SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ कम्म 267 - अभिधानराजेन्द्रः - भाग 3 कम्म उपश्रमश्रेण्यामपूर्वकरणस्य द्वितीयभागप्रथमसमये चतुर्विधबन्धमारम्यानन्तरसमये कश्चित्कालं करोति कालं कृत्वा दिवं गतः सन् अविरतो भवति अविरतत्वे च षड्विधो बन्ध इत्येकसामायिकी चतुर्विधस्थानस्य स्थितिः। तथा नवप्रकृत्यात्मकं सत्तास्थानं दर्शनावरणस्य कालमधिकृत्य द्विधा अनाद्यपर्यवसितमनादिसपर्यवसितं च / तत्रानाद्यपर्यवसितमभव्यानां कदाचिदप्यव्यवच्छेदात् अनादिसपर्यवसितंतुन भवति / नवप्रकृत्यात्मक सत्तास्थानव्यच्छेदो हि क्षपक श्रेण्यां भवति नच क्षपक श्रेणीतः प्रतिपातो भवतीति एतच्च सत्तास्थानमुपशमश्रेणिमधिकृत्योपशान्तमोहगुणस्थानकं यावदवाप्यते क्षपकश्रेणिमधिकृत्य पुनरनिवृत्तिबादरसंपरायगुणस्थानकस्य प्रथम भागंतथा षट्प्रकृत्यात्मकं सत्तास्थानं जघन्येनोत्कर्षेण चान्तर्मुहूर्तप्रमाणं तचानिवृत्तिबादरसंपरायगुणस्थानकस्य द्वितीयभागादारभ्य क्षीणमोहगुणस्थानकस्य द्विचरमसमयं यावदवसेयं चतुःप्रकृत्यात्मकं त्वेकसामायिक क्षीणकषायचरमसमयभावित्वादिति। उदयस्थाने पुनर्वै भवतः तद्यथा चतस्रः पञ्च च तत्र चतस्रश्चक्षुर्दर्शनावरणाचक्षुर्दर्शनावरणावधिदर्शनावरणकेवलदर्शनावरणरूपाः / एतासांच समुदायो ध्रुवोदय इति एकप्रकृतिस्थानम्। एतासु च चतसृषु मध्ये निद्रादीनां पञ्चानां प्रकृतीनां मध्यादन्यतमस्या प्रकृतौ प्रक्षिप्तायां पञ्च नहि निद्रादयो द्वित्र्यादिका युगपदुदयमायान्ति किंत्वेकस्मिन् काले एकैवाऽन्यतमा क चित्, निद्रादयश्च ध्रुवोदया न भवन्ति कालादिसापेक्षत्वात् अत इदं पञ्चप्रकृत्यात्मकमुदयस्थानं कदाचिल्लभ्यते तदेवमुक्तानि दर्शनावरणस्य बन्धोदयसत्ताामधिकृत्य स्थानानि / संप्रति संवेधमभिधित्सुराह। दीयावरणे नववं-धगेसुचउपचउदयनवसंता। छचउबंधे चेवं, चउबंधुदए छलंसा या उवरयबंधे चउपण, नवंसचउरुदयछच चउसंता। वेयणियाउयगोए, विभज्ज मोहं परं वोच्छं // 10 // द्वितीयावरणं दर्शनावरणं तस्मिद्वितीयावरणे नवबन्धकेषु सकलदर्शनावरणोत्तरप्रकृतिबन्धकेषु मिथ्यादृष्टिसासादनेषु (च उपंचउदयत्ति) उदयश्चतुर्विण: पञ्चविधो वा तत्र चतुर्विधश्चक्षुर्दर्शनावरणाचक्षुर्दर्शनावरणकेवलदर्शनावरणरूप: स एव निद्रापञ्चकसत्तान्यतमप्रकृतिप्रक्षेपात्पञ्चविधः / सत्तामधिकृत्यपुनःप्रतिस्थानं नव नव प्रकृत्यात्मकं तदेवं नवविधबन्धेकेषु द्वौ विकल्पौदर्शितौ तद्यथा नवविधो बंधश्चतुर्विधा सत्ता एष विकल्पो निद्रोदयाभावे निद्रोदये च नवविधा बन्धः पञ्चविध उदयो नवविधा सत्ता (छचउबंधे चेवं ति) षडबन्धे चतुर्बन्धे च एवं पूर्वोक्तप्रकारण उदयसत्तास्थानानि वेदितव्यानि इदमुक्तं भवात ये षड्विधबन्धका: सम्यग्मिथ्यादृष्ट्यविरत सम्यग्दृष्टिदेशविरतप्रमताप्रमत्ताः कियत्कालमपूर्वकरणाश्च तेषां चतुर्विधः पञ्चविधो वा उदयःनवविधा सत्ता एतेन च द्वौ विकल्पौ दर्शितौ तद्यथा षडविधो / बन्धश्चतुर्विध उदयो नवविधा सत्ता अथवा षड्विधो बन्धः पञ्चविध उदयो नवविधा सत्ता। एतौ च द्वौ विकल्पौ क्षपकं मुक्त्वान्यत्र सर्वत्रापि / प्राप्यतेक्षपके त्वेक एव विकल्पस्तद्यथा षड्विधो बन्धश्चतुर्विध उदयो नवविधा सत्ता क्षपकस्य हि अत्यन्तविशुद्धत्वेन निद्राप्रचलयोर्नोदय: सभवात तदुक्त सत्कर्मग्रन्थे "निहादुगस्स उदओ, स्खीणगखवगे य परिवज्ज" तथा चतुर्विधबन्धके षु कियत्कालमपूर्वकरणेषु / अनिवृत्तिबादरसूक्ष्मसम्परायेषु चोपशमश्रेणिं प्रतीत्य चतुर्विधः पञ्चविधी वा उदयः नवविधा सत्ता क्षपक श्रेणिमधिकृत्य पुनरुदयश्चतुर्विध एव कारणमत्र प्रागेवोक्तम्। केचित्पुनः क्षपकक्षीणमोहेष्वपि निद्राप्रचलयोरुदयमिच्छन्ति तत्कर्मप्रकृत्यादिग्रन्थैः सह विरुध्यते इत्युपेक्षते यावचक्षुः क्षपक श्रेण्यामपि स्त्यानर्द्धित्रिकं न क्षीयते तावत्सत्ता नवविधैव सा नवर्द्धित्रिके तु क्षीणे षड्विधा तथाचाह (चउबंधुदए छलंसा यत्ति) इह अंश इति सत्कर्माऽभिधीयते यदाह चूर्णिकृत् / अंशा इति "संते कम्म भन्नइ" चतुर्विधे बंधे चतुर्विध उदयःअनिवृत्तिबादर-सूक्ष्मसंपरायगुणस्थानकाद्धायाः संख्येयेभ्यो भागेभ्य: परतः स्त्यानद्धित्रिके क्षीणे षड्विधा सत्ता एष विकल्पस्तावत्प्राप्यते यावत्सूक्ष्मसंपराद्धायाश्चरसमयः परतस्तु न प्राप्यते बन्धाभावात् तदेवं चतुर्विधबन्धकस्य त्रयो विकल्पास्तद्यथा चतुर्विधो बन्धश्चतुर्विध उदयो नवविधा सत्ता एष उपशमश्रेण्यां वा यावत् स्त्यानद्धित्रिकं नक्षीयतेचतुर्विधो बन्धः पञ्चविध उदयः नवविधा सत्ता / एष उपशमश्रेण्यां क्षपक श्रेण्यां तु पञ्चविधोदयस्याभावात् तथा चतुर्विधो बन्धश्चतुर्विध उदयः षड्विधा सत्ता एष विकल्प: क्षपकश्रेण्यां स्तयानर्धित्रिकक्षयानन्तरमवयसेय: "उवरयबंधे" इत्यादि उपरते व्यवच्छिन्ने बन्धे चतुर्विधः पञ्चविधो वा उदय: नवविधा सत्ता एतौ च द्वौ विकल्पावुपशान्तमोहगुणस्थानके प्राप्येते उपशमश्रेण्यां हि निद्राप्रचलयोरुदयः संभवति स्त्यानद्धित्रिकं च न क्षयमुपगच्छति ततश्चतुर्विधः पञ्चविधो वा उदयो भवति नवविधा च सत्ता प्राप्यते तथा चतुर्विध उदयः षविधा सत्ता एष विकल्पः क्षीणकषायस्य द्विधरमसमयं यावदवाप्यते तथा चतुर्विध उदयश्चतुर्विधा सत्ता एष विकल्पः क्षीणकषायस्य चरमसमये निद्राप्रचलयोचिरमसमये एव क्षपित्पवात्। तदेवं दर्शनावरणे सर्वसंख्यया एकादश विकल्पा: / यदि पुनः क्षपकक्षीणकषायेष्वपि निद्राप्रचलयोरुदय इष्यते तर्हि चतुर्विधी बन्धः पञ्चविध उदय: षडविधा सत्ता बन्धाभावे पञ्चविध उदयः षडविधा सत्ता इत्तौ द्वौ विकल्पौअधिकौ प्राप्यते इतित्रयोदश ज्ञातव्या: वेदनीयस्य संबन्धस्य वेदनीयायुर्गोत्रेषु संवेधविकल्पोपदर्शनार्थमाह (वेयणियाउयगोएविभज्जत्ति) वेदनीये आयुषि गोत्रे च यथागर्म बन्धादिस्थानानि संवेधमाश्रित्य विभजेत् विकल्पयेत् तत्र वेदनीयस्य चान्येनैकं बन्धस्थानं तद्यथा सातमसातं वाऽनयोः परस्परविरुद्धत्वात् सत्तास्थाने द्वे तद्यथा द्वे एकं च तत्र यावदेकमन्यत् नक्षीयते तावत् अपि सती अन्यतमस्मिंश्च क्षीणे एकमिति। सम्प्रति संवेध उच्यते असातस्य बन्धः असातस्योदय: सातासाते सती / अथवा असातस्य बन्ध: सातस्योदय: सातासातेसती। एतौ द्वौ विकल्पौ मिथ्यादृष्टिगुणस्थानकात् प्रभृति प्रमत्तगुणस्थानकं यावत् प्राप्येते न परतः परतोऽसातस्य बन्धाभावात् तथा सातस्य बन्ध: असातस्योदय: सातासाते सती एतौ द्वौ विकल्पौ मिथ्यादृष्टिगुणस्थानकादारभ्य सयोगिकेवलिगुणस्थानकं यावत्संभवतः ततः परतो बन्धाभावे असातस्योदयः सातासाते सती अथवा सतस्योदय: सातासाते सती एतौ द्वौ विकल्पावयोगिकेवलिनि द्विचरमसमयं यावत् प्राप्येते चरमसमये तु असातस्योदयः असातस्य सत्ता यस्य द्विचरमसमये सातं क्षीण यस्य त्वसातं द्विचरमसमये क्षीणं तस्यायं विकल्प: सातस्योदयः सातस्य सत्ता एतौ च द्वावपि विकल्पावेकयामयिकौ सर्वसंख्यया च वेदनीयस्याष्टौ भङ्गाः / तथा आयुषि सामान्ये नैकं बन्धस्थानं चतुर्णामन्यत
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy