________________ कायजोग 450- अभिधानराजेन्द्रः - भाग 3 कायट्ठि "कज्जम्मि समुप्पन्ने, सुयकेवलिणा विसिट्ठलद्धीए। जं इत्थ आहरिजइ, भणंति आहारगं तं तु // 1 // पाणिदयरिद्धिसंदरि--सणत्थमत्थोवग्गहणहेउवा। संसयवुच्छेयत्थं, गमणं चिणपायमूलम्मि"||२|| तदेव कायः, तेन योग आहारककाययोगः / आहारकं मिश्रं यत्र, औदारिकेणेति गम्यते / स आहारकमिश्रः / सिद्धप्रयोजनस्य चतुर्दशपूर्वविद आहारकं परित्यत्यत औदारिकमुपाददानस्याहारकं प्रारभमाणस्य चा प्राप्यते। स एव कायः तेन योगआहारकमिश्रकाययोगः। कर्म०४ कर्म कायजोगि(ण) पुं०(काययोगिन्) जीवभेदे, काययोगिन एकेन्द्रियाः अन्येषां मनोयोगवाग्योगयोरपि सत्त्वात्। स्था०४ ठा०४ उ०। कायट्ठि पुं०(कायस्थिति) काये निकाये पृथ्व्यिादिसामान्यरूपेण स्थितिः / स्थितिभेदे,''दोण्हं कायट्टिई पण्णत्ता। तंजहामणुस्साणंचेव, पंचिंदियतिरिक्खजोणियाणं चेव''। कायस्थितिरसंख्योत्सर्पिण्यादिका। स्था०२ ठा०२ उ०काय इह पर्यायो गृह्यते, कायइव काय इत्युपमानात्। स च द्विधासामान्यरूपो विशेषरूपश्च / तत्र सामान्यरूपो निर्विशेषणो जीवत्वलक्षणः , विशेषरूपो नैरयिकत्वादिलक्षणः; तस्य स्थितिरवस्थान कायस्थितिः। सामान्यरूपेण विशेषरूपेण वा पर्यायेणादिष्टस्य जीवस्याव्यच्छेदनेन भवने ,प्रज्ञा (1) कायस्थित्यधिकारगाथा। (2) दण्डकत्वेन जीवानां कायस्थितिः। (3) जीवानां नैरयिकत्वादिपर्यायैरवस्थानचिन्तनम्। (4) तिर्यक्तिर्यस्त्रीणां मनुष्यमनुष्यस्त्रीणां च कायस्थितिः। (5) देवदेवीनी कायस्थितिविचारः। (6) पर्याप्तापर्याप्तत्वविशेषेण नैरयिकादीनां कायस्थितिः। (7) इन्द्रियद्वारमाश्रित्य जीवानां कायस्थितिः। (8) कायद्वारमाश्रित्य जीवानां कायस्थितिः। (E) योगद्वारमवलम्ब्य कायस्थितिःविचारः। (10) वेदद्वारमाश्रित्य जीवानां कायस्थितिः। (11) कषायद्वारमाश्रित्य जीवानां कायस्थितिः। (१२)लेश्याद्वारमाश्रित्य जीवानां कायस्थितिः। (13) सम्यग्दृष्टिद्वारमाश्रित्य जीवानां कायस्थितिः। (14) ज्ञानद्वारमाश्रित्य जीवानां कायस्थितिः। (१५)दर्शनद्वारमाश्रित्य जीवानां कायस्थितिः। (16) संयमद्वारमुपयोगद्वारं चाश्रित्य जीवानां कायस्थितिः। (१७)आहारद्वारमाश्रित्य जीवानां कायस्थितिः। (१८)भाषाकाभाषकद्वारं परित्तापरिद्वारं चाश्रित्य जीवानां काय स्थितिः। (१६)संज्ञिद्वारं भवसिद्धिकद्वारं चाश्रित्य जीवानां कायस्थितिः।। (२०)उदकगर्भादीनां कायस्थितिनिरूपणम्। (१)कायस्थित्यधिकारगाथामाहजीवगइंदियकाए, जोए वेदे कसाय लेस्सा य। सम्मत्तनाणदसण, संजय उवओग आहारे।।१।। भासगपरित्तपज्जत्त सूहमसन्नी भवत्थिचरिमे य। एएसिंतु पदाणं, कायठिती होइणायव्वा // 2 // प्रथमं जीवपदम् / किमुक्तं भवति ? प्रथम जीवपदमधिकृत्य कायस्थितिर्वक्तव्या इति 1, ततो गतिपदम् 2, तदनन्तरामिन्द्रिय पदम् 3, ततः कायपदम् ४,ततो योगपदम् 5, तदनन्तरं वेदपदम् 6, ततः कषायपदम् 7, ततो लेश्यापदम् 8, तदनन्तरं सम्यक्त्वयपदम् 6, तदनन्तरं ज्ञानयपदम् 10, तदनन्तरं दर्शनयपदम् 11, ततः संयतपदम् १२.ततः उपयोगपदम् १३,तदनन्तरमाहारपदम् १४.ततो भाषकपदम् 15, ततः परीतपदम् 16, ततः पर्याप्तपदम् 17, ततः सूक्ष्मपदम् 18. ततः संज्ञिपदम् 16, ततो भवसिद्धिपदम् २०.तदनन्तरमस्तिकायपदम् 21, ततश्चरमपदम् 22. एतेषां द्वाविंशतिसंख्यानां पदानां कायस्थितिर्भवति ज्ञातव्या; यथा च भवति ज्ञातव्या तथा यथोद्देश निर्दिश्यते। (२)जीवदिदण्डकःजीवे णं भंते!जीव त्ति कालओ केव चिरं होइ? गोयमा!सद्धं / 'जीवेण भंते' इत्यादि / इह जीवनपर्यायविशिष्टो जीव उच्यते, तत्प्रश्रयति-जीवो, णमिति वाक्यालंकारे। भदन्त ! जीव इति / जीवपर्यायविशिष्टतयेत्यर्थः / कालतः कालमधिकृत्य, कियचिरं कियन्त कालं यावद्भवति / भगवानाह-गौतम ! सर्वाद्धा, सर्वकालं यावत् / कथमिति चेत् ? उच्यते-इह जीवनमुच्यते प्राणधारणम् / प्राणाश्च द्विविधः--द्रव्यप्राणा भावप्राणाश्च / द्रव्यप्राणा इन्द्रियपञ्चकबलत्रिकोच्छासनिश्वासायुष्कर्मानुभवलक्षणाः, भावप्राणा ज्ञानादयः / तत्र संसारिणामायुष्कर्मानुभवलक्षणं प्राणधारणं सदैवावस्थितम्, न हि सा काचिदवस्था संसारिणामास्ति यस्यामायुष्कर्मानुभवनं न विद्यते इति। मुक्तानां तु ज्ञानादिरूपप्राणधारणमवस्थितम्, मुक्तानामपि हि ज्ञानादिरूपाः प्राणाः सन्ति, यैर्मुक्तोऽपि जीवतीति व्यपदिश्यते / ते च ज्ञानादयो मुक्तानां शश्वतिकाः, अतः संसार्यवस्थायां च सर्वत्र जीवनमस्तीति सर्वकालभावी जीवनपर्यायः / / (3) सम्प्रति तस्यैव जीवस्य नैरयिकत्वादिपर्यायैरादिष्टस्य तैरेव पर्यायैरव्यवच्छेदेनावस्थानं चिन्तयन्नाहणेरइएणं भंते ! णेरइए त्तिकालओ केवं चिरं होइ? गोयमा ! जहण्णेणं दस वाससहस्साइं, उक्कोसेणं तेत्तीसं सागरोवमाई।। 'नेरएणं भंते' इत्यादि सुगम, नैरयिकास्ततो भव्यस्वभाव्यात् च्युत्वाऽनन्तरं न भूयो भूयो नैरयिकत्वेनोत्पद्यन्ते, ततो यदेव तेषां भवस्थितेः परिमाणं तदेव कायस्थितेरपीत्युपपद्यतेजधन्यत उत्कर्षश्च यथोक्तपरिमाण्कायस्थितिः। (4) तिरश्चामतिरिक्खजोणिए णं भंते ! तिरिक्खजोणिए त्ति कालओ केव चिरं होइ? गोयमा ! जहण्णेणं अंतोमुत्तं, उक्कोसेणं अणंतं कालं, अणंताओ ओसप्पिणीउस्सप्पिणीओ कालओ खित्तओ अणंतालोगा असंखेज्जा पोग्गलपरियट्टा आवलियाए असंखेज्जइ भागे। (तिरिक्खजोणिए णं भंते इत्यादि) तत्र यदा देवो मनुष्यो नैरयिको वा तिर्यक्षुत्पद्यतेतत्र चान्र्मुहूर्त स्थित्वा भूयः स्वगतौ गत्यन्तरेवा संक्रामति, तदा लभ्यते जघन्यतोऽन्तर्मुहूर्तप्रमाणा कायस्थितिः, उत्कर्षतोऽनन्तं कालं यावत् / तस्य चानन्तस्य कालस्य प्ररूपणा द्विविधा / तद्यथाकालतः, क्षेत्रतश्च / तत्रकालतोऽनन्ता उत्सर्पिण्यवसर्पिण्यः, उत्सर्पिण्य