SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ किरिया ५५१-अभिधानराजेन्द्रः भाग-३ किरिया [15] क्रियाऽष्टकम्क्रियते आत्मकर्तृत्वे सा क्रिया कर्तुः द्रव्यस्य प्रवृत्तिः स्वरूपाभिमुखदर्शनज्ञानोपयोगता ज्ञानं स्वरूपाभिमुखवीर्य प्रवृत्तिक्रिया / एवं ज्ञानक्रियाभ्यां मोक्षः / तत्र ज्ञानं स्वपरावभासनरूपम, क्रिया स्वरूपरमणरुपा। तत्र चारित्रवीर्यगुणैकत्वपरिणतिः क्रिया सा साधिका / अत्रानादिसंसारे अशुद्धकायिक्यादिक्रियाव्यापारनिष्पन्नः संसरति, स एव विशुद्धसमितिगुप्त्यादिविनयवैयावृत्यादिसत्बियाकरणेन निवर्तते, अतः संसारक्षपणाय क्रिया संवरनिर्जरात्मिका करणीया। नामस्थापने सुगमे। द्रव्यक्रियाशुद्धा अशुद्धा च। तत्र शुद्धा स्वरूपानुयायियोगप्रवृत्तिरूपा,अशुद्धा कायिक्यादिव्यापाररूपः। भावक्रिया वीर्यप्रवृत्तिरूपा। पुद्रलानुयाय्यौदारिकादिकाय-व्यापारसंमुखा अशुद्धा / शुद्धा पुनः स्वगुणपरिणमनत्वनिमित्त-वीर्यव्यापाररूपा क्रिया भावक्रिया। तत्र क्रिया संकल्पः, नैगमेन संग्रहेण सर्वे संसारजीवाः सक्रिया उक्ताः / व्यवहारेण शरीरपर्याप्त्यनन्तरं क्रिया। ऋजुसूत्रनयेन कार्यसाधनार्थं योगप्रवृत्तिमुख्यवीर्यपरिणामरूपा क्रिया, शब्दनयेन वीर्यपरिस्पन्दात्मिका समभिरूढेन गुणसाधनानुरूपसकर्त्तव्यव्यापाररूपा / एवंभूतनयेन तत्त्वैकत्ववीर्यतीक्ष्णतासाहाय्यगुणपरिणमरूपा / अत्र साधकस्य साधनक्रियायाऽवसरः “नाणचरणेन मुक्खो," तेन चरणगुणप्रवृत्तिरूवरूपग्रहणपरभावत्यागरूपा क्रिया मोक्षसाधका। अतः ज्ञानतत्वेन तत्त्वसाधनार्थं सम्यक् क्रिया करणीया। तदुपदेशः क्षायिकसम्यक्त्वं यावत्, निरन्तरं निःशुङ्काद्यष्टदर्शनाचारसेवना केवलज्ञानं यावत्, कालविनयादिज्ञानाचारता निरन्तरं यथाख्यातचारित्रादर्वाग, चारित्राचारसेवना परं शुक्लध्यानं यावत् / तप आचारसेक्ना सर्वसंवरं यावत् / वीर्याचारस्याराधनाऽवश्यंभाविनी, न हि पञ्चाचारमन्तरेण मोक्षनिष्पत्ति: / दर्शनादिस्वगुणानां प्रवृत्तिः क्रिया, दर्शनादिगुणविशुद्ध्यर्थं तन्निमित्तमलम्व्य प्रवर्तनम् आचार इति / अत एव गुणपूर्णतानिष्पत्तेर्वाक् आचारणा करणीया, आचरणातः गुणनिष्पत्तिभव्त्येव। पूर्णगुणानां तु आचारणा परोपकाराय इति सिद्धम् अत एव उच्यते-- ज्ञानी क्रियोद्यतःशान्तो, भावित्मा जितेन्द्रियः। स्वयं ती! भवाम्भोधेः, परं तारयितुं क्षमः||१|| ज्ञानी यथार्थतत्त्वस्वरूपावबोधी, यदा क्रिया साधनकारणानुयायियोगप्रवृत्तिरूपा, स्वगुणानुयायिवीर्यप्रवृत्तिरूपा वा, तस्याम् उद्यतः / पुनः शान्तः कषायतापरहितः / भावितात्माभावितः शुद्धस्वरूपरमणमयः आत्मा यस्य स भावितात्मा / जितेन्द्रियः पराजितेन्द्रियव्यापारः / भवसमुद्रात्स्वयंतीर्णः पारंगतः, परम् आश्रितम्, उपदेशदानादिना तारयितुं क्षमः समर्थो भवति / यो हि सम्यग्दर्शनज्ञानचारित्रपरिणत आत्मारामी आत्मविश्रामी आत्मानुभवमग्नः स स्वयं संसाराद् निवृत्तः, तत्सेवनापरान्निस्तारयति। अत्र द्रव्यज्ञानं भावनारहितं वचनव्यापारमनोविकल्परूपं संवेदनज्ञानं यावत्। तच्च भावज्ञानतत्त्वानुभवनरूपोपयोगस्य कारणम् / द्रव्यक्रिया योगव्यापारत्मिका / साऽपि भावक्रिया स्वगुणानुयायि स्वगुणप्रवृतिरूपायाः कारणम् / अत्र ज्ञानस्य फलं विरतिः तेन ज्ञानं विरतिकारणम्। उक्तंच तत्त्वार्थटीकायाम्दर्शनज्ञाने चारित्रस्य कारणम, चारित्रं मोक्षकारणम् / उत्तराध्ययनेऽपिनादंसणिस्स नाणं, नाणेण विना न हुंति चरणगुणा / अगुणिस्स नत्थि मोक्खो, नत्थि अमोक्खस्स निव्वाणं // 30 // उत्त० 28 अ०। क्रियाविरहितं हन्त !, ज्ञानमात्रमनर्थकम्। गतिं विना पथज्ञोऽपि, नाप्नोतिपुरमीप्सितम् / / 2 / / अतः ज्ञानं क्रियायुक्तं हिताव, नैकमेव इत्वाह-क्रियाविरहितं हन्त ! इति / हन्त ! क्रियाविरहितं, क्रिया साधनप्रवृत्तिरूपा, तया रहितं, ज्ञानमात्रं सवेदनज्ञानम्। अनर्थक नमोक्षरूपकार्यसाधकम्। तत्र दृष्टान्तःपथज्ञोऽपि मार्गज्ञाता अपि, गतिं विना चरणविहारक्रियां विना, ईप्सितं इच्छितं, पुरं नगरं, न आप्नोति न प्राप्नोति / चरणचड्क्रमणेनैव ईप्सितनगरप्राप्तिरिति; "नाणश्चरणेन मुक्खो" इति वचनात् / "सन्नाणनाणोवगए महेसी, अणुत्तरं चरित्रं धम्मसंचयं / अणुतरे नाणधरे जसंसी, ओसासई सूरिए वंतलिक्खे॥२३॥” इति उत्तराध्ययने 21 अ०॥ पुनस्तदेव द्रढयन्नाहस्वानुकूलां क्रियां काले, ज्ञानपूर्णो व्यपेक्षत्रे / प्रदीपः स्वप्रकाशोऽपि, तैलपूादिकां यथा // 3 // ज्ञानपूर्णोऽपि स्वपरविवेचनविशिष्टोऽपि, काले अवसरे कार्यसाधनक्षणे, स्वानुकूलां तत्कार्यकरणरूपां, क्रियाम् अपेक्षते।तत्त्वज्ञानी सम्यग्ज्ञानी प्रथमसंवरकार्यरुचिः दिग्विरतिसर्वविरतिग्रहणरूपां क्रियाम् आश्रयति, पुनश्चारित्रयुक्तोऽपि तत्त्वज्ञानी के वलज्ञानकार्यनिष्पादनरसिकः शुक्लध्यानारोहरूपां क्रियाम् आश्र ति / केवलज्ञानी सर्वसंवरपूर्णानन्दकार्यावसरे योगरोधरूपां क्रियां करोति / अत एवं उच्यते-ज्ञानी क्रियाम् अपेक्षतएव, तदर्थमेव आवश्यककरणं मुनीनाम्। तत्र दृष्टान्तःयथा प्रदीपः स्वप्रकाशोऽपि तैलपूर्त्यादिकां क्रियाम् अपेक्षते, एवं सम्यग्ज्ञानी अपि क्रियारङ्गी भवति / क्रिया हि वीर्य शुद्धिहेतुः, अशुद्धवीर्यविहिताश्रवः संसरति संसारे, स एव गुणी सेवनगुणप्राग्भावोद्यतः संवर भवति / कर्मप्रदेशग्रहणं योगैः, योगाः वीर्यप्रभवाः, तेन योगाः परमात्मवन्दनस्वाध्यायाध्ययनादियोजिता न कर्मग्रहणाय भवन्ति, योगनां सत्प्रवृत्तिः क्रिया इति। बाह्यभावं पुरस्कृत्य, ये क्रियां व्यवहारतः। वदने कवलक्षेपं, विना ते तृप्तिकारिणः ||4|| बाह्यभावं बाह्यत्वं पुरस्कृत्य अङ्गीकृत्य ये नरा असेवितगुरुचरणाः व्यवहारतः क्रियां निषेधयन्ति, किं बाह्यक्रियाकरणेन इति उक्तवा क्रियोद्यम मन्दयन्ति, ते नरा वदने मुखे कवलक्षेपं विना तृप्तिकाक्षिणः तृप्तिवाञ्छका इति। गुणवहुमानादे-र्नित्यस्मृत्या च सत्क्रिया। जातं न पातयेद्भाव-मजातं जनयेदपि / / 5 / / सम्यग्दर्शनज्ञानचारित्रक्षमामार्दवाऽऽर्जवादिगुणवन्तः, तेषां-बहुमानं स्वतोऽधिकगुणवता बहुमानम, आदिशब्दाद् दोषपश्चात्तापः पापगुच्छा, अतीचारालोचन, देवगुरुसाधर्मिकभक्तिः, उत्तरगुणारोहणादिकंसर्व ग्राह्यम्। च पुनःनित्यस्मृतिः पूर्वग्रहीतव्रतस्मरणम्, अभिनवप्रत्याख्यानसामायिक चतुर्विशतिस्तवगुरुवन्दनप्रतिक्रमणकायोत्सर्गप्रत्याख्यानादीनां नित्यस्मृत्या सक्रिया भवति। अत्रगाथाः श्रीहरिभद्रपूज्यैर्विंशतिकायाम्
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy