________________ चित्तसमाहिट्ठाण 1298 - अभिधानराजेन्द्रः - भाग 3 चित्ता रोऽस्मिन्नेव शब्देऽग्रे करिष्यते) कायोत्सर्गानन्तरं स्तुतयो दीयन्त इत्युक्तम्। अथोत्सर्गा एवात्र किमर्थं क्रियन्त इति तत्फलनिरूपकं सप्तदशं निमित्तद्वारम्-(निमित्तऽट्ठ त्ति) निमित्तानि प्रयोजनानि, फलानीति | यावत्।अष्टौ अष्टसंख्यानि, इदमत्र हृदयम्-संपूर्णायामस्यां क्रियमाणायां पापक्षपणादीन्यष्टौ फलानि भवन्तीति। प्रतिपादयिष्यति च-“पापक्खवणत्थमिरिया" इत्यादि / यदत्रैर्यापथिक्या अपि फलमुपादर्शि तदीर्यापथिकीप्रतिक्रमणपूर्विकैव परिपूर्णचैत्यवन्दनेति प्रतिपादनार्थम् / एवं तद्धे तु प्रमाण वर्णादीनामपि निरूपणे कारणं वाच्यम् / / 17 / / फलाष्टकार्थं कायोत्सर्गाः कार्यों इत्यभाणि, तत्र न कारणमन्तरेण कार्यप्ररोहसंभावना, बीजेन विनाऽडकुरप्रादुर्भावाभाववदिति निमित्तद्वारानन्तरमष्टादशं हेतुद्वारम्- (वार हेऊ व त्ति) हेतवश्च फलसाधनयोग्यानि कारणान्यत्र वक्ष्यन्ते। यथा-तस्स उत्तरीकरण इत्यादि। चशब्दो निमित्तहेतुभिः कश्चित्कथंचन कतिचिन्मन्यत इतिवाचनान्तरप्रदशनार्थः / तचाग्रे दर्शयिष्यते / इति निमित्तहेतुभिः कृतोऽप्युत्सर्गो नाकारैर्विना निरतिचारः शक्यः पालयितुमित्याकारद्वारमेकोनविंशतितमम् - (सोल आगार त्ति) षोडश आकारा अपवादाः कायोत्सर्गकरणे ज्ञातव्याः। वक्ष्यति च- "अनुच्छयाइ वारस" इत्यादि // 16 // कृते चोत्सर्गे दोषा वा इति विंशतितमं दोषसंख्याद्वारम्(गुणवीस दोस त्ति) एकोनविंशतिर्दोषाः कायोत्सर्गस्थैर्वर्जनीयाः / अभिधास्यति च-“थोडगलय” इत्यादि / / 20 / / कियन्तं च कालमेवमुत्सर्गः कार्य इत्येकविंशं-प्रमाणद्वारम्-(उस्सग्गमाणु त्ति) कायोत्सर्गप्रमाणमत्र ज्ञेयम / वक्ष्यति च-"इरिओस्सग्गपमाण" इत्यादि / / 21 / / चैत्यवन्दना हि स्तुतिस्तवादिस्वरूपा, तत्रस्तुतयो वन्दनामध्ये दीयमानत्वात् तद्दवारं षोडशमुक्तम्। स्तवस्तुवन्दनापर्यन्तभावी चेइयाई वंदिजंति, तओ पच्छा संतिनिमित्तं अजियसंतित्थओ परियट्टिजइ।" इत्यावश्यकचूर्णिवचनात, तथैव सकलसङ्घन क्रियमाणतया करणविधौ समायातत्वाच। तथा चावश्यकवृत्तावप्युक्तम्- “चेइआई वंदिजंति, तओ संतिनिमित्तं अजियसंतित्थओ कडिजई” इत्यतो द्वाविंशं स्तवद्वारम्(थुत्तं ति) स्तोत्रं चतुःश्लोकादिरूपम्-“घउसिलोगाए परेणं थओ भवई" इति व्यवहारचूर्णिवचनात्तदत्र भणनीयम्। वक्ष्यति च-"गंभीरमहुरस" इत्यादि। चशब्दो विशेषकः। तेनात्र पदैकश्लोकादिकं भगवदगुणोत्कीनिपरं चैत्यवन्दनायाः पूर्व भण्यते, ततो मङ्गलवृत्तापरपर्याया नमस्कारा इत्युच्यन्ते। यद्भाष्यम् - "उद्दामसयं वेया-लि उच्च पढिऊण सुकइबद्धार। मगलचेताई तउ,पणिवायथयं पढइ सम्म॥१॥" इति पूर्व भणनीयत्वादेव नमस्काराणां तद्द्वार पूर्वं सप्तममुक्ताम् / यत्तु कायोत्सर्गानन्तरं भण्यते तत् स्तुतय इति रूढाः, चैत्यवन्दनापर्यन्ते च स्तोत्रमिति,अयमेव चैतेषां परस्परं विशेषः, अन्यथा भगवत्कीर्तनरूपतया सर्वेषामप्येषामेकस्वरूपापत्तेः / भणितं चागमे त्रितयमप्येतत्नमस्कारस्तुतिस्तवा इति / तथा चोत्तराध्ययनसूत्रम्- “थयथुइमंगले णं भंते ! जीवे किं जणयइ ? थयथुइमंगलेणं नाणदंसणचरित्ताणि, | बोहिलाभं च जणयइ / नाणदसणचरित्तसंपन्नेणं जीवे अंत किरियं कप्पविमाणोववत्तिअं आराहणं आराहेइ / " इत्यादि विमर्शनीयमिदं सूक्ष्मधियेति॥२२॥ इयं च चैत्यवन्दना दिनमध्ये क्रियन्तो वारानोधतो विधेयेति वेलाप्रमाणप्ररूपकं त्रयोविंशतितमं द्वारम् (सगवेल त्ति) सप्तवेलाः सप्तवारान् दिनान्तरोघतोऽपि वन्दना कार्येति। कथयिष्यति च-“पडिकमणे चेइयजिणमचरिम" इत्यादि।॥२३॥ दसआसायणचाओ, एवं चिइवंदणाइठाणाणि। चउवीसदुवारेहि,दुसहस्सा हुंति चउसयरा।। चैत्यवन्दनां विदधता विशेषत आशातनाःपरिहार्या इति चतुर्विंशतितममाशातनाद्वारम्-(दसआसायणचाओ त्ति) दशानामाशातनानाम् - "जिणभवणम्मि अवण्णा, पूयाइअणायरो तहा भोगो। दुप्पणिहाणं अणुचिय-वित्तिं आसायणा पंच॥१॥" इति बृहद्भाष्योक्ताऽवज्ञादिपञ्चप्रकाराऽऽशातनाऽन्तर्वर्तिभोगाभिधानतृतीयाऽऽशातनाभेदानां ताम्बूलपानीयादीनां, त्यागः परिहारः कार्यो, जिनगृह इत्युपस्कारः। वक्ष्यति च-"तंबोलपानभोयण" इत्यादि। एतासां चोपलक्षणत्वात् , तुला दण्डन्यायेन वा मध्यग्रहणेनाऽऽद्यन्तयोरपि ग्रहणाचतुरशीत्युत्तरभेदावज्ञादिरूपंपञ्चप्रकाराऽप्याशातना वयेति। एतच एतद्दारव्याख्याऽवसरे भणिष्यामः। एवं पूर्वोक्तप्रकारेण चैत्यवन्दनायां स्थानानि भवन्तीति योगः। कै ? चतुर्विंशतिद्वारैः / तत्राद्यगाथायामष्टौ, द्वितीयस्यां सप्त, तृतीयायामष्टौ, चतुर्थ्यामेकं द्वारमिति ।.कियन्ति स्थानानि भवन्तीत्याह-द्वौ सहस्रौ चतु: सप्तत्यधिकौ / तत्राद्यद्वारे त्रिंशत्, द्वितिये पञ्च, तृतीये द्वौ, चतुर्थे त्रीणि, पशमे त्रीणि, षष्ठे एकम्, सप्तमे एकम्, अष्टमे षोडशशतानि सप्तचत्वारिंशदधिकानि, नवमे एकाशीत्याधिकं शतम्, दशमे सप्तनवतिः, एकादशे पञ्च, द्वादशे द्वादश, त्रयोदशे चत्वारि, चतुर्दशे एकम्, पञ्चदशे चत्वारि, षडशे चत्वारि,सप्तदशे अष्टौ, अष्टादशेद्वादश, एकोनविंशतितमे षाडश, विंशतितमे एकोन विंशतिः, एकविंशतितमे एकम्, द्वाविंशतितमे एकम्, त्रयोविंशे सप्त, चतुर्विशतितमे दश / सर्वे मिलिताश्चतुः सप्तत्यधिकसहस्रा भवन्तीति द्वारगाथाचतुष्टयार्थः। सङ्घा०१प्रका०। (2) दश त्रिकाणिअथ “यथोद्देशं निर्देशः" इति न्यायात् प्रथमं द्वारं व्यचिख्यासुः दशत्रिकप्रचिकटयिषया शास्त्रप्रतिमुखरूपाणि प्रतिद्वाराणि चिरन्तनगाथाद्वयेनाऽऽहतिन्नि निसीही तिन्नि य,पयाहिणा तिनि चेव य पणामा। तिविहा पूया य तहा, अवत्थतियभावणं चेव // तिस्रो नैषेधिक्यो गृहादिव्यापारपरिहाररूपाः, जिनगृहादिस्थाने प्रविशता कर्त्तव्या इति क्रिया ऽध्याहारः / एवमन्यत्रापि-"यश्च निम्यं परशुना, यश्चैनं मधुसर्पिषा। यश्चैनं गन्धमाल्याभ्यां, सर्वस्य कटुरेव सः॥१॥” इत्यादिवद्यथाऽनुरूपा क्रियाऽध्याहार्येति प्रथमं त्रिकम्।१।। तिसश्च प्रदक्षिणा दातव्याः, तत्र प्रकर्षेण सर्वासु दिक्षु विदिक्षु च परिभ्रमतां दक्षिणमात्मनो दक्षिणाङ्गभागवर्ति मूलबिम्बंज्ञानादित्रयानुकूल्यकृते यत्र प्रतिपत्तौ सा प्रदक्षिणेति द्वितीयं त्रिकम् / / त्रयश्च प्रणामाः प्रकर्षण