________________ कम्म 301 - अभिधानराजेन्द्रः - भाग 3 कम्म धादीनाममन्यतमौ द्वौ क्रोधादिको त्रयाणां वेदानामन्यतमो वेदो द्वयोर्युगलयोरन्यतरत् युगलमित्येतासां पञ्चानां प्रकृतीनामुदयस्त्रयोदशबन्धके ध्रुवः / अत्र प्रागुक्तक्रमेण भङ्गकानामेका चतुर्विशतिः भयजुगुप्सावेदकसम्यक्त्वनामन्यतमश्मिन् क्षिप्ते षण्णामुदयः अत्र भयादित्रयो विकल्पाः एकैकस्मिन् विकल्पे भङ्गकानां चतुर्विंशतिरिति तिस्रश्चुर्विशतयः / तथा तस्मिन्नेव पञ्चके भयजुगुप्सयोरथवा भयवेदक सम्यक्त्वयोर्यद्वा जुगुप्सावेदकसम्यक्त्वयोः प्रक्षिप्तयोः सप्तानामुदयः। अत्रापि तिस्रश्चतुर्विंशतयो भङ्गाकानां भयजुगुप्सावेदकसम्यक्त्वेषु पुनर्युगपत् प्रक्षिप्तेषु अष्टानामुदयः अत्र चैका चतुर्विंशतिभङ्गाकानां सर्वसंख्यया त्रयोदशबन्धे अष्टौचतुर्विंश तयः चत्तारीत्यादि / नवबन्धकेषु प्रमत्तादिचतुरादीनि सप्तगर्यन्तानि चत्वारि उदयरूप विभागस्थानानिउदयस्थानानीत्यर्थः / तद्यथा चतस्रः पञ्चषट् सप्त तत्र संज्वलनक्रोधादीनामन्यतम एकः क्रोधा-दिकः त्रयाणां वेदानामन्यतमो वेदः द्वयोर्युगलयोरन्तरत् युगलमित्यतासां चतसृणां प्रकृतीनामुदयः क्षायिकसम्सग्दृष्टिषु औपशमिकसम्यग्दृष्टिषु वा प्रमत्तादिषुधुवः अत्र चैका भङ्गकानां चतुर्विशतिः / अस्मिन्नेव चतुष्के भये वा जुगुप्सायां वा वेदसम्यक्त्वे प्रक्षिप्ते पञ्चानामुदयः / अत्र भङ्ग कानां तिसश्चतुर्विशतयस्तथा तस्मिन्नेव चतुष्के भयजुगुप्सयोरथवा भयवेदकसम्यक्त्वयोः प्रक्षप्तयोः पण्णामुदयः अत्रपि तिस्रश्चतुर्विशतयो भङ्गकानां भयजुगुप्सावेदकसम्यक्त्वेषु तु युगपत् प्रक्षप्तेषु सप्तानामुदयः / अत्र भङ्गकानामेका चतुर्विंशतिः सर्वसंख्यया नवकबन्धेऽष्टौ चतुर्विशतयः (पंचविहेत्यादि) पञ्चविधबन्धकेषु पुनरुदोद्वयोः प्रकृतिद्वयात्मकमुदयस्थानमिति भावः / तत्र चतुर्णा संज्वलनानामेकतमः क्रोधादिः त्रयाणां वेदानामन्यतमो वेदः / अत्र त्रिभिर्वेदैश्चर्भिश्च संज्वलनैदश भङ्गाः।। एतो चतुबंधाई, एके कुदया हवंति सव्वे वि। बंधो चरिमे वितहा, उदयाभावे वि वा होज्जा / / इतः पञ्चकबन्धादनन्तरं चतुर्बन्धादयः सर्वेऽपि प्रत्येकमेकैकोदयाः एकैकप्रभृत्युदया भवन्ति ज्ञातव्याः / तथाहि चतुर्विधो बन्धो भवति पुरुषवेदबन्धव्यवच्छेदे सति पुरुषवदेस्य च युगपत् बन्धोदयौ व्यवच्छिद्यते / ततश्चतुर्विधबन्धकाले एकोदय एव भवति स च चतुर्णा संज्वलनानामन्यतमः अत्र चत्वारो भङ्गाः यतः कोऽपि संज्वलनक्रोधेनोदयप्राप्तेन श्रेणिं प्रतिपद्यते कोऽपिसंज्वलनमानेन कोऽपि संज्वलनमायमा कोऽपि संज्वलनलोभेनेति चत्वारो भङ्गाः। इह के चिचतुर्विधबन्धसंक्रमणकाले त्रयाणां वेदानामन्यतमस्य वेदस्योदयमिच्छन्ति ततस्तन्मतेन चतुर्विधबन्धकस्यापि प्रथमकाले द्वादशद्विकोदयभङ्गा लभ्यन्ते तदक्तं पञ्चसंग्रहम्लटीकायाम् "चतुर्विधबन्धकस्याप्याद्यविविभागे त्रयाणां वेदनामन्यतमस्य वेदस्योदय के चिदिच्छन्ति अतश्चतुर्विधबन्धकस्यापि द्वादशद्विको दयादनुजानीहि" इति / तथा च सति तेषां मतेन सर्वसंख्यया द्विकोदयश्चतुर्विंशतिभङ्गा अवसेयाः। संज्वलनक्रोधबन्धव्यच्छेद सति त्रिविधो बन्धः तत्राप्येकविध एवोदयः अत्र त्रयो भङ्गाः नवरमत्र संज्वलनक्रोधवानां त्रयाणामन्यतम इति वक्तव्यम् / यतः संज्वलनक्रोधोदये सत्यवश्यं संज्वलनक्रोधस्य बन्धेन भवितव्यम्"जे वेयई” इति वचनात् तथा च सति चतुर्विध एव बन्धः प्रसक्तस्ततः संज्वलनक्रोधस्य बन्धे व्यवच्छिद्यमाने उदयोऽपि व्यवच्छिद्यते इति त्रिविधे बन्धे एकविध उदयस्त्रयाणामन्यतम इति वक्तव्य संज्वलनमानबन्धव्यवच्छेदे सति त्रिविधो बन्धः। तत्राप्येकविध एवोदयः केवलं समाया लोभाया इति वक्तव्यं युक्तिः प्रागिवात्राप्यनुसरणीया / अत्राच द्वौ भङ्गा संज्वलनमायाबन्धव्यवच्छेदे एकस्य संज्वलनलोभस्य बन्धस्तस्यैव च उदयः अत्रैकोभङ्गः / इह यद्यपि चतुरादिषु बन्धस्थानेषु संज्वलनानामुदय मधिकृत्य न कश्चिचत् विशेषस्तथापि बन्धस्थानापेक्षया भेदोस्तीति भङ्गाःपृथगग्रे गणयिष्यन्ते तथा बन्धोपरमेऽपि बन्धाभावेऽपि मोहनीस्य सूक्ष्मसंपरायगुणस्थनके एकविध उदयो भवति स च संज्वलनलोभस्यासेवः तद्गतसूक्ष्मकि ट्टि वेदनात् ततः परमुदयाभावऽपि उदयेऽपगतेऽपि उपशान्तकषायमधिकृत्य मोहनीय सद्भवति एतच प्रसङ्गागतःमिति कृत्वोक्तम् अन्यथाबन्धस्थानोदयस्थानेषु परस्परं संवेधेन चिन्त्यमानेषु नेदं सत्कर्मताभिधनमुपयोगीति। संप्रति दशादिषु एकपर्यवसानेषुयावन्तो भङ्गा __ भवन्ति तावन्तो निर्दिदिक्षुराहएकगछक्के कारस-दससत्तचउक्कएक्कगा चेव। एए चउबीसगया, वारदुगेकम्मि एकार // 20 // इह दशादीन्युदयस्थानान्यधिकृत्य यथासंख्यं संख्यापदयोजना कर्तव्या साचैवंदशोदये एका चतुर्विशतिर्नवोदये षट् तद्यथा द्वाविंशतिबन्धे तित्रः एकविंशतिबन्धे मिश्राविरतिसम्यग्दृष्टिबन्धे च प्रत्येकं तित्रः / एकविंशतिबन्धले मिश्रसप्तदशबन्धे च प्रत्येकं द्वे द्वे त्रयोदशबन्धे चैका। तथा सप्तोदये दश तत्र द्वाविंशतिबन्धे एकविंशतिबन्धे मिश्रसप्तदशबन्धे च प्रत्येकमेकैका अविरतसम्यग्दृष्टिसप्तदशबन्धे त्रयोदशबन्धे च प्रत्येक तिस्रः नवकबन्धे त्वेका। तथा षडुदये सप्त तत्र चाविरतसम्यग्दृष्टिसप्तदशबन्धे एका त्रयोदशबन्धेनवकबन्धे च प्रत्येकं तिस्रः। तथा पञ्चकोदयो चतस्रः तत्रयोदशबन्धे एका नवबन्धेतिखः चतुष्कोदये एका चतुर्विशतिः (एए चउवीसगयत्ति) एते अनन्तरोक्ता एकादिकाः संख्याविशेषाः चतुर्विशतिगताः चतुर्विशत्यभिधायकाः एता अनन्तरोक्ताश्चतुर्विंशतयो ज्ञातव्या इत्यर्थः एताश्च सर्वसंख्यया चत्वारिंशत् तथा (वारदुगेति) द्विकोदयेचतुर्विशतिरेका भङ्गकानाम् एतच्च मतान्तरेणोक्तमन्यथा स्वमते द्वादशैव भङ्गा वेदितव्याः (इक्कम्मि इक्कारत्ति) एकोदये एकादश भङ्गास्ते चैवं चतुर्विधे चत्वारः त्रिविधबन्धे त्रयो द्विविधबन्धेद्वौ एकविधबन्धे एकः बन्धोभवे चैकः इति। सम्प्रत्येतेषामेव भङ्गानां विशिष्टतरसेख्यानिरूपणार्थमाहनवपंचाणउइसए, उदयविगप्पेहि मोहिया जीवा। अउणुत्तरि एगुत्तरि, पयविंदसएहि विनेया॥२१॥ इह दशादिषु द्विकपर्यवसानेषु उदयस्थानेषूदयस्थानभङ्गकानामेकचत्वारिंशचतुर्विशतयो लब्धास्तत एकचत्वारिंशचतुर्विशत्या गुण्यते गुणितायां च सत्यां जातानि नवाशीत्यधिकानि नवशतानि तत्रैकोदये भङ्गाः / एकादशसु प्रक्षिप्तेषु नवशतानि पञ्चनवत्यध्किानि भवन्ति / एतवादरुदयस्थानविकल्पैर्यथायोगं सर्वे संसारिणो जीवा मोहमापादिता विज्ञेयाः। संप्रतिपदसंख्यानिरूपणर्थमाह (अउणुत्तरिएत्ति) इह पदादीनि नाम मिथ्यात्वमप्रत्याख्यान क्रोधप्रत्याख्यानावरणक्रोध इत्येवमादीनि / ततो वृन्दानां दशाद्युदयस्थानरूपाणां पदानि आर्षत्वात् राजदन्तादिषु मध्ये पाठाभ्युपगमाद्वा वृन्दश