SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ खित्तचित्त ७४२-अभिधानराजेन्द्रः भाग-३ खित्तचित्त पूर्व प्ररूप्य तदनन्तरं तेन स्वमुखोचारितेन वचसा तस्य क्षिप्तचित्ता- 1 तारयितव्या! संप्रत्यपमानतः क्षिप्तचित्ततां भावयतिअवहीरितो व गणिणा, अहव ण सगणेण कम्हिइ पमाए य। वायंमि वि चरगाई, पराइतो तत्थिमा जयणा // गणिना आचार्येण सोऽवधीरितः स्याद् अथवा (णमिति) वाक्यालङ्कारे स्वगणेन स्वगच्छेन गणावच्छेद्यादिना कस्मिँश्चित्प्रमादे वर्तमानः सन् गाढं शिक्षितो भवेत् / ततोऽपमानेन क्षिप्तचित्तो जायते / यदि वा चरकादिना परतीर्थिकेन वादे पराजित इत्यपमानतःक्षिप्तचित्तः स्यात्। तत्र तस्मिन् क्षिप्तचित्ते इयं वक्ष्यमाणा यतना। तत्र प्रथमतो भयेन क्षिप्तचित्ते यतनामाहकण्णम्मि एस सीहो, गहितो अह धाडितोय सो हत्थी। खुडुगतरेण उतुमे, ते वि य गमिया पुरा पाला।। इह पदैकदेशे पदसमुदायोपचारात् पाला इत्युक्ते हस्तिपालाः, सिंहपाला द्रष्टव्याः / तेऽपि पुरा पूर्व गमिताः प्रतिबोधिताः कर्तव्याः, यथाऽस्माकंक्षुल्लको युष्मदीयं सिंह हस्तिनं वा दृष्ट्वा क्षोभमुपागतः ततः स यथा क्षोभं मुञ्चति तथा कर्तव्यम् / एवं तेषु प्रतिबोधितेषु, स क्षिप्तचित्तीभूतस्तेषामन्तिके नीयते, नीत्वा च तेषां मध्ये यः क्षुल्लकादपि लघुतरः तेन सिंहः कर्णेधार्यते, हस्ती वा तेन धाट्यते। ततः स क्षिप्तचित्तः प्रोच्यते-त्वत्तोऽपि यः क्षुल्लकतरोऽतिशयेन लधुः तेन एष सिंहः कर्णे गृहीतः / अथ वा स हस्ती अनेन धाटितः / त्वं तु विभेषि, किं त्वमेतस्मादपि भीरुर्जातः ? ततो धार्यमवलम्ब्यतामिति। सत्थऽग्गिं थं भेउं, पणोल्लणं तस्स एस सो हत्थी। थेरो चम्मविकट्टण, अलायचकं च दोसुच॥ यदि शस्त्रं, यदि वाऽग्निं दृष्ट्वा क्षिप्तोऽभवत्, ततः शस्त्रमग्निं च विद्यया स्तम्भित्वा तस्य पादाभ्यां प्रणोदनं कर्तव्यं, भणितव्यं च तं प्रति-एषो ऽस्माभिरनिः शस्त्रं च पादाभ्यां प्रणोद्यते, त्वं पुनरेताभ्यां विभेषीति / यदि वा पानीयेनाऽऽी कृत्य हस्तादिभिः सोऽग्निः स्पृशते, भण्यतेएतस्मादपि तव किं भयम् ? तथा यतो हस्तिनः तस्य भयमभूत् सहस्ती स्वयं पराङखो गच्छन् दर्श्यते, यथा-यतस्त्वं विभेषि स हस्ती नश्यति नश्यन् वर्तते, ततः कथं त्वमेवं भीरोरपि भीरुतिः / तथा यो गर्जितं श्रुत्वा भयमंग्रहीत्, तं प्रत्युच्यतेस्थविरो नभसि शुष्कं चर्म विकर्षति आकर्षति, एवं चोक्त्वा शुष्कचर्मण आकर्षणशब्दः श्राव्यते, ततो भयं जरयति। तथा यद्यग्रेः स्तम्भनं न ज्ञायते, तदा द्वयोः अनौ च विद्युति च भयं प्रतिपन्नः सन् अलातचक्रं पुनरकस्मात्तस्य दीत, यावदुभयोरपि भयं जीणं भवति। सम्प्रति वादे पराजयापमानतः क्षिप्तचित्तीभूतस्य / यतनामाह-- एएण जितोऽमि अहं, तं पुण सहसा न लक्खिय जणेण / धिक्कयकइयवलज्जा, खित्तो पउणो ततो खुड्डो॥ इह येन चरकेण वादे पराजितः स च ज्ञाप्यते यथोक्तं प्राक् / ततः स आगत्य वदति-एतेनाहं वादे पराजितोऽस्मि।तत्पुनः स्वयं जनेन सहसा | न लक्षितम् / ततो मे लोकतो जयप्रवादोऽभवत् / एवमुक्ते स चरको धिक्कृतो धिक्कारेण लज्जाप्यते लज्जां ग्राह्यते लज्जां च ग्राहितः सन् सोऽपसार्यते / ततः स क्षिप्तो भण्यते-किमपि त्वमपन्थानं गृहीतवान् वादे हि ननु स त्वया पराजितः। तथा च त्वत्समक्षमेवैष धिक्कार ग्राहित इति, एवं यतनायां क्रियमाणायां यदि स क्षुल्लकः प्रगुणीभवति ततः सुन्दरम्। तह वि य अनियट्टमाणे, संरक्खमरक्खणे य चउ गुरुगा। आणाइयो य दोसा, सेवति जंय पाविहिती।। तथाऽपि च एवं यतनायां क्रियमाणायामपि तिष्ठति अनिवर्तमाने क्षिप्तचित्तत्वे, संरक्षणं वक्ष्यमाणयतना कर्तव्या अरक्षणे प्रायश्चित्तं चत्वारो गुरुका गुरुमासाः / तथा आज्ञादय आज्ञाऽ--नवस्था-मिथ्यात्वविराधना दोषाः / तथा असंरक्ष्यमाणो यत्सेवने षड्जीवनिकायविराधनादिकं यच प्राप्तोऽत्यनर्थं तन्निमित्तं च प्रायश्चित्तम्। अथ किं सेक्ते ?, किं वा प्राप्स्यति? , इति। तन्निरूपणार्थमाहछक्कायाण विराहण, झामणतेणा निवायणं चेव / अवडे विसमे य पडिए, तम्हा रक्खंति जयणाए।। षण्णां कायानां पृथिवीकायिकादीनां विराधना क्रियेत / ध्मापनं प्रदीपनकं तद्वा कुर्यात्। यदि वा स्तैन्यम्। अथवा निपातमात्मनः परस्य वा विधीयते, अवटेकूपे, अथवाऽन्यत्र विषमे पतितो भवेत, तदेवमसंरक्षणे इमे दोषास्तस्मात् रक्षन्ति यतनया वक्ष्यमाणया। साम्प्रतमेनामेव गाथां व्याचिख्यासुराहसस्सगिहादीणि महे, तेणे अह सो सयं वाही। रजा मारणपिट्टण-मुभये तद्दोस जंच सेसाणं / / सस्यं धान्यं तद् गृह्णतीति तद्गृहं, तद्गृहं सस्यगृहं तदादीनि आदिशब्दात् शेषगृहापणादिपरिग्रहः दहेत् स क्षिप्तचित्ततया अग्निप्रदानेन भस्मसात्कुर्यात् एतेन ध्मापनमिति व्याख्यातम् / यदि वा स्तेनयेत् / अथ वा स्वयं किमपि भिद्येत एतेन स्तैन्यं व्याख्यातम् / मारणं पिट्टनमुभयस्मिन्स्यात् किमुक्तं भवति-स क्षिप्त चित्तत्वेन परवश इव स्वयमात्मानं मारयेत् पिट्टयेत् यद्वापरं मारयन् पिट्टयित्वा स परमारणेण पिठोत वा इति (तद्दोसा जंच सेसाणमिति) तस्य क्षिप्तचित्तस्य दोषात् यच शेषाणां साधूनां मारणं पिट्टनं वा तथा हि स क्षिप्तचित्तः परान् यदाच्यापादयति तदा परे स्वरूपमजानानाः शेषसाधूनामपि घातप्रहारादिकं कुर्युस्तन्निमित्तं मारणे द्रष्टव्यं शेषाणि तु स्थानानि सुगमानीति व्याख्यानयति यदुक्तम्-तस्माद्रक्षन्ति यतनयेति। तत्र यतनामाहमहिड्डीए उट्ठनिवेसणाय, आहाराविगिचणा वि उस्सग्गो। रक्खंताण य फिडिए, अगवेसणे होति चउ गुरुगा / / महर्द्धिको नाम ग्रामस्य नगरस्य वा रक्षाकारी तस्य कथनीयम्, यथा-(उढनिवेसणा इति) मृदुवधैस्तथा संयमनीयो यथा स्वयमुत्थान निवेशनं च कर्तुमीशो भवति तथा। यदि वातादिना धातुक्षोभोऽस्याभूदिति ज्ञायते तदाऽपथ्याहारपरिहारेण स्निग्धमधुरादिरूप आहारः प्रदातव्यः (विर्गिचण त्ति) उच्चारादेस्तस्य परिष्ठापनं कर्तव्यम् / यदि पुनर्देवताकृत एष उपद्रव इति ज्ञायते तदा प्रासुकैषणा क्रिया यत्नेन कार्या। तथा (वि उस्सग्गो इति) किमयं वातादिना क्षोभः, उत देवताकृत
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy