________________ कम्म 257 अभिधानराजेन्द्रः भाग 3 तत्वेन तदनुगमाभावाद्वाह्याङ्ग मलवदिति सुव्यक्तमेथ बालानामपि प्रतीतत्वादिति भवत्वननुवृत्तिः कर्मणो भवान्तराले को दोष इत्याह | (एवमित्यादि) एवं कर्मणोऽननुवृत्तौ सत्यां सर्वेषामपि जीवानां विमोक्षः / संसाराभावः प्राप्नोतीति संसारकरणस्य कर्मणोऽभावादथ निष्कारणोऽपि संसार इप्यते तर्हि ये व्रततपोब्रह्मचर्यादिकष्टानुष्ठानानि कुर्वते तेषामपि सर्वेषां संसार एव स्यात् निष्कारणत्वाविशेषान्निष्कारणं च जायमानं भवमुक्तानामपि सिद्धानामपि पुनरपि संसरणं संसारः स्यादिति मुक्तावप्यनाश्वास इति / किं च त्वक्पर्यन्तवर्तिनि कर्मणीष्यमाणे अपरोऽपि दोषः क इत्याह। देहंतो जा वियणा, कम्माभावम्मि किंनिमित्ता सा। निक्कारगा वि जइ तो, सिद्धो विन वेयणारहितो॥ जइ बज्झनिमित्ता सा, तदभावे सा न होज तो अंतो। दिट्ठाय सा सुबहुसो, बाहिं निवेयणस्सा वि।। जइ वा विभिन्नदेसं, पि वेयणं कुणइ कम्म एवं तो। कहमन्नसरीरगयं, न वेयणं कुणइ अन्नस्स / / यदि कञ्चुक बहिरेव वर्तते कर्म तदा देहस्यान्तर्मध्ये या शूलगुल्मादिवेदना सा किंनिमित्तेति वक्तव्यं साध्यं तत्कारणभूतस्य कर्मणोऽभावादथ निष्कारणाऽपि देहान्त वेदनाऽभ्युपगम्यते ततस्तर्हि सिद्धोऽपि न वेदनारहित स्यान्निष्कारणत्वाविशेषादिति / अथ बाह्यवेदनानिमित्ता साऽन्तर्वेदनाऽभ्युपगम्यते बहिर्वेदना हि लगुडधातादिजन्या प्रादुर्भवतीति मध्येऽपि वेदना जनयत्येवेति यदि तवाभिप्रायस्तर्हि तदभावे लगुडघातादिजन्यवेदनाविरहे साऽन्तर्वेदना न भवेन्न जायेत अस्त्वेवमिति चेत्तदयुक्तं यतो दृष्टासौ सुबहुशःशूलादिप्रभवाऽन्तर्वेदना कस्येत्याह। 'बाहिमित्यादि बहिनिर्वेदन-स्यापि बहिर्लगुडादिधातजन्यवेदनारहितस्यापीत्यर्थः / यदि ह्ययं नियमः स्याद्यदुत बहिर्लगुडधातादिवेदनासद्भाव एवान्तर्वेदना प्रादुरस्तीति तदा | स्यादपि त्वदभिप्रेतं न चैवं यतोऽनुभूयते मध्ये कर्मणाऽपि भाव्यमिति सिद्धोऽस्मत्पक्ष इति / अथैवं मन्यसे बहिस्त्वक्पर्यन्तवयंपि कर्म मध्येऽपि शूलादि वेदनां जनयति न पुनर्मध्ये कर्मास्ति तदयुक्तं यतो यदिबहिवर्त्तिवि-भिन्नदेशस्थितमपिकन्यिस्मिन्मध्यलक्षणे देशान्तरे वेदनां करोतीत्यभ्युपगम्यते एवं तर्हि कथं केन हेतुना अत्यशरीरगतं कर्म | अन्यस्य यज्ञदत्तादेर्वेदनां न करोति / ननु करोतु नामैवमपि देशान्तरत्वाविशेषादिति भावः / अत्र पराभिप्रायमाशङ्कय परिहर्तुमाह। अह मे संचरइ मई, न बहिं तो कंचुगो व्व निचत्थं / कंचुगवं पि वेयणा, सवम्मि विहीसई देहो। अथ भवतो मतिः एकस्य देवदत्तशरीरस्य बहिरन्तश्च सञ्चरति तत्कर्म ततस्तत्र बहिरन्तश्च वेदनांजनयतिन शरीरान्तरे स्वाधारशरीरे बहिरन्तश्च संचरणादन्यशरीरे त्व संचरणादिति / अत्रोच्यते ( न बहिमित्यादि) ततस्तर्हि सर्पस्य कञ्चुकवज्जीवस्य बहिरेव कर्म नित्यं तिष्ठतीति नित्यस्थमिति यद्भवतो मतं तन्न प्राप्नोति किं तु कदाचिद्राहिः कदाचित्त्वन्तः कर्मणः सञ्चरणाभ्युपगमाः कञ्चुकवन्नित्यं बहिरेव तिष्ठतीति नियमस्याघटनात्प्लवत एव तदिति भावः / किंच कर्मणः सञ्चरणे बहिरन्तश्च क्रमेणैव वेदना स्यान्न चैतदस्ति लगुडाद्यभिधाते बहिरन्तश्च युगपदेव वेदनादर्शनात्तस्मान्न कर्मणः संचरणमुपपद्यत इति। कर्मणः सञ्चरणे दूषणान्तरमप्याह॥ न भवंतरमन्नेइ य, सरीरसंचारउ गदनिलो व्व। चलियं निजरियं चिय, मणियमकम्मं च जं समए। किंच यदि संचरिष्णु कर्माभ्युपगम्यते तर्हि मृतस्य तद्भवान्तरमन्वेति भवान्तरे तस्यानुगमनं न प्राप्नोतीत्यर्थः / शरीरे सञ्चरणादिति हेतु: अनिलवदिति दृष्टान्तः / इह यच्छरीरे बहिरन्तश्च संचरति न तद्भवान्तरमन्वेति यथोच्छासनिश्वासानिलः तथा च कर्म तस्मान्न भवान्तरमन्वेतीति / आह नन्वागमेऽपि "चलमाणेचल्लिए त्ति" वचनात्कर्मणश्चलनमुक्तम् / / विशे० / / (कार्यकारणभावः कज्जकारणभावशब्देदर्शितः) चलनंच संचरणमेवोच्यते तत्किमिति तदिह निषिध्यते तदयुक्तमभिप्रायापरिज्ञानादित्याह / "चलियमित्यादि" नेरइय जाव वेमाणिए जीवाओ चलियं कम्मं निज्जरइ "इत्यादिवचनात्तथा'' निजिज्जमाणं निजिण्णमिति" वचनाच यद्यस्मात्समये आगमे चलितं कर्म निर्जीणमुक्तं तदकर्मैव भणितं तच्च मध्ये गतमपि न वेदनां जनयितुमलमकर्मणो नभः परमाण्वादेरिव तत्सामर्थ्याभावात्तस्मादित्थमनेकदोषदुष्टत्वादयुक्तं कर्मणः संचरणामित्यतो मध्ये व्यवस्थित कमस्तिीति स्थितम्। मध्ये कमविस्थानसाधनार्थमेव प्रमाणयन्नाहअंते वि अस्थि कम्म, वियणासभावाउ तयइव्व। मिच्छत्ताईपचय-सब्भावाउ यसव्वत्थ।। अन्तर्मध्येऽप्यस्ति कर्मेति प्रतिज्ञा वेदनासद्भावादिति हेतुः त्वचीवेति दृष्टान्तः / इह यत्र वेदनासद्भावस्तत्रास्ति कर्म यथा त्वकपर्यन्ते, अस्ति चान्तर्वेदना ततः कर्मणाऽपितत्र भवितव्यमेवेति। किंच मिथ्यात्वादिभिः प्रत्ययैः कर्म बध्यते तेचजीवस्य यथाबहिःप्रदेशेषु तथा मध्यप्रदेशेष्वपि यथा मध्यप्रदेशेषु तथा बहिःप्रदेशेष्वपि सर्वत्र सन्ति तेषामध्यवसायविशेषरूपत्वादध्यवसायस्य च समस्तजीवगतत्वादिति / तस्मान्मिथ्यात्वादीनां कर्मबन्धकारणानां जीवे सर्वत्र सद्भावात्तत्कार्यभूतं कापि सर्वत्रैव तत्रास्तिनपुनर्बहिरेवतस्माद्ययः पिण्डक्षीरनीरादिन्यायाज्जीवेन सहाविभागेनैव स्थितं कर्मेति प्रतिपद्यतां मिथ्याभिमान इति आहा ननु यदिजीवकर्मणोरविभागस्तर्हि तद्वियोगाभावान्मोक्षाभाव इत्युक्तमेवं दूषणामित्याशङ्कयाह / अविभागठियस्स विसे, विमोयणं कंचनावेलाणं च। नाणं किरियाहि कीरइ, मिच्छत्ताईहि वायाणं / / (से) तस्य कर्मणो जीवेन सहाविभागेन स्थितस्यापि काञ्चनोपलयोरिव विमोचनं वियोगो ज्ञानक्रियाभ्यां क्रियते। तथा तस्यैव कर्मणो मिथ्यात्वादितिरादानं ग्रहणंजीवेनसह संयोगो विधीयत इत्यर्थः / इदमत्र हृदयम् / इह जीवस्याविभागेनावस्थानं द्विधा विद्यते आकाशेन सह कर्मणा च। तत्राकाशेन सह यदविभागावस्थानं तन्न वियुज्यत एव सर्वर्द्धिमवस्थानात्। यत्तु कर्मणः सहा विभागावस्थानं तदप्यभव्यानां नवियुज्यते भव्यानां तु कर्मसंयोगस्तथाविधज्ञानतपः सामग्री सद्भावे वियुज्यते वयोषध्यादिसामग्रीसत्वे काञ्चनोपलसंयोगवदिति / तथाविधज्ञानादिसामग्रयभावे तु भव्यानामपि कर्मयोगः कदापि