________________ ओसप्पिणी ११८-अभिधानराजेन्द्रः - भाग 3 ओसप्पिणी चकासित्वा कासं विधाय क्षुतं विधाय जम्भयित्वा जृम्भां विधाय अ क्लिष्टाः स्वशरीरोत्थक्लेशवर्जिता अव्यथिता परेणानापालितदुःखा अपरितापिताः स्वतः परतो वा अनुपजातकायमनः परितापाः / एतेन तेषां सुखमरणमाह। कालमासे कालं कृत्वा देवलोकेषु ईशानान्तं सुरलोकेषूत्पद्यन्ते / स्वसभानायुष्कसुरेष्वेव तदुत्पत्तिसंभवात् / अत्र कालमास इति कथनेन तत्कालभाविमनुजानामकालमरणभावमाह / अत्पर्याप्तकान्तर्मुहूर्तकालानन्तरमनपवर्तनीयायुष्कत्वात् / अत्राह कश्चित् / ननु सर्वथा वर्तमानभवायुः कर्मपुद्गलपरिशाटकालस्यैव मरणकालत्वात् / कथमकालमरणमुपपद्यते / यदभावो वर्तमानसमयो निरूप्यते इति चेत्सत्ये द्विधा ह्यायुर्नरतिरश्चामपर्वतनीयमनपवर्तनीयं च। तत्राद्यं बहुकालवेधं तत्तथाऽध्यवसायजोगजनितश्लथबन्धनबद्धतयोदीर्णसर्वप्रदेशामतपवर्तनाकरणवशादल्पायुः। कालेन रज्जुदहनन्यायेन क्लिन्नवासो न्यायेन मुष्टिजलन्यायेन वा युगपद्वेद्यते / इतरस्तु गाढबन्धनबद्धतया न प्रवर्तनायोग्यं क्र मेणावेद्यते / तेन बहुषु वर्तमानारकोंचितमनप्रवर्तनीयमायुः क्रमेणानुभवत्सु सत्सु यावदेकस्य कस्यचिदायुः परिवर्तते तदा तस्य लोकैरकालमरणमिति व्यपदिश्यते" पढमो अकालमचू" इत्यादिवत्। ते चान्यदाऽ कालमरणस्यापि संभवान्न तदानीं तन्निषेध इति न दोष इति। अथ कथं तदेवलोकेषूत्पद्यन्तेइत्याह / यतो देवलोको भवनपत्याद्याश्रयस्तस्य तथाविधकालस्वभावात् / तद्योग्यायुर्वन्धेन परिग्रहोऽङ्गीकारो येषां ते तथा / देवलोकगामिन इत्यर्थः / एषा चैकोनपञ्चाशदिन वधिपरिपालने केचिदेवमवस्थामाहुः। " सप्तोत्तानशया लिहन्ति दिवसान्, स्वाङ्गुष्ठमार्यास्ततः कौरिङ्गन्ति पदैस्ततः कलगिरो यान्ति स्खलद्भिस्ततः / स्थेयोभिक्ष ततः कलागणभृतस्तारुण्यभोगोद्धताः, सप्ताहेन ततो भवन्ति सुदृगादानेऽपि योग्यास्ततः" अत्र व्याख्या आर्याः सप्तदिवसान् जन्मदिवसादि कात् यावत् उत्तानशयाः सन्तः स्वाङ्गुष्ठं लिहन्ति ततो द्वितीयसप्तके पृथिव्यां रिङ्गन्तिततस्तृतीयसप्तके कलगिरोऽव्यक्तवाचो भवन्ति ततश्चतुर्थसप्तके स्खलनिः पदैः यान्ति / ततः षष्ठसप्तके कलागणभृतो भवन्ति / ततः सप्तमसप्त-के तारूण्यभोगोद्धताः भवन्ति / केचिच सुहगादानेऽपि सम्यक्त्वग्रहणेऽपि योग्या भवन्तीति क्रमः / इदं चावस्थाकालमानं सुषमायामादौ ज्ञेयम् ततः परं किंचिदधिकमपि संभाव्यते इति / अत्र प्रस्तावात् कश्चिदाह। अथ तदाग्निसंस्कारदेरप्रादुर्भूतत्वेन मृतकशरीराणां का मतिरित्युच्यते। भारुण्डप्रभृतिपक्षिणस्तानि तथा जगतस्वाभाव्यात् नीमकाष्ठमिवोत्पाद्य मध्ये समुद्र क्षिपन्ते / यदुक्तं / श्रीहेमाचार्यकृतऋषभचरित्रे "पुरा हि मृतमिथुनानां, शरीराणि महाखगाः। नीडकाष्ठमिवोत्पद्य, सद्यश्चिक्षिपुरम्बुधौ1१।" किंचात्र श्लोकेअम्बुधावित्युपलक्षणं तेन यथायोगं गङ्काप्रभृतिनदीष्वपि ते तानि क्षिपन्तीति ज्ञेयम् / ननु चोत्कृष्टतोऽपि धनुःपृथक्त्वमानशरीरैस्तैरुत्कृष्टप्रमाणानि तानि कथं सुवहानि इत्यत्रापि समाधीयते। युग्मिशरीराणामम्बुधिक्षेपस्य महारागकृतत्वेन बहुषु स्थानेषु प्रतिपादनादवशीयते। यत्परं “काधणुहंतमि" त्यत्र सूत्रे जात्यपेक्षया एकवचननिर्देशस्तेन क्वचिद्वहुवचनं व्याख्येयं तथा वसतिपक्षिशरीरमानस्य यथासंभवमरकापेक्षया बहु बहुतरबहुतमधनुःपृथक्त्वरूपस्यापि संभावात्ततः कालवर्तियु-ग्मिनरहस्तादिशरीरापेक्षया बहुधनुःपृथक्त्वपरिमाणशरीरैस्तैन किंचिदपि तानि दुर्वहानीति न काप्यनुपपत्तिः संभाव्यते / तत्वं बहुश्रुतगम्यम् / एवं च सूत्रे एकनचननिर्देशेऽपि बहुवचनेन व्याख्यातम् / श्रीमलयगिरिपादैरपि श्रीवृहत्संग्रहणीवृत्तौ देवानामाहारोच्छासान्तकालमानाधिकारे "दसवासहस्साई, समयाई जाव सागरं अणं / दिवसमुहत्तपुहुत्ता, आहारस्स समासेणं” इत्यस्या गाथाया अर्थकथनावसरे कृतमस्तीति सर्वं सुस्थमिति। __ अथ तदा मनुजानामेकत्वमुत नानात्वमिति प्रश्नयन्नाह / तीसेणं भंते ! समाए भरहे वासे कइविहा मणुस्सा। आणुसजित्या गोयमा! छविहातं जहा पम्हगंधा 1 डिअगंधा 2 अममा 3 तेअतली सहा 5 सणिचारी 6 / तस्यां समायां भगवान् ! भरते वर्षे कतिविधा जातिभेदे कति प्रकारा मनुष्या अनुषक्तवन्तः तत्कालान्तरमनुवृत्तवन्तः। सन्ततिभावेन भवन्ति स्मेत्यर्थः / भगवानाह-गौतम! षड्विधारतद्यथा। पद्मगन्धाः 1 मृगगन्धाः २अममाः 3 तेजस्तलिनः 4 सहाः 5 शनैश्चारिणः ६इमे जातिवाचकाः शब्दाः संज्ञाशब्दत्वेन रूढा / यथा पूर्वमेकाकारापि मनुष्यजातिस्तृतीयारकप्रान्ते श्रीऋषभदेवेन उग्रभोगराजन्यक्षत्रियभेदैश्चतुर्की कृता। तथाऽत्राप्येवं षविधा सा स्वभावत एवास्तीति / यद्यपि श्री अभयदेवसूरिपादैः पञ्चमाङ्गषष्ठशतसप्तमोद्देश्यके पद्मसमगन्धयः मृगमदगन्धयः ममकाररहिताः तेजश्च तलं च रूपं येषामस्तीति तेजस्तलिनः सहिष्णवः समर्थाः / शनैर्मन्दमुत्सुकत्वाभावाचरन्तीत्येवं शीला इत्यन्वर्थता व्याख्यातास्ति / तथापि तथाविधसंप्रदायाभावात् असाधारणव्यञ्जकाभावे नैतेषां जातिप्रकाराणां दुर्बोधत्वं जीवाभिगमवृत्तौ च सामान्यतो जातिवाचकतया व्याख्यानदर्शनाच न विशेषतो व्यक्तिकृतेति प्रथमारकः। (8) अथ द्वितीयारकव्याख्या। तीसे णं समाए चउहिंसागरोवमकोडाकोडीहिं काले वीइकते अणंतेहिं चण्णपज्जवेहिं अणंतेहिं गंधपज्जवे हिं अणंतेहिं रसपञ्जवेहिं अर्णतेहिं फासपज्जवेहिं अणंतेहिं संघयणपञ्जदेहि अणंतेहिं संठाणपनवेहिं अणंतेहिं उच्चत्तपज्जवेहिं अणंतेहिं आयुपज्जवेहि अणंतेहिं गुरुलहुपञ्जवेहि अणंतेहिं अगुरुलहुपज्जवे हि अणंतेहिं उट्ठाणकम्मवलवीरिअपुरिसक्कारपज्जवेहिं अणंतेहिं गुणपरिहा णीए परिहायमाणे परिहायमाणे / एत्थ णं सुसमसुसमाणामं समा काले पडिवजिंसु समणाउसो ! / तस्यां सुषमसुषमानाम्न्यां समायां चतसृषु सागरोपमकोटाकोटीषु काले व्यतिक्रान्ते सति सूत्रे च तृतीयानिर्देशः आर्षत्वात्। अथवा चतसृभिः सागरोपमकोटाकोटीभिः कालमिते गमिते वा एतेनेत्यादिशब्दाध्याहारेण योजना कार्या। अत्र च पक्षे करणे तृतीया ज्ञेया। अत्रान्तरे सुषमानाम्ना समाकालः प्रतिपन्नवान् लगति स्मेति वाक्यान्तरसूत्रयोजना सुषमाचोत्सर्पिण्यामपि भवेदित्याह / अनन्तगुणपरिहायमाणं अनन्तगुणपरिहायमाणं हानिमुपगच्छन् हानिमुपगच्छन् सूत्रे च द्विवचनमनुसमयं हानिरिति हानेः पौनःपुन्यज्ञापनार्थम्। अथ कालस्य नित्यद्रव्यत्वेन हानिरुपपद्यते।अन्यथाऽहोरात्रं सर्वदा त्रिंशन्मुहूर्तात्मकमेवन स्यादित्यत आहा अनन्तैर्वर्णपर्यायरित्यादिवर्णाः श्वेतपीतरक्तनीलकृष्णभेदात्पञ्च। कपिशादयस्तुतत्संयोगजास्ततः। श्वेतादेन्यतमवर्णस्य पर्ययबुद्धिकृता निर्विभागाभागा एकगुणाश्चतत्वादयः। सकलजीवराशेरनन्तगुणाधिकास्तैरनन्ता ये गुणा अनन्तरोक्तस्वरूपाभागास्तेषां