________________ कम्म 267 अभिधानराजेन्द्रः भाग 3 चौरश्चौरैः सह वर्तमानश्चौर इवावभासते। यदभाणि "जाण न विसओ घाइ-तणम्मि ताणं पि सव्वघाइरसो जायइघाइसगासेण, चोरया बेह / चोराणमिति'' उक्तं सप्रति-पक्षसर्वदेशघातिद्वारम् / कर्मः। पं. सं.। ___संप्रति पुण्यपापप्रकृतीर्विवरीषुराहसुरनरतिगुचसायं, तसदसतणुवंगवइरचउरंसं। परघासत्त तिरिआउं,वभचउपणिं दियसुभखगई||१५|| त्रिकशब्दस्य प्रत्येकं योगात् सुरत्रिकं सुरगतिसुरानुपूर्वी-सुरायुर्लक्षणं नरत्रिकं नरगतिनरानुपूर्वीनरायुर्लक्षणं (उच्चत्ति) उच्चैर्गोत्रं सातंत्रसदशकं त्रसबादरपर्याप्तप्रत्येकस्थिरशुभशुभगसुस्वरादेययशः कीर्तिलक्षणं तनवः औदारिक वैक्रियाहारकतैजसकार्मणरूपाः पञ्च उपाङ्गानि औदारिकाङ्गोपाङ्ग वैक्रियाङ्गोपाङ्गाहारकाङ्गोपाङ्ग लक्षणानि त्रीणि (वइरत्ति) यजऋषभनाराचसंहननं चतुरस्रं समचतुरस्रं (परघासत्तत्ति) पराधातसप्तकं पराघातोच्छ्वासाऽऽतपोद्योतागुरुलधुतीर्थकरनामनिर्माणरूपम् / तिर्यगायुः वर्णचतुष्कं वर्णगन्धरसस्पर्शाख्यं पञ्चेन्द्रियजातिः शुभगतिः प्रशस्तविहायोगतिरिति। वायालपुण्णपगई, अपढमसंठाणखगइसंघयणा। तिरिदुग असायनाओ-वघायइगविलनरयतिगं|१६|| थावरदसवन्न चउ-कघाय पणयालसहियवासीई। पावपयमित्ति दोसु वि, वनाइगहा सुहा असुहा / / 17 / / सुरत्रिकप्रभृतयः शुभखगति पर्यन्ता एता द्विचत्वारिंशत्संख्याः पुण्याः शुभाः प्रकृतयः पुण्यप्रकृतयः उच्यते / उक्ताः पुण्यप्रकृतयः कर्म / (पापप्रकृतिविचारः पापपगइ शब्दे) परावर्तमानप्रकृतयस्तगणने च समर्थितं परावर्तमानापरावर्तमान-प्रकृतिद्वारद्वयम् / तदेवं समर्थितं "धुवबन्धोदयसंघाताय "पुन्नपरियत्तासेयर इति'' मूलद्वारगाथोपन्यस्तं द्वारद्वादशकं संप्रति यदुक्तम्। "चउहविवागा पुच्छमिति" तद्विभणिषुः / (23) प्रथमं क्षेत्रविपाकाः प्रकृतीराह। (खित्तविवागाणुपुष्वीउत्ति) क्षेत्रमाकाशं तत्रैव विपाक उदयो यासां ताः क्षेत्रविपाकाः आनुपूर्व्यश्च ता नारकतिर्यनराम-रानुपूर्वीलक्षणा यतस्तासां चतसृणामपि विग्रहगतावेवोदयो भवतीति / उक्तं च। वृहत्कर्मविपाके / "नरपाउयस्स उदए, नरए वक्केण गच्छमाणस्स / नरयाणुपुब्वियाए, तहिं उदओ अन्नहिं नस्थित्ति, एवं तिरिमणुदेवे, तेसु विवक्केण गच्छमाणस्स।तेसिभणुपुब्वियाणं, तहिं उदओ अन्नहिं उत्थि" ॥शा ननु विग्रहगत्यभावोऽन्यानुपूर्वीणामुदयः संक्रमणकरणेन विद्यते। अथ कथं क्षेत्रविपाकिन्यस्ता न गतिवज्जीवविपाकिन्य इत्यत्रोच्यते / विद्यमानेऽपि संक्रमे यथा तासां क्षेत्रप्राधान्येन स्वकीयो विपाकोदयो न तथान्यासामतः क्षेत्रविषाकिन्य एवेति उक्ताः क्षेत्रविपाकाः प्रकृतयः / कर्म। पंसंक। सांप्रतं जीवविपाका भवविपाकाः प्रकृतीराह। घणघाइदुगोयजिणणाम, तसियरतिगसुभगदुभगचउसांस। जाइतिगजिय विवागा, आऊ चउरो भवविवागा / / 20 / / घनघातिन्यः प्रकृतयः सप्तचत्वारिंशत् तद्यथा ज्ञानावरणं पञ्चधा, दर्शनावरणं नवधा, मोहनीयमष्टाविंशतिधा, अन्तरायं पञ्चधेति।। (दुगोयत्ति) 'दुगोयवेणिय" मिति वचनात् गोत्राद्विकं गोत्रवेदनीयरूपं | तत्र गोत्रमुचैर्गोत्रनीचैर्गोत्रभेदाद्वधा / वेदनीयं सातासातभेदेन द्विभेदमिति दुगोयशब्देन प्रकृतिचतुष्टयं गृह्यते (जिननामतसियरतिगति) त्रिकशब्दस्य प्रत्येकं संबन्धात् त्रसत्रिकं सवादरपर्याप्तकरूपम्। इतरत्रिकं स्थावरत्रिकं स्थावरसूक्ष्मापर्याप्तकलक्षणम् (सुभगदुब्भगचउत्ति) चतुःशब्दस्य प्रत्येकं संबन्धात् सुभगचतुष्कंसुभगसुस्वरादेययशः कीर्तिरूपं दुर्भचतुष्कं दुर्भगदुःस्वरानादेयायशःकीर्तिलक्षणम् (सासंति) उच्छ्वासं (जाइतिगत्ति) / जातिशब्देनोपलक्षितं त्रिकं जाइगइखगइ इति' गाथावयवोक्तं जातित्रिकं तत्र जातय एकेन्द्रियदीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियाख्याः पञ्च / गतयः सुरनरतिर्यड्नरकरूपाः चतस्रः / खगतिः प्रशस्ताप्रशस्तविहायोगतिभेदेन द्विधा / इत्येवं जातित्रिकशब्देन एकादश प्रकृतयो गृह्यन्ते। इत्येता अष्टासप्ततिप्रकृतयः। जीव एव विपाकः स्वशक्तिदर्शनलक्षणो विद्यते यासां ताः जीवविपाका ज्ञात-व्यास्तथाहि पञ्चविधज्ञानावरणोदयो जीव एवाज्ञानी स्यान्न पुनः शरीरपुद्गलादिषु तत्कृतः कश्चिदुपधातोऽनुग्रहो वाऽस्तीति / एवं नवविधदर्शनावरणोदयः जीव एवादर्शनीभवति सात सातोदयाजीव एवं सुखी दुःखी वा संपद्यते अष्टाविंशतिविधमोहनीयोदयाजीव एवादर्शनी अचारित्री वा जायते / पञ्चविधान्तरायोदयाजीव एव न दानादि कर्तुपारयति।उचैर्गोत्रनीचैर्गोत्रगतिचतुष्कजातिपञ्चकविहायोगतिद्विकजिनत्रसबादरपर्याप्तकस्थावरसूक्ष्मापर्याप्यकसुभगचतुष्कदुर्भगचतुष्कोच्छ्वासनामोदयाजीव एव तं तं भावमनुभवति न शरीरपुद्गला इति / इत्येताः सर्वा अपिजीवविपाकिन्यः पुगलविपाकिन्य इति / या अपि क्षेत्रविपाका उक्ता याश्च भवविपाकाः पुद्गलविपाकश्च वक्ष्यन्ते ता अपि परमार्थतो जीवस्यैव पारम्पर्येणानुग्रहमुपघातं च कुर्वन्ति केवलं मुख्यतया क्षेत्रभवपुद्गलेषु तद्विपाकस्य विवक्षितत्त्वात्तद्विपाका उच्यन्ते इति। आयूंषि चत्वारि नारकायुष्कादीनि पुंस्त्वं च प्राकृतवशात् प्राकृते हिलिङ्गमतन्त्रमेव यदवादिप्रवादिसर्पदर्पसौपर्णेयः श्रीहेमचन्द्रसूरिपादैः स्वप्राकृतलक्षणे लिङ्गमतन्त्रमिति भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति भवो नारकादिपर्यायः स च पूर्वायुर्विच्छेदे विग्रहगतेरप्यारभ्य वेदितव्यो यदाह भगवान् श्रीसुधर्मस्वामी भगवत्याम् "नेरइए नेरइएसु उववजइत्ति" तस्मिन् भवे नारकतिर्यनरामररूपएव विपाक उदयो विद्यते येषां तानि भवविपाकानि तथा हि यथासंभवं पूर्वभवबद्धान्यागामिनि भवे विपच्यन्त इति भावः / ननु यथायुषां देवादिभवेऽवश्यं विपाको भवत्येवं गतीनामप्यतस्ता अपि भवविपाकिन्यः प्राप्नुवन्ति। अत्रोच्यते आयुर्यद्यस्य भवस्य योग्यं निबद्धं तत्तस्मिन्नेव भवे वेद्यते इत्यायुषो भवविपाकित्वं गतयस्तु विभिन्नभवयोग्या निबद्धा अप्येकस्मिन्नपि भवेसर्वाः संक्रमेण संवेद्यन्ते तथा हि मोक्षगामिनोऽशेषागतयो मनुष्यभवे क्षयं यान्ति, अतो भवं प्रतिगतीनां नैयत्याभावान्न भवविपाकिन्यः किंतु जीवविपाकिन्यः एवेत्युक्ता जीवविपाका भावविपाकाश्च प्रकृतयः। इदानीं पुद्रलविपाकिनाः प्रकृतीः प्रचिकटयिषुराहनामधुवोदयचउत्तणु-वघायसाहारणियजोयतिगं। पुग्गलविवागिबंधो, पयइटिइरसपएसत्ति ||2|| नाम्नो नामकर्मणो वर्णचतुष्कमिति (चउत्तत्ति) तथा धुवोदया नित्योदयानाम धुवोदया द्वादश प्रकृतयस्तद्यथा निर्माणस्थिरास्थिरागुरुलघुशुभाशुभतैजसकामणवर्णचतुष्कमिति (च