________________ ओसप्पिणी 124 - अभिधानराजेन्द्रः - भाग 3 ओसप्पिणी कार्थिका वा एते शब्दा अनिष्टताप्रकर्षवाचका इति मूर्त्या अनिष्टादिविशेषणोपेता अपि केचिदुडुम्बा इव सुस्वराः स्युरित्याह। हीनो ग्लानस्येव स्वरो येषां ते तथा। दीनो दुःखितस्येव स्वरो येषां ते तथा / अनिष्टादिशब्दा उक्तार्था एवात्र स्वरेण योजनीयाः / अनादेयवचनप्रत्याजाता अनादेयमशुभगत्वादग्राह्यं वचनं वचः प्रत्याजातं च जन्म येषां ते तथा। निर्लज्जाः व्यक्तम् / कूटंभ्रान्तिजनकंद्रव्यं कपटं परवञ्चनाय वेषान्तर-- करणं कलहः प्रतीतः। वधो हस्तादिभिस्तामनं बन्धो रज्जुभिः संयमनं वैरं प्रतीतं तेषु निरताः मर्यादातिक्रमे प्रधाना मुख्याः अकार्यनित्योद्यताः गुरुणां मात्रादिकानां नियोग आज्ञा तत्र यो विनयरूपमित्यादिरूपस्तेन रहिताःचः पूर्ववत्। विकलमसंपूर्ण काणं चतुरङ्गुलिकादिस्वभावत्वाद्रूपं येषां ते तथा। प्ररूढा गर्ता सूकराणामिवाजन्मसंस्काराभावात् / वृद्धिं गता नखाः केशाः श्मश्रुरोमाणि च येषां ते तथा। कालाः कृतान्तसदृशाः क्रूरप्रकृतित्वात् कृष्णा वा खरपरूषाः स्पर्शतोऽतीव कठोराः श्यामवर्णा नीलीकुण्डे निक्षिप्तोत्क्षिप्ता इव ततः कर्मधारयः क्वचिद् ध्मानवर्णा इत्यपि पदं दृश्यते तत्रानुज्ज्वलवर्णा इत्यर्थः स्फुटितशिरसः स्फुटितानीव स्फुटितानि दाडिमवत् शिरांसि मस्तकानि येषां तथा / कपिलाः केचन पलिताश्च शुक्लाश्च केचन केशाः येषां ते तथा। बहुस्नायुभिः प्रचुरस्नायुभिः संपनिद्धं बद्धमत एव दुःखेन दर्शनीयं रूपं येषां ते तथा। संकुटितं संकुचितं वल्यो निर्मासत्वग्विकारास्त एव तदनुरूपाकारत्वात्तरङ्गा वीचयः तैः परिवेष्टितानि अङ्गान्यवयवा यत्र तमेवं विधमङ्गं शरीरं येषां ते तथा! क इवेत्याह। जरा परिणता इव स्थविरकनरा जरा व्यालाः स्थविरतरा इवेत्यर्थः / स्थविराश्चान्यथापि व्यपदिश्यन्ते इति जरापरिणतग्रहणम् / प्रविरला सान्तरालत्वेन परिशाटिता च दन्तानां केशानां केषांचित् पतितत्वेन दन्तश्रेणिर्येषां ते तथा उद्धटं विकरालंघटवन्मुखं तुच्छदशनच्छदत्याद्येषांते तथा क्वचित् 'तुब्भडघडोंमुहा' इति पाठस्तत्र उद्भटे स्पष्ट घटोन्मुखे कृकाटिकावदने येषां ते तथा। विसमे नयने येषां ते तथा / वक्रा नासा येषां ते तथा / ततः पदद्वयकर्मधारयः। वक्त्रंपाठान्तरेणव्यङ्गं सलाञ्छनं वलिभिविंकृतंवीभत्सं भीषणं भयजनकं मुखं येषां ते तथा। दद्रुकिट्टिभसिध्मानि क्षुद्रकुष्ठविशेषास्तत्प्रधाना स्फु टिता परूषा च छविः शरीरत्वग् येषां ते तथा / अत एव चित्रलाङ्गा करावयवशरीराः कच्छू: पामा तया कसरैश्च खसरैरभिभूता व्याप्ता येते तथा / अत एव खरतीक्ष्णनखानां कठिनतीव्रनखानां कण्डूयितेन खर्जूकरणेन विकृता कृतव्रणा तनुः शरीरं येषां ते तथा / टोलाकृतयो प्रशस्तकाराः क्वचित् टोलग इति पाठस्तत्र टोलगतय उष्ट्रादिसमप्रचाराः तथा / विषमाणि दीर्धहस्वभावेन सन्धिरूपाणि बन्धनानि येषां ते विषमसन्धिबन्धनाः तथा उत्कुटुकानि यथास्थानमनिविष्टानि अस्थिकानि कीकसानि विभक्तानीव च दृश्यमानान्तरालानि येषां ते तथा। अत्र विशेषणपदव्यत्ययः प्राग्वत्। अथवा उत्कुटुकस्थितास्तथा स्वभावत्वात् विभक्ताश्च भोजनविशेषरहिता येषां ते तथा / दुर्बला बलहीना कुसंहननाः सेवार्तसंहननाः कुप्रमाणहीनाः कुसंस्थिताः। दुःसंस्थानाः ततः एषा टोलाकृत्यादिपदानां कर्मधारयः अत एव कुरूपाः कुमूर्तयः तथा / कुस्थानासनाः। कुशय्याः कुत्सितशयनाः / कुभोजिनो दुर्भोजनास्ततः एभिः पदैः कर्मधारयः / अशुचयः स्नानब्रह्मचर्यादिवर्जिताः। अश्रुतयो वा शास्त्रवर्जिताः अनेकव्याधिपरिपीडिताङ्गा स्खलन्ती विह्वला च चार्दवितर्दा गतिर्येषां ते तथा / निरूत्साहाः सत्वपरिवर्जिताः। विकृतचेष्टाः नष्टतेजसः। स्पष्टानि अभीक्ष्णं शीतोष्णखरपुरूषपातैः( विज्झडिअं) मिश्रितं व्याप्तमित्यर्थः / मलिनं पांशुरूपेण रजसा न तु पौष्यरजसावगुण्ठितान्युद्धूलितानि अङ्गान्यवयवा यस्य एतादृशमङ्गं येषां ते तथा / बहुक्रोधमानमायालोभाः बहुमोहाः न विद्यते शुभमनुकूलवेद्यं कर्म येषां ते तथा / अत एव दुःखभागिनः ततः कर्मधारयः (उसणंति) बाहुल्यनेधर्मसंज्ञा धर्मश्रद्धां सम्यक्त्वच ताभ्यां परिभ्रष्टाः। बाहुल्यग्रहणे न यथा सम्यक् दृष्टत्वमेषां कदाचित्सं-भवति। तथाधस्तनग्रन्थेव्याख्यातम् / उत्कर्षण रत्नैर्हस्तम्य यचतुर्वि-शत्युङललक्षणं प्रमाणं तेन मात्रा परिमाणं येषां ते तथा / इह कदाचित् षोडश वर्षाणि कदाचिच विंशतिवर्षाणि परममायुर्येषां तेतथा। श्रीवीर-चरित्रेषु तुषोडश स्त्रीणां वर्षाणि विंशतिः पुंसां परमायुरिति। बहूनां पुत्राणां नतृणां पौत्राणां यः परिवारस्तस्य प्रणयः स बहुलो येषां ते तथा / अपि नाल्पायुष्कत्वेऽपि बह्वपत्यता तेषामुक्ता अल्पेनापि कालेन यौवनसद्भावादिति। ननुतदानीं गृहाद्यभावेन व ते वसन्तीत्याह / गङ्गासिन्धुमहानद्यो वैताढ्यं च पर्वतं निश्रां कृत्वा (वावत्तरिति) द्वासप्ततिस्थान-- विशेषताश्रिता निगोदाः कुटुम्बानि द्विसप्ततिसंख्या चैवं वैताढ्यादर्वाणडायास्तटये नवनवविलसंभवादष्टादश एवं सिन्ध्या अपि अष्टादश एषु च दक्षिणार्धे भरतमनुजा वसन्ति।वैताढ्येन परतो गङ्गातटद्वयेऽष्टादश एवं तत्रापि सिन्धुतटद्वये अष्टादशएतेषु चोत्तरार्धभरतवासिनो मनुजा वसन्ति / वीजमिव बीजं भविष्यतां जनसमूहानां हेतुत्वान् बीजस्येव / मात्रा परिमाणं येषां ते तथा / स्वल्पाः स्वरूपत इत्यर्थः / विलवासिनो मनुजा भविष्यन्तीति पुनः सूत्रं निगमनवाक्यत्वेनन पुनरूक्तमवसातव्यम्। अथ तेषामाहारस्वरूपं पृच्छन्नाहतेणं भंते ! मणुआ किमाहारमाहारिस्संति ? गोअमा ! तेणं कालेणं तेणं समएणं गंगासिंधुओ महाणईओ रहपहमित्तवित्थराओ अक्खसोअप्पमाणमेत्तं जलं वोज्झिहंति सेविअणं जले बहुमच्छकच्छभाइण्णं णो चेवणं आउबहुले भविस्सइ। तेभगवन् ! मनुजाः किमाहारमाहरिष्यन्ति। किं भोक्ष्यन्ते? भगवानाह गौतम ! तस्मिन् काले एकान्तदुष्षमालक्षणे तस्मिन् समये षष्ठारकप्रान्त्यरूपे गङ्गासिन्धुमहानद्यो रथपथः शकटचक्रद्वयप्रमितो मार्गस्तेन मात्रा परिमाणं यस्य स तादृशो विस्तरः प्रवाहव्यासो ययोस्ते यथा। अक्षं चक्रनाभिक्षेप्यकाष्ठं तत्र स्त्रोतो धुरः प्रवेशरन्धं तदेव प्रमाण तेन मात्रावगाहनो यस्य स तथाविधं जलं वक्षतः इव प्रमाणेन गम्भीर जलं धरिष्यन्त इत्यर्थः। तनु क्षुल्लहिमवतोरेकव्यवस्थाराहित्येन तद्गतपद्मदनिर्गतयोरनयोः प्रवाहस्य नैयत्येनोक्तरूपौ कथं संगच्छेते। उच्यते गङ्गाप्रपातकुण्डनिर्गमादनन्तरं क्रमेण कालानुभावजनितभरतभूमिगततापवशादपरजलशोषे समुद्रप्रवेशे तयोरूक्तमात्रावशेषजलवाहित्वमिति / न काप्यनुपपत्तिरिति / तदपि च जलबहुमत्स्यकच्छपाकीर्ण न चैवम् अच्छलं बह्वप्कायं सजातीयापराप्कायपिण्डबहुलमित्यर्थः / ततस्ते मनुजाः सूरोद्रमनमुहूर्तसूरास्समयेन मुहूर्ते च यकार--