SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ काल 482- अभिधानराजेन्द्रः - भाग 3 काल तश्च / कूणिकस्य कालो दण्डनायको निजबलान्वितो बुध्यमानस्तावगतो यावचेटकः / ततस्तेनैकशरनिपातेनासौ निपातितः / भग्नं च कूणिकबलम्, गतं बद्धमपि बलं निजमावासस्थानम् / द्वितीयेऽहि सुकालो नाम दण्डनायको निजबलान्वितो युध्यमानस्तावद्गतो यावचेटकः / एवं सोऽप्येकशरेण निपातितः।। एवं तृतीयेऽह्नि महाकालः, सोऽप्येवम् 3 / चतुर्थेऽह्नि कृष्णकुमारस्तथैव 4, पञ्चमे सुकृष्णः 5 षष्ठे महाकृष्णः ६,सप्तमे वीरकृष्णः 7, ष्टिमे रामकृष्णः, नवमे पितृसेनकृष्णः 6., दशमे पितृसेननमहाकृष्णः 10, चेटकेन एकैकशरेण निपातिताः। एवं दशसु दिवसेषु चेटकेन विनाशिता दशापि कालादयः / एकादशेऽपि दिवसे चेटकजयार्थ देवताऽऽराधनाय कूणिकोऽष्टमभक्तं प्रजग्राह / ततः / शक्रचमरावागतौ। ततः शक्रोयभाषेचेटकः श्रावक इत्यहं नतं प्रहरामि, नवरं भवन्तं संरक्षामि / ततोऽसौ तद्रक्षार्थ वज्रप्रतिरूपकमग्रेद्यं कवचं कृतवान्। चमरस्तुद्वौ संग्रामौ विकुर्वितवान्-महाशिलाकण्टकं.रथमुशलं चेति / तत्र महाशिलेव कण्टको जीवितभेदकत्वात् महाशिलाकण्टकः / ततश्च यत्र तृणशूकादिनाप्यभिहतस्याश्वस्त्यादेर्महाशिलाकण्टकेनेवास्याहतस्य वेदना जायते स संग्रामो महाशिलाकण्टक एवोच्यते। (रथमुसले त्ति) यत्र रथो मुशलेन युक्तः परिधावन महाजनक्षयं कृतवान् अतो रथमुशलः उपाए त्ति) उपयातः संप्राप्तः / (किं जइस्सति) जयश्लाघां प्राप्स्यति / पराजेष्यति अभिभविष्यति, परं सैन्यं परानभिभविष्यति / तेन कालनामानं पुत्रं जीवन्तं द्रक्ष्याम्यहं न येत्येवमुपहतो मनःसंकल्पो युक्तायुक्तविवेचने यस्याः सा उपहतमनःसंकल्पा / यावत्करणात्-"करयलपल्हत्थिपमुही अट्टज्झाणोवगयाओ मंथियवणनयणकमलाओ" मंथियं अधोमुखीकृतं वदनं च नयनं कमलेव यया सा तथा। "दीणविवन्नवयणा' दीनस्येव विवर्ण वदनं यस्याः सा तथा (झियायति) आर्त्तध्यानं ध्यायति "मणोमाणसिएण दुक्खेण अभिभूया' मनसि जातं मानसिकम्, मनस्येव वद्वर्तते तन् मानसिकं, दुःखवचनेनाप्रकाशितत्वात् तन्मनोमानसिकं, तेन (अव्वहि) वर्तनाभिभूता। "तेण कालेणमित्यादि" (अयमेयारूवे त्ति) अयमेतद्रूपो वक्ष्यमाणरूपः / (अब्भत्थइ त्ति) आध्यात्मिक आत्मविशेषचिन्तितस्मरणरूपं प्रार्थितं लब्धमाशंसितं मनोगतं मनस्येव वर्तते यद्न बहिः प्रकाशितं संकल्पविकल्पसमुत्पन्नं प्रादुर्भूतम् / तदेवाह-(एवमित्यादि)। यावत्करणात्-"पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे इहमागए इह संपन्ने इह समोसढे इहेव चंपाए नयरीए पुन्नभद्दे चेइए अहापडिरूपं उग्गहं उग्गिहित्ता सयमेणं तयसा अप्पाणं भावमाणे विहरइ, तं महफलं खलु भो देवाणुप्पिया! तहारूवाणं अरहंताणं भगवंताणं नामगोयस्स वि सवणयाए कि मंग ! पुण अभिगमणवंदनणमंसणापडिपुच्छणपब्रुवासणाए एगस्स वि आयरियस्स धम्म्यिस्स सुक्यणस्स सवणयाएकिमंग ! पुण विउलस्स अट्ठणगहणयाए इच्छामिणं अहंसमणं भगवं महावीरंवंदामिणमंसामिसक्कामि सम्माणेमि कल्लाणं मंगलं देवयं चेइयं पज्जुवासामि। एवं तो पिचभवे हियाए सुहाए पमाए निस्सेयसाए आणुगामियत्ताए भविस्सइ, इमंचणं एयारूवं वागरणं पुच्छिस्सामि त्ति कटु एवं संपेहेत्ति।" संप्रेक्षते पर्यालोचयति सूगम, नवरम् (इहागइ त्ति) चम्पां (इह संपत्ते त्ति) पूर्णभद्रे चैत्ये इह (समोसड्डेत्ति) साधूचितावग्रहे। एतदेवाह-"इहेव चंपाए इत्यादि"(अहापडिरुव त्ति) यथा प्रतिरूपमुचितमित्यर्थः / (तमिति) तस्मात् (महाफलं ति) महत्फलमाभ्यां भवतीतिगम्यम्। (तहारूवाणं ति) तत्प्रकारस्वभावानां, महाफलजननस्वभावानामिर्थः / (नामगोयस्स त्ति) नाम्नो यादृच्छिकस्यभिधानस्य गोत्रस्य गुणनिष्पन्नस्य (सवणयाए त्ति) श्रवणेन (किंमग ! पुण इति) किं पुनरिति पूर्वोक्तार्थविशेषद्योतनार्थम् / अङ्गे त्यामन्त्रणे। यद्धापरिपूर्णएवाय शब्दो विशेषणार्थः। अभिगमनवन्दन स्तुतिः नमनं प्रणमनं प्रतिप्रच्छन्नं शरीरादिवार्ताप्रश्नः, पर्युपासनं सेवा, तद्भावस्तत्ता, तया एकस्याप्यर्थस्यार्थप्रणेतृकत्वाद् धार्मिकस्य धर्मप्रतिबद्धत्वाद् वन्दामिवन्दे स्तौमि नमस्यामि, सत्कारयामि आदरं करोमि / वस्त्राद्यर्चनं वा संमानयामि उचितप्रतिपत्त्येति, कल्याणं कल्याणहेतु मङ्गलं दुरितोपशमनहेतुं दैवं चैत्यं पर्युपासयामि सेवे। एतत् नोऽस्माक प्रेत्यभवे जन्मान्तरे हिताय पथ्यान वत् सुखाय शर्मणे क्षेमाय संगतित्वाय निःश्रेयसाय मोक्षाय अनुगामिकत्वाय भवपरपरासु सानुबन्धसुखाय भविष्यमिति कृत्वा इति हेतोः संप्रेक्ष्यतेपर्यालाचयति / संप्रेक्ष्य चएवमवादीत्-शीघ्रमेव भो देवाणुप्पिया! धर्माय नियुक्तंधार्मिक यानप्रवरम् (चाउग्घंटं आसरहं ति) चतस्रो घण्टाः पृष्ठतोऽग्रतः पार्श्वतश्चालम्बामाना यस्य स चतुर्घण्टः, अश्वयुक्तो रथोऽश्वरथं युक्तमेवाऽश्वादिमिरुपस्थापयन्ति प्रगुणीकृत्य मम समर्पयत (पहायन्ति) कृतमज्जनाः, स्नानान्तरम् (कवयलिकम्म त्ति) स्वगृहे देवतानां कृतवलिकर्मा, (कयकोउयमंगलपायच्छित्त त्ति) कृतानि कौतुकमङ्गलान्येव प्रायश्चिचत्तानीव दुःस्वप्नादिव्यपोहायावश्यं कर्मकर्तव्यत्वात् प्रायश्चित्तानि यया सा तथा / तत्र कौतुकानि मषीतिलकादीनि , मङ्गलादीनि सिद्धार्थदध्यक्षतर्वाङरादीनि / "सुद्धप्पावेसाई वत्थाई परिहिया अप्पमहग्धाभरणालंकिय सरीरा' सुगमम्। (उवट्ठाणसालो) उपवेशनमण्डपः / (दुरूहइ) आरोहति (बहूहिं खुजाहि) तत्र कुब्जिकाभिर्वक्रजङ्घाभिः, चिलातिभिरनार्यदेशोत्पन्नाभिः, वामनाभिः ह्रस्वशरीराभिः, रूवाभिः पडहकोष्ठाभिः, वव्वरीभिः वटवरदेशे संभवाभिः, बहुसिकाभिः योनिकाभिः, पण्हकाभिः, इसिनिकाभिः, थासिकाभिः लासिकाभिः लकुसिकाभिः द्धविडीभिः सिंहलाभिः आरवीभिः पक्वणीभिः बाहुलीभिः मुसंडीभिः सवरीभिः पारसीभिः नानादेशीभिः, बहुविधानार्य देशोत्पन्नाभिरित्यर्थः / विदेशः, तदीयदेशापेक्षया चत्पा नगरी विदेशः। तस्याः परिमण्डिकाभिः, "इंगिय चिंतियं पच्छियं वियाणियाहिं" तत्र इङ्गितेन नयनादिचेष्टाविशेषेण, चिन्तितं च परेण दूतस्थापितप्रार्थितं चाभिलाषितं च विजानन्ति यास्तास्तथाभिः, स्वस्वदेशे यन्नेपथ्ये परिधानादिरचना तद्वद् गृहीतो वेषो यकाभिस्तत्तथा, ताभिः / निपुणानां मध्ये कुशला थास्तास्तथा, ताभिः, अत एव विनीताभिर्युक्तति गम्यते / तथा चेटिकाचक्रवालेन, अर्थात् स्वदेशसंभवेन वृन्देन परिक्षिप्ता या सातथा। यत्रैव श्रमणो भगवान तत्रैवोपागता संप्राप्ता, तदनु महावीरं त्रिःकृत्वा वन्दते स्तुत्या नमस्यति प्रणामतः स्थिता उर्द्धस्थानेन कृताञ्जलिपुटा अभिमुखा सती पर्युपास्ते, धर्मकथाश्रवणानन्तरं त्रिः-कृत्वा वन्दयित्वा एवमवादीत्-"एवं खलु भंते !'' इत्यादि सुगमम् / अत्र कालीदेव्याः पुत्रः कालनामा कुमारो हस्तितुरगरथपदाति-रूपनिजसैन्यपरिवृतः कूणिकराजनियुक्तो चेटकराजेन सह रथमुसलं संग्रामयन् सुभटैश्चेटकसत्कैर्यदस्य कृतं तदाह-(हयकहियपसरवीरघाइय-विवाडियचिवद्धयपडागे) सैन्यस्य हतत्वात् महतो मानस्य मन्थनान् प्रवरवीराः सुभटाः, घातिता
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy