SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ खंध 700 - अभिधानराजेन्द्रः भाग-३ खंध टुप्फासो य जओ, भणिओ" 'उक्कोसपएसो' इत्यनन्तरगाथागतं संबध्यते। ततश्चाष्टस्पर्शस्य यतः "प्रज्ञापनायां' भणित उत्कृष्टप्रदेशिकः स्कन्धः / एष पुनरचित्तमहास्कन्धो यस्माश्चतुःस्पर्श इष्यते। तस्मादनयैवोत्कृष्टप्रदैशिकस्कन्धानां भेदसिद्वया पूर्वोक्तवर्गणामिश्राचित्तमहास्कन्धेभ्योऽन्येऽपि केचिदसंगृहीताः पुद्गल विशेषा अद्यापि सन्तीति श्रद्धेयम्, न पुनरेतावता सर्वोऽपि पुद्गलास्तिकायः संगृहीत इति भावः // 645 / 646|| विशे०। प्रज्ञा०। आ० म०। अहवा जाणयसरीरभवियसरीरवइरित्ते दव्वखंधे तिविहे पण्णत्ते। तं जहा-कसिणखंधे, अकसिणखंधे, अणेगवियखंधे / / "अहवा जाणगेत्यादि" अथवा अन्येन प्रकारेण ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धस्त्रिविधः प्रज्ञप्तः / तद्यथा-कृ-त्स्नस्कन्धोऽकृत्स्नस्कन्धोऽनेकद्रव्यस्कन्धः। से किं तं कसिणखंधे ? कसिणखंधे सो चेव हयक्खंधे गयक्खंधे० जाव उसभखंधे। सेत्तं कसिणखंधे / / "से कि तमित्यादि' / अत्रोत्तरम्-"कसिणक्खन्धइत्यादि / यस्मादन्यो वृहत्तरः स्कन्धो नास्ति कृत्स्नः परिपूर्णः स्कनधः कृत्स्नस्कन्धः। कोऽयमित्याह-"सो चेत्यादि" स एव "हयक्खन्ध'' इत्यादिनोपन्यस्तो हयादिस्कन्धः कृत्स्नस्कन्धः। आह-यद्येवं प्रकारान्तरत्वमसिद्धं सचित्तस्कन्धस्यैवसंज्ञान्तरेणोक्तत्वात्। नैतदेवम्। प्राग् सचित्तद्रव्यस्कन्धाधिकारात् तथा चाभिसन्नोऽपि बुद्धया निकृष्य जीवा एवोक्ताः, इह तुजीवाधिष्ठितः शरीरावयवलक्षणसमुदायः कृत्स्नस्कन्धत्येन विवक्षित इत्यतोऽभिधेयभेदात्सिद्धं प्रकारान्तरत्वम्; यद्येवं तर्हि हयादिस्कन्धस्य कृत्स्नत्वं नोपपद्यते, तदपेक्षया गजादिस्कन्धस्य वृहत्तरत्वात् / नैतदेवम् / यतोऽसंख्येयप्रदेशात्मको जीवस्तदधिष्ठिताश्च शरीरावयवा इत्येवंलक्षणः समुदायो हयादिस्कन्धत्वेन विवक्षितो जीवस्य वा संख्येयप्रदेशात्मकभयात्सर्वत्र तुल्यत्वात् गजादिस्कन्धस्य बृहत्तरत्वमसिद्धम्, यदिह जीवप्रदेशपुद्गलसमुदायः सामस्त्येन वर्द्धत, तदा स्याद्गजादिस्कन्धस्य वृहत्वं, तच नास्ति, समुदायवृद्धयभावात्, तस्मादितरेतरापेक्षया जीवप्रदेशपुद्गलसमुदायस्य हीनाधिक्याभावात्सर्वेऽपि समुदायादिस्कन्धाः परिपूर्णत्वात् कृत्स्नस्कन्धाः, अन्ये तु दूरं सचित्त स्कन्धविचारे जीवाधिष्ठितशरीरावयवसमुदायः सचित्तस्कन्धोऽत्र तुशरीरात वुद्धया पृथक्कृत्य जीव एव केवलः कृत्स्नस्कन्ध इति व्यत्पर्य व्याचक्षते। अत्र च व्याख्याने प्रेर्यमेव नास्ति, हयगजादिजीवानां प्रदेशतो हीनाधिक्याभावेन कृत्स्नस्कन्धत्वस्य सर्वत्राविरोधादित्यलं प्रसङ्गेन। "सेत्तं" इत्यादिनिगमनम्। अथाकृत्स्नस्कन्धनिरूपणार्थमाह -- से किं तं अकासिणखंधे ? अकसिणखंधे सो चेव दुपएसि याइ खंधे० जाव अणंतपएसिए खंधे / सेत्तं अकसिणखंधे। "से कि तं मित्यादि।" अत्रोत्तरम् -"अकसिणखंधे सोचेत्यादि। न कृत्स्नोऽकृत्रनः, स चासौ स्कन्धश्चाकृत्स्नस्कन्धो, यस्मादन्योऽपि वृहत्तरस्कन्धोऽस्ति सोऽपरिपूर्णत्वादकृत्स्नस्कन्ध इत्यर्थः / कस्यायमित्याह-"सो चेवेत्यादि''। स एव "दुपदेसिएखंधे तिपएसिए खंधे' इत्यादिना पूर्वमुपन्यस्तो द्विप्रदेशकादिकृत्स्नस्कन्ध इत्यर्थः / द्विप्रदेशिकस्य विप्रदेशिकापेक्षया कृत्स्नत्वात् त्रिप्रदेशिकस्यापि चतुःप्रदेशिकापेक्षया कृत्स्नत्वादेवं तावद्वाच्यं यावत् कृत्स्नं नापद्यत इति पूर्वे द्विप्रशिकादिः सर्वोत्कृष्ट प्रदेशश्च स्कन्धः सामान्येनाचित्ततया प्रोक्त / / इह तु सर्वोत्कृष्टस्कन्धादद्योवर्तिन एवोत्तरापेक्षया पूर्वपूर्वतरा अकृत्स्नस्कन्धत्वेनोक्ता इति विशेषः। "सेत्तं" इत्यादिनिगमनम्। अथानेकद्रव्यस्कन्धनिरूपणार्थमाहसे किं तं अणेगदव्वियखंधे ? अणेगदव्वियखंधे तस्स चेव देसे अवचिए, तस्स चेव देसे उवचिये, सेत्तं अणेगदव्विअखंधे। सेत्तं जाणगसरीरभविअसरीरवतिरित्ते दवखंधे / सेत्तं नोआगमतो दव्वखंधे। "से किं तमित्यादि / अत्रोत्तरम्-"अणेगदवियखंधस्येत्यादि' अनेकद्रव्यश्वासौ स्कन्धश्चेति समासः। तस्यैवेत्यत्रानुवर्तमानं स्कन्धमात्र संबध्यते, ततश्च तस्यैव यस्य कस्यचित् स्कन्धस्य यो देशो नखदन्तकेशादिलक्षणोऽपि चितो जीवप्रदेशैर्विरहितस्तस्यैव देशः पृष्टोदरचरणादिरुपचितो, जीवप्रदेशाप्त इत्यर्थः / तयोर्यथोक्तदेशयोर्षिशिष्टैकपरिणामपरिणतयोर्यो देहाख्यः समुदायः सोऽनेकद्रव्यस्कन्ध इति विशेषः। सचेतनमचेतनानेकद्रव्यात्मकत्वादिति भावः। स चैवंभूतः सामर्थ्यात्तुरगादिस्कन्ध एव प्रतीयते / यद्येवं तर्हि कृत्स्नस्कन्धादस्य को विशेष इति चेद् ? उच्यते-स किल यावानेव जीवप्रदेशानुगतस्तानेव विवक्षितो, न तुजीवप्रदेशाव्यातनखाद्यपेक्षया, अयं तु नखाद्यपेक्षयाऽपीति विशेषः / पूर्वोक्तमिश्रस्कन्धादस्य तर्हि को विशेष इति चेद् ? उच्यते-तत्र खङ्गाद्यजीवानां हरत्यादिजीवानां च अपृथग्व्यवस्थिताना समूहकल्पनया मिश्रस्कन्धमुक्तम्। अत्र तुजीवप्रयोगतो विशिष्टकपरिणामपरिणतानां सचेतनद्रव्याणामनेकद्रव्यस्कन्धत्वमिति विशेष इत्यलं प्रसङ्गेन। "सेत्तमित्यादि' निगमनं, तदेवमुक्तो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धः, तगणने च समर्थितो 'नोआगमतो' द्रव्यस्कन्धविचारः, तत्समर्थनेच समर्थितो द्रव्यस्कन्ध इति। अनु० उत्त०।दश। सूत्र० / आ०म०। आचा०। भावस्कन्धनिरूपणार्थमाह - से किं तं भावखंधे ? भावक्खंधे दुविहे पण्णत्ते / तं जहाआगमतो अ, नोआगमतो असे किं त आगमतो भावखंधे। जाणए उवउत्ते सेत्तं आगमतो भावखंधे / से किं तं नोआगमतो भावखंधे / एएसिं चेव सामाइअमाइयाणं छह अज्झयणाणं समुदयसमिइसमागमेणं आवस्सयं सुअखंधे भावखंधे त्ति लब्भइ / सेत्तं नो आगमओ भावखंधे / सेत्तं भावखंधे / / "सेकितमित्यादि।" अत्रोत्तरम्-"भावखंधेदुविहे'' इत्यादि।भावश्चासौ स्कन्धश्चभावस्कन्धः,भावमाश्रित्य वा स्कन्धोभावस्कन्धः सच द्विविधः प्रज्ञप्तः / तद्यथा-आगमतश्च, नोआगमतश्च / तत्रागमतः स्कन्धपदार्थज्ञः, तत्र चोपयुक्तस्तु तदुपयोगित्वाद्भावस्कन्धः / नोआगमतस्तु एतेषामेव प्रस्तुतावश्यकभेदानां सामायिकादीनां षण्णामध्ययनानां समुदायः / स चैतेषां विशकलितानामपि तथाविधदेवदत्तादीनामिव स्यात् / अत उच्यतेसमुदयस्य समिति रन्तर्येण मीलना, सा च नैरन्तर्यावस्थापितानां शलाकानामिव परस्परनिरपेक्षाणामपि स्यात्, अत उच्यते
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy