SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ करण ३६२-अभिधानराजेन्द्रः - भाग 3 करण निश्चयनयवादी प्रतिविधानमाह - जम्हा विगच्छविगयं-णं विगयमुप्पज्जमाणमुप्पन्ने। तो परभवाइसमए, मोक्खादाणाण न विरहो।। यस्मातपूर्वभवशरीरं परभवाद्यसमये विगच्छद्विगतमुत्पद्यमानं त्वग्रेतनभवशरीरमुत्पन्नं क्रियाकालनिष्ठाकालयोरभेदात्ततस्तत्र मोक्षादानयोरिष्यमाणयोर्न कश्चिद्विरोधो मुच्यमानस्यमुक्तत्वेनैकस्यैवाग्रेतनभवशरीरस्य सद्भावादिति / अपि च मरणसमयः परभवाद्यसमयत्वेनाभ्युपगन्तव्य एवान्यथा दोषसंभवादित्याह। चुइसमये नेह भवो, इह देहविमाक्खओ जहा तीए। जइ परमवो वि तहं, तो सो को होउ संसारी॥ च्युतिसमये इह भवपरभवशरीरायुः पुनपूर्वपरिशाटसममये तावदिह भवो न भवति इह भवदेहस्यायुषश्च मुच्यमानत्वान्मुच्यमानस्य च सर्वथा विमोक्षात् क्रियाकालनिष्ठाकालयोरभेदा दिति (जहा तीएत्ति) यथा अतीतजन्मनीह भवो नास्त्यत्रत्यदेहाभावात्तथा च्युतिसमयेऽप्यसौ न भवत्येव इह भवदेहाभावस्याविशषादित्यर्थः / एवं च सति यदि तस्मिंश्च्युतिसमये परभवोऽपि भवता नाभ्युपगम्यते तदाऽसौ संसारी जीवः को भवतु / इह भवत्वस्य तावद्युक्तित एव निषेधात्परभवस्य तु त्वयाप्यनभ्युपगम्यमानत्वात्संसारित्वेन च मुक्तव्यपदेशाभावान्निर्व्यपदेश एवासौ स्यादिति। व्यवहारनयवादी प्राहनणु जह विग्गहोकाले, देहाभावे पि परभवग्गहणं / देहाभावम्मि वि हो-जेव भवो वि को दोसो।। ननु यथा विग्रहकाले विग्रहेण परभवगमनकाले पारभविकदेहाभावेऽपि जीवस्य परभवग्रहणं नारकादिपारभविकव्यपदेशः तथाच्युतिसमयेऽपीह भवशरीराभावेऽपीह भवो यदि भवेदिह भवव्यपदेशोऽपि यदि स्यात्तर्हि को दोषो न कश्चिन्यायस्य समानत्वादिति। निश्चयवादी प्रतिविधानमाह - जं चिय विग्गहकालो, देहाभावे वि नो परभवो सो। चुइसमए उन देहो, न विग्गहो जइ स को हेऊ॥ हन्त यत एवापान्तरालगतौ जीवस्य विग्रहकालो न तु पूर्वभव कालः तत एव देहाभावेऽप्यसौ परभवसंबन्धित्वेन व्यपदेश्यः परभवायुष उदीर्णत्वात्पूर्वभवायुषस्तु प्रागेव निर्जीर्णत्वान्निरायुषश्च जीवस्य संसारे असंभवादिति। च्युतिसमये तुन पूर्वभवे देहः तस्य त्यक्तत्वान्नापि विग्रहो चक्राभावाद्यद्येवं तर्हि स च्युतिसमय इहत्यपारत्रिकभवसमयानां मध्यात्को भवत्विति कथ्यताम् / ननु प्रोक्तं मया यथा विग्रहकाले परभवदेहाभावेऽपि परभवस्तथा च्युतिसमये इहत्य देहभावेऽपि इह भवोऽस्तु को दोषोऽसत्यमुक्तमिदं त्वया नतु युक्तं दृष्टन्तदान्तिकयोर्वेषम्याद्यथाहि च्युति समये इहत्यदेहाभावस्तथा इहत्यायुषोऽप्य भावस्तस्यापि निर्जीर्यमाणस्य तत्र निर्जीर्णत्वात्ततः कथमसौ च्युतिसमय इह भवो भवतु इहत्यायुष्कोदयाभावाद्विग्रहकाले तु युक्तं पंरभावायुष्कोदयसद्भावादिति तस्मात्परभवश्च्युति समयः परभवायुष्कोदयाद्विग्रहकालवदन्यथा तस्य निर्व्यपदेशप्रसङ्गादतः “परभवपढमे साडणमिति" स्थितम् / तदैव औदारिकसंघातपरिशाटोभयानां काल उक्तः / अथ तेषामेवान्तरकालमभिधित्सुः संघातस्य तावजधन्यमन्तरकालमाहसंघायंतरकालो, जहन्नओ खुडुयं ति समऊणं। दोविग्गहम्मि समया, तइयसंघासणा समओ।। ते हूणं खुड्डभवं, धरि परभवमविग्गहेणेव / गंतूण पढमसमये, संघायस्स उस विन्नेओ।। एकदा औदारिकशरीरस्य संघातं कृत्वा पुनस्तत्संघातं कुर्वतस्विभिः समयैन्यूँनं क्षुल्लकभवग्रहणं जघन्योऽन्तरकालः प्राप्यते स च यदा कश्चिदेकेन्द्रियादिजीवो मृतः समयद्वयं विग्रहे कृत्वा क्षुल्लकभवग्रहणायुष्को पृथिव्यादिषूत्पन्नस्तृतीयसमये औदारिकस्य संघातं कृत्वा यथोक्तरित्रभिः समयै,नक्षुल्लक भवग्रहणं संघातपरिशाटोभयं विधाय मृतो निर्विग्रहेणैव ऋजुश्रेण्या अग्रेतनभवे पृथिव्यादिषूत्पन्न औदारिकशरीरस्य संघातं करोति तदा तस्य जन्तोरौदारिकशरीरसंघातस्य च त्रिसमयन्यूक्षुल्लकभवग्रहणलक्षणो जघन्योऽन्तरकालो विज्ञेयः / इह च जघन्यान्तरकालस्य प्रतिपादयितुं प्रस्तुतत्वात्प्रथम विग्रहेणागतनभवे तु निर्विग्रहेणोत्पादितोऽन्यथा मध्यमान्तरकालप्रसङ्गादिति। . अथौदारिकस्यैवोत्कृष्टसंघातान्तरकालमाह - उक्कोसं तेत्तीसं, समयाहियपुष्वकोडिसहियाई। सो सागरोवमाई, अविग्गहेदोव संघायं / काऊणपुटवकोडिं, धरि सुरजेट्ठमाउयं तत्तो। भोत्तूण इहं तइए, समए संघायं तस्स / / सागरोपमाणीत्यस्य व्यवहितः संबन्धः ततश्च त्रयस्त्रिंशत्सागरोपमाणि समयाधिकपूर्वकोट्यधिकान्यौदारिकसंघातान्तरमुत्कृष्ट भवतीति गम्यते। कदा पुननरयं संघातान्तरकालो लभ्यत इत्याह / स उक्तलक्षणः काल इह तृतीयसमये संघातयतः औदारिकशरीरस्य संघात कुर्वतो लभ्यते इति द्वितीयगाथायां संटङ्कः / किं कृत्वा इत्याह कुतश्चित्पूर्वभवादविग्रहेणेह तावन्मनुष्यभवे समागत्य प्रथमसमये संघातं कृत्वा पूर्वकोटिं विधृत्य पूर्वकोटिप्रमाणमिहायुष्कं परिपाल्य ततश्च ज्येष्ठमायुष्कं त्रयस्त्रिंशत्सागरोपमलक्षणमनुत्तरसुरष्यनुभूय ततश्च्युत्वा समयद्यं विग्रहे विधायेति अतं च विग्रहसत्कसमयद्वयमध्यादेक प्राक्तनपूर्वकोट्या प्रक्षिष्यते एवं च सति त्रयस्त्रिंशत्सागरोपमाणि समयाधिकपूर्वकोट्यधिकानि उत्कृष्टमौदारिकशरीरसंघातान्तरं सिद्ध भवति। अस्य चोपलक्षणत्वात्पूर्वकोट्यायुषो मत्स्यस्याप्रतिष्ठाननरके समुत्पद्येत्थं पुनर्मत्स्येषूत्पन्नस्येदमन्तरं मन्तव्यमिति। अथादारिकस्यैव संघातपरिशाटोभयस्य जघन्यमुत्कृष्ट चान्तरकालमाह। उभ्यंतरं जहन्नं, समओ निविग्गहेण संघाए। परमं स तिसमयाइं तेत्तीसं उयहिनामाई॥ संघातपरिशाटो भयस्यै कः समयो जघन्यमन्तरं भवति क्व निर्विग्रहेण संघाते सति / इदमुकं भवति / इह औदारिकशरीरीआयुःपर्यन्तं यावत्संघातपरिशाटोभयं कृत्वा अग्रेतनभवे अविग्रहेणोत्पादारिकस्यैव संघातं कृत्वा पुनरपि तदुभयमारभते तस्य स एवैकः संघातसमयो जघन्यमुभयान्तरं भवति परम
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy