________________ किरिया 544- अभिधानराजेन्द्रः भाग-३ किरिया द्वादशभङ्गाः।त्रयाणामष्ट विधबन्धक षड् विधबन्धकाबन्धक रूपाणां पदानां संयोगे प्रत्येकमके वचनबहुवचनाभ्यामष्टौ भङ्गाः / सर्वसंकलनया सप्तविंशतिभङ्गाः / अत्रापर आहमनु विरतस्य कथं बन्धः ? न हि विरतिबन्धहेतुर्भवति / यदि पुनर्विरतिरपि बन्धहेतुः स्यात्ततो निर्मोक्षप्रसङ्गः, उपायाभावात्। उच्यतेन विरतिर्बन्धहेतुः, किं तु विरतस्य ये कषाययोगास्ते बन्धकारणम् / तथाहि-सामायिकच्छेदोपस्थानपरिहारविशुद्धिकेष्वपि संयमेषुकषायाः संज्वलनरूपा उदयप्राप्ताः सन्ति योगाश्च, ततो विरतस्यापिय देवायुष्कादीनां शुभप्रकृतीनां तत्प्रत्ययो बन्धः यथा च प्राणातिपातविरतस्य सप्तविंशतिभङ्गा उक्ताः। तथा मृषावादविरतस्य यावन्मायामृषाविरतस्य / मिथ्यादर्शनशल्यविरतिमधिकृत्य सूत्रमाहमिच्छादसणसल्लविरए णं भंते ! जीवे कइ कम्मपगडीओ बंधइ? गोयमा ! सत्तविहबंधए वा अविहबंधेए वा छविहबंधए वा एगविहबंधए वा अबंधए वा। मिच्छादसणसल्लविरए णं भंते! नेरइए कइ कम्मपगडीओ बंधइ ? गोयमा ! सत्तविहबंधए वा अविहबंधए वा जाव पंचिंदियतिरिक्खजोणिए मणुस्से जहा जीवे / वाणमंतरजोइसियवेमाणिए जहा नेरइए।। "मिच्छादसणसल्लविरएणं भंते ! इत्यादि सुगमम्, नवरं सप्तविधबन्धकत्वमष्टविधबन्धकत्वं षड्विधबन्धकत्वमेकविधबन्धकत्वमबन्धकत्वं च मिथ्यादर्शनशल्यविरतैरवि-रतसम्यग्दृष्टरारभ्यायोगिके वलिनं यावद्भावात् / नैरयिकादिचतुर्विशतदण्डकचिन्तायां मनुष्यवर्जेषु शेषेषु सर्वेष्वपि स्थानेषु सप्तविधबन्धकत्वमष्टविधबन्धकत्वं वा, न षविधबन्धकत्वादिश्रेणिप्रतिफ्त्यसम्भवात् मनुष्यपदे च यथा जीवपदे तथा वक्तव्यं, मनुष्येषु सर्वभावसम्भवात्।" बहुवचनेनैतद्विषयं सूत्रमाहमिच्छादंसणसल्लविरया णं भंते ! जीवा कइ कम्मपगडीओ बंधति? गोयमा ! ते चेव सत्तावीसं भंगा भाणियट्वा / मिच्छादसणसलघिरया णं भंते ! णेरइया णं कइ कम्मपगडीओ बंधंति ? गोयमा ! सव्वे वि ताव होज सत्तषिहबंधगा य, अहवा सत्तविहबंधगा य अट्ठविबंधगे य / अहवा सत्तविहबंधगा य अविहबंधगा य / एवं जाव वेमाणिया नवरं मणुस्सा णं जहा जीवाणं॥ "मिच्छा" इत्यादि / अत्रापि ते एव पूर्वोक्ताः सप्तविंशतिभङ्गाः, / नैरयिकपदे भङ्गत्रिकम्। तत्र सर्वेऽपि तावद्भवेयुः सप्तविधवन्धका इत्येको भङ्गः। अयं च यदैकोऽप्यष्टविधबन्धको न लभ्यते तदा भवति, यदा पुनरेकोऽष्टविधबन्धको लभ्यते तदाऽयं द्वितीयो भङ्गः, सप्तविधबन्धकाश्च अष्टविधबन्धकाश्च / यदा पुनरष्टविधबन्धका अपि बहवो लभ्यन्ते तदा तृतीयः / सप्तविधबन्धकाश्वष्टविधबन्धकाच, एवं भङ्गत्रिकं तावद्वाच्यं यावद्वैमानिकसूत्रम्, नवरं मनुष्यपदे सप्तविंशतिभङ्गका यथा जीवपदे इति। अथारम्भिक्यादीनां क्रियाणां मध्येका क्रिया प्राणातिपातविरतस्येति चिन्तयति - पाणाइवायविरयस्सणं भंते ! जीवस्स किं आरंभिया किरिया कज्जइ जाव मिच्छादसणवत्तिया किरिया कन्जइ ? गोयमा ! पाणाइवायविरयस्स जीवस्स आरंभिया किरिया सिय कज्जइ, सिय नो कजइ। पाणाइवायविरयस्स णं भंते ! जीवस्स पारिग्गहिया किरिया कजइ ? गोयमा ! णो इणढे समढे / पाणाइवायविरयस्स णं भंते ! जीवस्स मायावित्तया किरिया कज्जइ ? गोयमा ! सिय कज्जइ, सिय नो कज्जइ / पाणाइवायविरयस्स णं भंते ! जीवस्स अपचक्खाणवत्तिया किरिया कजइ ? गोयमा! णो इणट्टे समठे। मिच्छादसणवत्तियाए पुच्छा? गोयमा! णो इणढे समहे / एवं पाणाइवायविरयस्स मणुस्सस्स वि, एवं जाव मायामो-सविरयस्स जी वस्स मणुस्सस्स य / / "पाणाइवायविरयस्स णं भंते !" इत्यादि। आरम्भिकी क्रिया स्याद्भवति, प्रमत्तसंयतस्य भवति, शेषस्य न भवतीति भावः। पारिग्रहिकी निषेध्या, सर्वथा परिग्रहान्निवृत्तत्वात्, अन्यथा सम्यक् प्राणातिपातविरत्यनुपपत्तेर्मायाप्रत्यया स्याद्भवति, स्यान्न भवति अप्रमत्तस्यापि हि कदाचित्प्रवचनमालिन्वरकक्षणार्थं भवति, शेषकालं तु न भवति। अप्रत्ययाख्यानक्रिया मिथ्यादर्शन प्रत्यया च सर्वथा निषेध्यते, तदभावे प्राणातिपातविरत्ययोगात्। प्राणातिपातविरतेश्च द्वे पदे। तद्यथा-जीवो, मनुष्यश्च। तत्र यथा सामान्यतो जीवमधिकृत्योक्तम्, तथा मनुष्यमधिकृत्य वक्तव्यम्। तथा चाह- “एवं पाणाइवायविरयस्स मणुस्सस्स वि" इति / एवं तावद्धक्तव्यं यावन्मायामृषविरतस्य जीवस्य मनुष्यस्य च। मिथ्यादर्शनशल्यविरतिमधिकृत्य सूत्रम् - मिच्छादसणसल्लविरयस्स णं भंते ! जीवस्स किं आरंभिया किरिया कज्जइ जाव मिच्छादसणवत्तिया किरिया कन्जइ ? गोयम! मिच्छादसणसलविरयस्स जीवस्स आरंभिया सिय कन्जइ, सिय नो कजइ / एवं जाव अपचक्खाणकिरिया मिच्छादसणवत्तिया किरिया नो कन्जइ / मिच्छादसणसल्लविरयस्सणं भंते ! णेरइयस्स किं आरंभिया किरिया कज्जइ जाव मिच्छादसणत्तिया किरिया कजइ ? गोयमा! आरंभिया किरिया कजइ जाव अपचक्खाणकिरिया वि क जइ / मिच्छादसणवत्तिया किरियानो कज्जइएवं जाव थणियकुमारस्स। मिच्छादसणसल्लविरयस्सणं भंते! पंचिंदियतिरिक्खजोणियस्स एवमेव पुच्छा? गोयमा! आरंभिया किरिया कज्जइ अपचक्खाणकिरिया सिय कज्जइ, सिय नो कन्जइ, मिच्छादसणवत्तिया किरिया न कन्जइ, मणुस्सस्स जहा जीवस्स / वाणमंतरजोइसियवेमाणियस्स जहाणेरइयस्स। "मिच्छादंसण" इत्यादि / आरम्भिकी स्याद्भवति, स्यात्र भवति / प्रमत्तसंयतस्य भवति, शेषस्य न भवतीति भावार्थः / पारिग हिकी देशविरति यावद्भवति, माया प्रत्ययाऽप्यनिवृत्ति वादरसम्परायं यावद्भाविनी, परतो न भवति। अप्रत्याख्यानक्रियाऽ