SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ कामकम 433 - अभिधानराजेन्द्रः - भाग 3 कामक्खंध कामकम न०(कामकम) षष्ठदेवलो के न्द्रस्य पारियात्रिकविमाने, स्था०१०ठा० कामकहा स्त्री०(कामकथा) कामप्रधानायां कथायाम, दशा साम्प्रतं कामकथामाहरूवं वओ य वेसो, दक्खत्तं सिक्खियं च विसएसु। दिटुं सुयमणुभूयं, च संथवो चेव कामकहा।।१६८|| रूपं सुन्दरं, वयश्चोदग्रंवेष उज्ज्वलः दाक्षिण्यं मार्दवं, शिक्षितं विषयेषु शिक्षा च कलासु, दृष्टमद्भूतदर्शनमाश्रित्य, श्रुतंच अनुभूतं च संस्तवश्च परिचयश्चेति कामकथा। रूपे च वसुदेवादय उदाहरणम्। वयसि सर्व एव प्रायः कमनीया भवति, लावण्यात् ।उक्तं च-"यौवनमुदग्रकाले, विदधाति विरूपकेऽपि लावण्यम्। दर्शयति पाकसमये, निम्बफलं चाऽपि माधुर्यम्" इति। वेष उज्ज्वलः कामाङ्गम् यंकञ्चन उज्ज्वलवेषं पुरुष दृष्ट्वा स्त्री कामयते' इति वचनात् / एवं दाक्षिण्यमपि, 'पञ्चालवीषु मार्दवमिति' वचनात् शिक्षा च कलासु कामाङ्गम्, वैदग्ध्यात्। उक्तं च"कलानां ग्रहणादेव, सौभाग्यमुपजायते / देशकालौ त्वपेक्ष्याऽऽसां, प्रयोगः संभवेन्न वा"।अन्ये त्वत्राचलमूलदेवौ देवदत्तांप्रतीत्येक्षुयाचनायां प्रभूताऽसंस्कृत-स्तोकसंस्कृतप्रदानद्वारेणो-दाहरणमभिदधति / दृष्टमधिकृत्य कामकथा। यथा-नारदेन रुक्मिणीरूपं दृष्ट्वा वासुदेवे कृता। श्रुतं त्वधिकृत्य यथा-पद्मनाभेन राज्ञा नारदाह्रौपदीरूपमाकर्य पूर्वसंस्तुतदेवेभ्य कथिता / अनुभूतं चाधिकृत्य कामकथा यथातरङ्गवत्या निजानुभवकथने। संस्तवश्च कामकथापरिचयः कारणानीति कामसूत्रपाठात् / अन्ये त्वभिदधति-"सइदंसणाउ पेम्म, पेमाउ रती रती य विस्संभो। विस्संभाओ पणओ, पंचविहं वड्डए पेम्मं ।''इति गाथार्थः।।१६८||उक्ता कामकथा। दश०३अ०) कामकाम त्रि०(कामकाम) कामेन स्वेच्छया कामो मैथुनसेवा येषां ते कामकामाः / अनियतकामेषु, प्रज्ञा०२ पद० / जी०। कमे शब्दरूपयोः कामो वाञ्छामात्रं यस्यासौ कामकामः / शब्दरूपाभिलाषुके,तं०। कामं काम्यं कामयते, कम् णि अण। उप-सका विषयप्रार्थके, स्त्रियां डीप्। वाचन कामकामि त्रि०(कामकामिन) कामान् कामयितुमभिलषितुं शीलमस्येति विषयप्रार्थनाशीले, आचा०। कामकामी खलु अयं पुरिसे से सोयति झूरति तिप्पपति फिडुति परितप्पति। कामान् कामयितुमभिलषितुं शीलमस्येति कामकामी। खलुवक्यिालङ्कारे / अयमित्यध्यक्षः, पुरुषो जन्तुर्यस्त्वेवंविधोऽविरतचेताः कामकामी स नानाविधान दुःखविशेषाननुभवतीति दर्शयति (से सोयमित्यादि) स इति कामकामी ईप्सितस्यार्थस्या प्राप्तौ तद्वियोगे च स्मृत्यनुबन्धः शोकस्तमनुभवति / अथवा शोचत इति काममहाज्वरगृहीतः सन् प्रलपतीति / उक्तम् "गते प्रेमाबन्धे प्रणयबहुमाने च गलिते, निवृत्ते सद्भावे जन इव जने गच्छति पुरः / तमुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि ! गतांस्तांश्च दिवसान, न जाने को हेतुर्दलति शतधा यन्न हृदयम्?''। इत्यादिशोचते। तथा (कूरइति) हृदयेन खिद्यते। तद्यथा - "प्रथमतरमथेदं चिन्तनीयं न चासीद्, बहुजनदयितेन प्रेम कृत्वा जनेन। हत हृदय निरास क्लीब ! संतप्यसे किं नहि जडगततोये सेतुबन्धाः क्रियन्त'। इत्येवमादि। तथा (तिप्पइत्ति) ' तितेपृ' क्षरणार्थी / तेपत क्षरति संचलति मर्यादातो भ्रस्यते, निर्मर्यादीभवतीति यावत्। तथाशारीरमानसैर्दुःखै पीड्यते। तथा-परितः समन्ताबहिरन्तश्च तप्यते परितप्यते, पश्चात्तापं च करोति / यथा-पुत्रकलत्रादौ क्वचिद्गते समयाऽननुवर्तिते इति कोपात् परितप्यते। सर्वाणि चैतानि शोचनादीनि विषयविषावष्टब्धान्तःकरणानां दुःखावस्थासंसूचकानि। अथवा-शोचत इति यौवनधनमदमोहाभिभूतमानसो विरुद्धानि निषेव्य पुनर्वयःपरिणामेन मृत्युकालोपस्थानेन वा मोहापगमे सति किं मया मन्दभाग्येन पूर्वमशेषशिष्टाऽऽचीर्णः सुगतिगमनैकहेतुर्दुर्गतिद्वार-परिघो धर्मो नाचीर्ण इत्येवं शोचते इति / उक्तं च-"भवित्री भावानां परिणतिमनालोच्य नियतां, पुरा हा ! यत्किंचिद्विहितमशुभं यौवनमदात्। पुनः प्रत्यासन्ने महति परलोकैकगने, तदैवैकं पुंसां व्यथयति जराजीर्णवपुषाम्" / / 1 / / तथा झूरतीत्यादीन्यपि स्वबुद्ध्या योजनीयानीति / उक्तं च"सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिवधार्या यत्नतः पण्डितेन / अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः''॥१॥ इत्यादि। अवचा०१ श्रु०२ अ०५ उ०। कामकुसल पुं० (कामकुशल) व्यवहारकुशलभेदे, स च यत्नेनाऽनुवर्तते प्रियां बाह्यानुवर्तितया कलहाभावादिति नितिर्भवति, तत उभयलोकसिद्धिरिति। यदा च चैत्याभिगमनं करोति तदा तां मुखशुद्धि कारयति, तद्गृहे स्नानं न विधत्ते, करोति चेत्तदा यथा तद्वशगो न भवति, तद्वशगतत्वेनोभयलोकहानिः स्यादिति। दर्श०। कामकूड पुं०(कामकूट) काम एव कूट शृङ्ग प्रधानमस्य / वेश्याप्रिये, वेश्याया विभ्रमे च। वाचा विमानभेदे, जी०३ प्रति। कामक्खंध पु०न०(कामस्कन्ध) काम्यत्वात् कामाः मनोज्ञशब्दादयः, तद्धेतवः स्कन्धास्तत्तत्पुद्गलसमूहाः कामस्कन्धाः / उत्त०४ अ०। शब्दादिद्रव्यस्कन्धेषु, उत्त०। खेत्तं वत्थु हिरण्णं च, पसवो दास पोरुसं। चत्तारि कामखंधाणि, तत्थ से उववज्जई / / 17 / / मित्तं वा नायवं होइ, उच्चा गोएय वण्णवं / अप्पायंके महापन्ने, अभिजाए जसो बले॥१८॥ क्षि निवासगत्योः; क्षियन्ति निवसन्त्यस्मिन्निति क्षेत्रं, ग्रामाऽऽरामादिसेतुकेतूभयात्मकं वा; तथा वसन्त्यस्मिन्निति वास्तु, खातोछितोभयात्मकम्, हिरण्यं सुवर्णम् उपलक्षणत्वात् रूप्यादि च, पशवोऽश्वादयः , दास्यते दीयते एभ्य इति दासाः पोष्यवर्गरूपाः, ते च, (पोरस त्ति) सूत्रत्वात्पौरुषेयंचपदातिसमूहः, दासपौरुषेयं चत्वारःचतुःसंख्याः, अत्र हि क्षेत्र वास्त्विति चैको, हिरण्यमिति द्वितीयः, पशव इति तृतीयो, दासपौरुषेयमिति चतुर्थः / एते किमित्याह-काम्यत्वात्कामा मनोज्ञशब्दादयः, तद्धेतवः स्कन्धास्तपुद्गलसमूहाः कामस्कन्धाः, यत्र भवन्तीति गम्यते। प्राकृतत्वाचन निर्देशः / तत्र तेषु कुलेषु (से इति) स उपपद्यते जायते, अनेन चैकमङ्गमुक्तम् / शेषाणि तु नवाङ्गान्याह। मित्राणि सह पांसुक्रीडितादीनी सन्त्यस्येति मित्रवान, ज्ञातयः स्वज
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy