीता जीवेनाधिष्ठिता जीवपरिगृहीतत्वाचावश्यं तद्विरुद्धचेष्टातः कर्मोपचयसंभवस्ततो या 'सेरी' दृष्टान्तेन संमता आपादिता, सा असमञ्जसमयुज्यमाना अचेतना, ऽचेतनत्वे दृष्टान्ते च दृष्टान्तदान्तिकयोर्वेषम्यात्। अत्राचार्य आहचेयणमचेयणं वा, परतंतत्तेण दो वितुल्लाइं। न तया विसेसियं एत्थ किं वी भणती सुण विसेसं। चेतनं वा स्याद्, अचेतनं वा चेतनत्वाऽचेतनत्वविशेषस्यात्राऽप्रयोजकत्वात्। कथमप्रयोजकत्वम? अत आह-परतन्त्रत्वेन प--
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy