________________ कसाय 398 - अभिधानराजेन्द्रः - भाग 3 कसाय मासतव" मित्यादिवव्यवहारनयमाश्रित्योच्यते अन्यथा हि बाहुबलिप्रभृतीनां पक्षादिपरतोऽपि संज्वलनाद्यवस्थितिः श्रूयते अन्येषां च संयतादीनां मासवर्षादिकाले प्रत्याख्यावरणानाम-प्रत्याख्यानावरणानामनन्तानुबन्धिनां चान्तर्मुहूर्त्तदिकं कालमुदयः श्रूयते इति / तथा नरकगतिकारणत्वानन्तानुबन्धिनः कषाया अपि नरका भवन्तिच कारणे कार्योपचाराद्यथा आयुघृतं नड्वलोदकं पादरोग इति / एवं तिर्यग्गतिकारणत्वात्तिर्यञ्चोऽप्रत्याख्यानावरणाः नरगति कारणत्वान्नराः प्रत्याख्यानावरणाः। अमरगतिकारणात्वादमराः संज्वलनाः। एतदुक्तं भवति। अनन्तानुबन्ध्युदये मृतो नरकगतावेवगच्छति अप्रत्याख्यानावरणोदये मृतस्तिर्यक्षु प्रत्याख्यानावरणाोदये मृतोमनुष्येषुसंज्वलनोदये पुनर्मूतोऽमरेष्वेव गच्छति / उक्तश्चायमर्थः पश्चानुपूर्व्या अशपि “पक्खचउमा-सवत्सरजावजीवाणुनामिणो भणिया। देवनरतिरिनारय, गइसाहणहेयवो नेया” इदमपि व्यवहारनयमधिकृत्योच्यते अन्यथा हि अनन्तानुबन्ध्युदयवतामपि मिथ्यादृशां केषांचिदुपरितनगवेयकेषूत्पत्तिः श्रूयते अप्रत्याख्यानावरणोदयवतामविरतसम्यग्दृशां तिर्यग्मनुष्याणां चासुरेषुत्पत्तिः प्रत्याख्यानावरणाोदयवतां च देशविरतानां देवगतिः अप्रत्याख्यानावरणोदयवतां च सम्यग्दृष्टिदेवानां मनुष्यगतिः / तथा (समंति) सम्यक्त्वं च (अणुसव्वविरइत्ति) विरतिशब्दस्य प्रत्येक संबन्धात् अणुविरतिश्व देशविरतिः सर्वविरतिश्च / यथाख्यातचारित्रंच "सम्माणु" सर्वविरतिर्यथाख्यातचारित्राणि तेषां घातो विनाशः “सम्माणु" सर्वविरति यथाख्यातचारित्रघातस्तं कुर्वन्तीत्येवंशीलाः संमाणुसर्वविरति यथाख्यातचारित्रघातकराः / एतदुक्तं भवति। अनन्तानुबन्धिनः कषायाः सम्यक्त्वघातकरा यदाहुः श्रीभद्रबाहुस्वामिपादाः “पढमिल्लुयाण उदए, नियमा संजोयणा कसायाणं / संमईसणलंभ, भवसिद्धीया विनलहंति" अप्रत्याख्यानावरणा देशविरतिघातकराःन सम्यक्त्वस्येत्यल्लब्धम्।यदाहुः पूज्यपादाः “बीयकसायाणुदए, अप्पचक्खाणनामधिज्जाणं / सम्मइंसणलंभं, विरियाविरियं न य लहंति" प्रत्याख्यानावरणास्तु सर्वविरते_तकाः सामर्थ्यान्न देशविरतेः उक्तंच "तइयकसायाणुदए, पचक्खाणावरणनामधिजाणं / देसिक्कदेसविरयं, चरित्तलंभन उलहंति" संज्वलनाः पुनर्यथाख्यातचारित्रस्य घातका न सामान्यतः सर्वविरतेः उक्तं च श्रीगदाराध्यपादैः “मूलगुणाणं लंभ, नम लहइ मूलगुण घाइणं उदए / संजलणाणं उदए, न लहइ चरणं अहक्खायमि" ति। अथ जलरेखादिदृष्टान्तेन किंचित्सविशेषक्रोधादि कषायाणां स्वरूपं व्याचिख्यासुराहजलरेणुपुढविपव्वय-राई सरिसो चउव्विहो कोहो। तिणिसलयाकट्ठडिअ, सेलत्थंभोवमो माणा||१९ इह राजिशब्दः सदृशशब्दश्च प्रत्येकं संबन्ध्यते ततो जलराजिसदृशस्तावत्संज्वलनः क्रोधः यथा यष्ट्यादिभिर्जलमध्ये राजीरेखा क्रियमाणा शीघ्रमेव निवर्तते तथा यः कथमप्युदयप्राप्तोऽपि सत्वरमेव व्यावर्त्तते स संज्वलनः क्रोधोऽभिधीयते। रेणुराजिसदृशः प्रत्याख्यानावरणक्रोधः अयं हि संज्वलनक्रोधापेक्षया तीव्रत्वाद्रेणुमध्यविहितरेखावच्चिरेण निवर्तत इति भावः / पृथिवीराजिसदृशस्त्वप्रत्याख्यानावरणः यथास्फुटितपृथिविसंबन्धिनी राजी कचवरादिभिः पूरिता कष्टनापनीयते / एवमेषोऽपि प्रत्याख्यानावरणापेक्षया कष्टन विनिवर्तत इति भावः / विदलितपर्वतराजिसदृशः पुनरनन्नतानुबंधी क्रोधः कथमपि निवर्तयितुमशक्य इत्यर्थः / उक्तश्चतुर्विधः क्रोधः / इदानीं मानोऽभिधीयते तत्र तिनिसलतोपमः संज्वलनो मानः यथा तिनिसो वनस्पति विशेषस्तत्संबन्धिनी लता सुखेनैव नमत्येवं यस्य मानस्योदये जीवः स्वाग्रह मुक्त्वा सुखेनैव नमति स संज्वलनमानः / यथा स्तब्धं किमपि काष्ठमनिस्वेदादिबहूपायैः कष्टन नमत्येवं यस्य मानस्योदये जीवोऽपि कष्टन नमति स काठोपमः प्रत्याख्यानोवरणो मानः यथाऽस्थि हड्डु बहुतरैरुपायै रतितरां महता कष्टेन नमत्येवं यस्य मानस्योदये जीवोऽप्यतितरां महता कष्टेन नमति सोऽस्थ्युपमोऽप्रत्याख्यानावरणो मानः। शिलायां घटितःशैलःशैलश्चासौ स्तम्भश्च शैलस्तम्भस्तदुपस्त्वनन्तानुबन्धी मानः कथमप्यनमनीय इत्यर्थः। उक्तश्चतुर्विधो मानः / अथ मायालोभौ व्याख्यानयन्नाहमायावले हिगोमुत्ति, मिंढसिंगघवणवंसमूलसमा। लोहोहलद्दाखंजण-कद्दमकिमिराग सारित्थे (सामाणो)|२०|| मायाऽवलेखिकासमा संज्वलनी धनुरादीनामुल्लिख्यमानानां याऽवलेखिका वक्रत्वग्रूपा पतति यथासौ कोमलत्वात् सुखेनैव प्राञ्जलीक्रियते एवं यस्या उदये समुत्पन्नापि युदयकुटिलता सुखेनैव निवर्तते सा संज्वलनी माया गौलीवईस्तस्य मार्गे गच्छतो वक्रतया पलिता सूत्रधारा गोमूत्रिकाऽभिधीयते यथाऽसौ शुष्का पवनादिभिः कमपि कष्टनापनीयते एवं यजनिता कुटिलता कष्टेनापगच्छति सा गोमुत्रिकासमा प्रत्याख्यानावरणी माया / 1 / एवं मेषशृङ्गसमायामप्यप्रत्याख्यानावरणमायायां भावना कार्या नवरमेषा कष्टतरनिवर्तनीया। घनवंशीमूलसमा त्वनन्तानुबन्धिनी माया यथा निविमवंशीमूलस्य कुटिलता केवलवह्निनापिन दह्यते एवं यज्ञनिता मनः कुटिलता कथमपि न निवर्त्तते सानन्तानुबन्धिनी मायेत्यर्थः / तथा लोभे हरिद्रारागसमानः संज्ववलनः यथा वाससि हरिद्रारागः सूर्यातपस्पर्शादिभात्रादेव निवर्तते तथाऽयमपीत्यर्थः / कष्टनिवर्तनीयो वस्त्रविलग्नप्रदीपादिखञ्जन समानः प्रत्याख्यानावरणलोभः / कष्टतरापनेयो वस्त्रविलग्ननिविडकर्दमसमानोऽप्रत्याख्यानावरणलोभः / कृमिरागरक्ततपदसूत्ररागसमानः कथमप्यपनेतुमशक्योऽनन्तानुबन्धी लोभ इति / कर्म०१ क०। आचा० आतु०पं०सं० स्था०। विशे० सम्प्रति एतेषामेव क्रोधादीनां निवृत्तिभेदतोऽवस्थभेदतश्च भेदमाहकतिविहे णं भंते ! कोहे पण्णत्ते ? गोयमा! चउविहे कोहे पण्णत्ते तंजहा आभोगणिव्वत्तिए अणाभोगनिव्वत्तिएउवसंते अनुवसंते / एवं नेरइयाणं जाव वेमाणियाणं / एवं माणेण वि मायाए विलोभे ण वि चत्तारि दंमगा। यदा परस्यापराधं सम्यगवबुध्य कोपकारणं च व्यवहारतः पुष्टमवलम्ब्य नान्यथास्य शिक्षोपजायते इत्याभोग्यकोपं च विधत्ते तदा स कोप आभोगनिर्वर्तितः / यदा त्वेनमेवं तथाविधमुहूर्तवशाद्गुणदोषविचारणाशून्यः परवशीभूय कोपं कुरुते तदास कोपो नाभोगनिवर्तितः उपशान्तोऽनुदयावस्थः अनुपशान्त उदयावस्थः / एवमेतद्विषयं दण्डकसूत्रमपि भावनीयम् एवं मानमायालोभाः