________________ ६२२-अभिधानराजेन्द्र-भाग 3 कूड दावतंसकः क्रोशमूर्छाचत्वेनार्द्धक्रोशं विष्कम्भेन, अत्र सूत्रेऽनुतमप्यर्द्धक्रोशमायामेनेति बोध्यम् / “सेसेसु अ पासाया, कोसुचा अद्धोसपिहुदीहा।” इत्यादि श्रीसोमतिलकसूरिकृतसिरिनिलयमिति क्षेत्रविचारवचनात् / श्रीउमास्वातिकृते जम्बूद्वीपसमासे तु प्रासादावतंसकः क्रोशार्द्धक्रोशदैर्ध्यविस्तारः किञ्चिन्न्यूनस्तदुच्छ्य उक्तोऽस्तीति। (अब्भुग्गयमूसिअ) इत्यादि प्राग्वत्। अथ तत्र यदस्ति तदाह (तस्सणं) इत्यादि सुगम, नवरं (सपरिवारं ति) दक्षिणा भरतकूटाधिपसामानिकादिदेवयोग्यभद्रासनसहितमिति / अथ वा प्रस्तुतकूटनामान्वर्थं पृच्छति-(से केणटेणमित्यादि) सर्व चैतत्सूत्रं विजयद्वारनामान्वर्थसूचकसूत्रवत्परिभावनीयं, नवरं दक्षिणाख्या इति पदैकदेशे पद समुदायोपचारात् पाठान्तरानुसारद्वारा दक्षिणार्द्धभरताया राजधान्या इति। अत्र सूत्रेऽदृश्यमानमपि “से तेणटुणं" इत्यादि सूत्रं स्वयं ज्ञेयम् / तथा च दक्षिणार्द्धभरतकूटनामा देवः स्वामित्वेनास्यास्तीत्यभ्रादित्वादपप्रत्यये दक्षिणार्द्धभरतकूटमिति / अथास्य राजधानी वास्तीति पृच्छति (कहिणं) इत्यादि व्यक्तम् / अथापरकूटवक्तव्यता दक्षिणा भरतकूटातिदेशेनाह--(एवं सव्वइत्यादि) एवं दक्षिणार्द्धभरतकूटन्यायेन सर्वकूटानि तृतीयखण्डप्रपातगुहाकूटादीनि नेतव्यानि बुद्धिपथं प्रापणीयानियावन्नवमं वैश्रमणकूटम्। (परोप्परं ति) परस्परम् (पुरच्छिमपचच्छिमेणं ति) पूर्वापरेण / अयमर्थः-पुर्वं पूर्व पूर्वस्याम् उत्तरमुत्तरमपरस्या, पूर्वपरविभागस्यापेक्षिकत्वात्। (इमीसिं इत्यादि) एषां कूटानां वर्णकच्यासे वर्णकविस्तारे इमाः वक्ष्यमाणा गाथाः। “इमा से” इति पाठे तु 'से' इतिवचनव्यत्ययात् तेषां कूटानां वर्णावासे इमा गाथा इति योजनीयम्। (मज्झे वेअड्डस्स उ इत्यादि) तुशब्दो विशेषे, स चव्यवहितसंबन्धः। तेन वैताळ्यस्यमध्ये तु चतुर्थपञ्चमषष्ठरूपाणि त्रीणि कूटानि कनकमयानि भवन्ति / सूत्रे स्त्रीलिङ्गनिर्देशः प्राकृतत्वात् / शेषाणि पर्वतकूटानि वैताढ्यवर्षधरमेरुप्रभृतिगिरिकूटानि व्याख्यानतो विशेषप्रतिपत्तिरिति हरिस्सहहरिकूटबलकूटवर्जितानि रत्नमयानि ज्ञातव्यानि। यश्चात्र वैताळ्यप्रकरणे सर्वपर्वतगतकूटज्ञापनं तत्सर्वेषामेकवर्णकत्वेन लाघवार्थम्। तथा वैताढ्य स्येत्यत्र जात्यपेक्षयैकवचनम्, तेन सर्वेषामपि वैताढ्यानां भरतैरवतमहाविदेहविजयगतानां नवसु कूटेषु सर्वमध्यमानि त्रीणि त्रीणि कूटानि कनकमयानि ज्ञातव्यानि / एतदेव वैताढ्ये व्यक्त्या दर्शयति-(माणिभद्द इतयादि) द्वयोः कूटयोर्विसदृशनामको देवौ स्वामिनौ / तद्यथा-कृतमालकश्चैव नृत्तमालकश्चैव। तमिस्रगुहाकूटस्य कृतमालः स्वामी, खण्डप्रपातगुहाकूटस्य नृत्तमालः स्वामी / शेषाणां षण्णां कूटानां सदृक् कूटनामसदृशं नाम येषां ते सदृगनामका देवाः स्वामिनः / यथा दक्षिणार्द्धभरतकूटस्य दक्षिणार्द्धभरतकूटनामाः देवः स्वामी। एवमन्येषामपि भाचपस कार्या / एनमेवार्थ सविशेष गाथयाऽऽहयन्नामकानि कूटानि तन्नामानः खलु निश्चयेन भवन्ति देवाः पल्योपमस्थितिका भवन्ति प्रत्येकं प्रत्येक प्रतिकूटमित्यर्थः / एतेनाष्टानां कूटानां स्वामिन उक्ताः। सिद्धायतनकूटे तु सिद्धायतनस्यैव मुख्यत्वेन तत्स्वामिदेवानामभिधानमिति / ननु दक्षिणार्द्धभरतकूटानां स्वसदृशनामकदेवाश्रयभूतत्वात् नामान्वर्थः संगच्छते, यथा दक्षिणार्द्धभरतनामदेवस्वामिकत्वात् उपचारेण दक्षिणार्द्धभरतनामा देवः स्वामित्वेनास्यास्तीति अभ्रादित्वादप्प्रत्यये वा दक्षिणार्द्धभरतम् / एवमन्येष्वपि, परं खण्डप्रपातगुहाकूटतमिस्रगुहाकूटयोः स कथम् ? तत्स्वामिनोनृत्तमालकृतमालयोर्विसदृशनामकत्वात् / ननु खण्डप्रपातगुहाया उपरिवर्ति कूटं खण्डप्रपातकूटमित्यादिरेवान्वर्थोऽस्त्विति वाच्यम्, अत्र सूत्रे दक्षिणार्द्धभरकूटवत् शेषकूटानामतिदेशात्; बृहतक्षेत्रसमासवृत्तौ एवं शेषकूटान्यपि स्वस्याधिपतियोगतः प्रवृत्तान्यवसेयानीति श्रीमलयगिरिसूरिभिरुक्तत्वाचेति चेत् / उच्यते--खण्डप्रपातगुहाधिपस्य कूटं खण्डप्रपातकूट, तमिस्रगुहाधिपस्य कूट तमिसगुहाकूटमिति स्वामिनो यौगिकनामान्तरापेक्षया अत्राप्यन्वर्थो घटत एव / यदुक्तं तैरेव तत्र-तृतीये कूटे खण्डप्रपातगुहाधिपतिदेवाधिपत्यं परिपालयति, तेन तत्खण्डप्रपातगुहाकूटमित्युच्यते इति न किमप्यनुपपन्नम्। अथ तृतीयादिकूटाधिपतीनां राजधान्यः क्व सन्तीति प्रश्नसूत्रमाह (रायहाणीओ त्ति) अत्र निर्वचनसूत्रम्-(जबुद्दीवे दीवे इत्यादि) जम्बूद्वीपे द्वीपे इत्यादि सर्वं व्यक्तम्, नवरं खण्डप्रपातगुहाधिपतिदेवस्य राजधानी खण्डप्रपातगुहाऽभिधाना, माणिभद्रस्य माणिभद्रा इत्यादि सर्वाणि चोक्तवक्ष्यमाणानि कूटानि एकैकवनखण्डपद्मवरवेदिकायुतानि मन्तव्यानि जं०१ वक्ष०। निषधरवर्षधरेजंबू ! मंददाहिणे णं निसढवासहरे पव्वए नव कूडा पणत्ता / तं जहा-"सिद्धे निसहँ हरिवस्स, विदेहें हिरि धिई य सीओया। अवरविदेहे रुयगे, निसहे कूडाण नामाई" ||1|| (सिद्धे त्ति) सिद्धायतनकूट, तथा निषधपर्वताधिष्ठातृदेवनिवासोपेतं निषधकूट, हरिवर्षस्य क्षेत्रविशेषस्याधिष्ठातृदेवेन स्वीकृतं हरिवर्षकूटम्, एवं विदेहकूटमपि, हीदेवीनिवासो ह्रीकूटम्। एवं धृतिकूट, शीतोदा नदी तद्देवीनिवासः शीतोदाकूटम्, अपर विदेहकूटयदिति। रुचकश्चक्रवालपर्वतः तदधिष्ठातृदेवनिवासो रुचककूटमिति। नन्दनवनेजम्बू ! मंदरपव्वए णंदणवणे नव कूडा पण्णत्ता / तं जहा"नंदणे मंदरे चेव, निसहे हेमवयरयतरुयए य। सागरचित्ते वइरे, बलकूडे चेव बोधव्वे" ||1|| (नंदणे त्ति) नन्दनवन मेरोः प्रथममेखलायां, तत्र "कूटानि" नंदण गाहा। तत्र नन्दनवने पूर्वादिदिक्षु चत्वारि सिद्धायतनानि, विदिक्षु चतुश्चतुप्पुष्करिणीपरिवृताश्चत्वारः प्रासादावतंसकाः, तत्र पूर्वस्मात्सिद्धायतनादुत्तरत उत्तरपूर्वस्थप्रासादाद्दक्षिणतो नन्दनकूट,तत्र देवी मेघंकरा, तथा पूर्वसिद्धायतनादेव दक्षिणतो दक्षिणपूर्वप्रासादादुत्तरतो मन्दरकूट, तत्र मेघवती देवी, अनेन क्रमेण शेषाण्यपि यावदष्टमम्। देव्यस्तुनिषधकूटे सुमेधा, हैमवतकूटे मेघमालिनी, रजतकूटे सुवच्छा, रुचककूट वच्छमित्रा, सागरचित्रकूटे वैरसेना, वैरकूटे बलाहकेति, बलकूटं तु मेरोरुत्तरपूर्वस्यां नन्दनवने तत्र बलो देव इति स्था०६ ठा०। कहिणं भंते / णंदणवणे णंदणवणकूडे णामं कूडे पण्णत्ते ? गोयमा ! मंदरस्स पव्वयस्स पुरच्छिमिल्लसिद्धाययणस्स उत्तरेणं उत्तरपुच्छिमिल्लस्स पासायव. सयस्स दक्खि