SearchBrowseAboutContactDonate
Page Preview
Page 1320
Loading...
Download File
Download File
Page Text
________________ चेइयरुक्ख १२९६-अमिधानराजेन्द्रः-भाग 3 चेइयवंदण पका इति। "तेसि णं' इत्यादि। तेषां चैत्यवृक्षाणां पुरतः प्रत्येकं प्रत्येकं मणिपीठिकाः प्रज्ञत्पाः / ताश्च मणिपीठिका योजनमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन सर्वात्मना मणिमय्य अच्छा इत्यादि प्राग्वत्। जी०३ प्रति०। चेइयवंदण न०स्त्री० (चै(त्य)त्यवन्दन) चित्तस्य भावाः कर्माणि वा "वर्णदृढादिभ्यः ष्यञ्च / / 5 / 1 / 123 // (पाणि०) इतिष्यत्रि चैत्यानि जिनप्रतिमाः, ता हि चन्द्रकान्तसूर्यकान्तमरकतमुक्ताशैलादिदलनिर्मिता अपि चित्तस्य भावेन कर्मणा वा साक्षात्तीर्थकरबुद्धिं जनयन्तीति चैत्यान्यभिधीयन्ते / तेषां वन्दनं स्तवनं कायवाड्मनः प्रणिधानं चैत्यवन्दनम् / प्रव०१ द्वार / चित्तं प्रस्तावात् प्रशस्तं मनस्तद्भावश्चत्त्यं तद्धेतुत्वाजिनबिम्बा अपि चैत्त्यानि, कारणे कार्योपचारात्। तेषां वन्दना पूर्वोक्तशब्दार्था चैत्यवन्दना। उक्तंच"चित्तं मणो पसत्थं, तब्भावो चेइय त्ति तज्जणगं / जिणपडिमाओ तेसिं, वंदणमभिवायणं तिविहं / / 1 // " यद्वा-चितेर्लेप्यादिचयनस्य भावः कर्म वा चैत्यम्, तच्च संज्ञाशब्दत्वात् देवताप्रतिबिम्बे प्रसिद्धम् / चूर्णी तु-'चिती' संज्ञाने, काष्ठकर्मादिषु प्रतिकृतिं दृष्ट्वा संज्ञानमुत्पद्यते / यथा अहंदादिप्रतिमेति / शेषं प्राग्वत्। ननु भावार्हदादीनामप्येवं वन्दना क्रियते, तत्कथं चैत्यवन्दनेत्युच्यते? सत्यम्-प्रायेणास्याश्चैत्याग्रे करणात् / तथा च बृहद्भाप्यम्"भावजिणप्पमुहाण वि, सव्वेसि वि जइ वि वंदणा तह वि। चेइयअग्गे काउं, तीरेई वंदणा तेणं // 2 // जिणबिंबाभावे पुण, ठवणा गुरुसक्खिया वि कीरंति। चिइवंदण चिय इमा, तत्थ वि परमिट्ठिठवणाओ // 3 // अहवा जत्थ व तत्थ व, पुरओ परिमिट्ठिठवणाओ। कीरइ बुहेहिँ एसा, नेया चिइवंदणा तम्हा'' || 4 / / करणत्रिकेण देवप्रणिधाने, संघा०१ प्रस्ता०। विषयसूची(१) अधिकारसंग्रहः। दश त्रिकाणि। नैषेधिकीत्रम्। तत्र भुवनमल्लकथानकम्। पूजात्रिकम्। भावनाः। (7) त्रिदिनिरीक्षणवर्जने गन्धारश्रावककथानकम्। (1) स्तुत्यक्षराणि। (E) मुद्रात्रिकप्ररूपणम्। (10) प्रणिधानम्। (11) अभिगमः। (12) चैत्यवन्दनदिक। (13) अवग्रहः। (14) त्रिविधवन्दना। (15) स्तुतिविचारः। (16) चैत्यवन्दनविधिः। (17) जघन्यवन्दनाविचारः। (18) अपुनर्बन्धकादयोऽधिकारिणः / (19) अधिकारिता। (20) नमस्कारद्वारम्। (21) संपवारम्। (22) प्रणिपातदण्डके वाराः / (23) चतुर्विंशतिस्तवः। (24) सिद्धस्तुतिः। (25) श्रुतस्य स्तुतिः। (26) वीरस्तुतिः। (27) वैयावृत्ये स्तुतयः। (28) द्वादश अधिकाराः। (26) शरणीयद्वारम्। (30) जिनद्वारम्। (31) यो यत्र स्तूयते। (32) येऽधिकारा यत्संमताः स्तुतयः संस्कृतकाव्यानि। (33) षोडश आकाराः। (34) स्तोत्रलक्षणम्। (35) कतिबेलाश्चैत्यानि वन्देत्। (36) चैत्यवन्दनकरणविधिः। (37) प्रकीर्णकवार्ताः। (1) तद्विधिं विभणिपुरधिकारसङ्ग्रहमाह-- इह च प्रतिदिनानुष्ठेयं चैत्यवन्दनादिकं संघस्याचारविधिं वक्ष्यामीत्युक्तम्। तत्र तावत् "साहूण गिहत्थाण य, सव्वाणुट्ठाणमूलमक्खायं / चिइवंदणमेव जओ, ता तम्मि वियारणा जुत्ता' // 1 // इति वचनात् "सामाइयट्ठिएहि वि, चउवीसं पुव्वया चेव " इत्यावश्यकचूर्णिवचनाच, प्रथमं चैत्यवन्दनाविधिं बिभणिषुर्भाष्यकारः शास्त्रमु-- खापरपर्यायं तद्द्वारगाथाचतुष्टमाहदहतिय 1 अहिगमपणगं, 2 दुदिसि 3 तिहुग्गह 4 तिहा उ वंदणया 5 / पणिवाय 6 नमुक्कारं 7, वण्णा सोलसयसीयाला 8 // 2 // इह सामान्येन साधुश्रावकादिबहुसमानजिनभवनप्रवेशादिसमयविधीयमाननैषेधिक्यादिप्रणिधानपर्यवसानसकलचैत्यवन्दनाविधानप्रतिपादनप्रधानं त्रिःसंस्थानकनिबद्धं दशत्रिकारख्यं प्रथमद्वारम्-(दहतिय त्ति) दशेति दशसंख्यानि त्रिकाणि नैषेधिकीत्रयादिरूपाणि यत्र द्वारे तद्दशत्रिकम् / वक्ष्यति च-"तिन्नि निसीही' इत्यादि / अत्र च सर्वत्र विभक्तिलोपादिकं प्राकृतलक्षणवसादवसातव्यम्।१। पुनः ऋद्ध्यवाप्तानृद्धि प्राप्तश्राद्धानधिकृत्य विशेषतश्चैत्यादिप्रवेशविध्यभिधायकं द्वितीयमभिगमद्वारम्- (अहिगमपणगं ति) अभिगमानां चैत्यादिप्रवेशे विधिविषयद्वार, शेषाणां पञ्चकमभिगमपञ्चकम् / भणिष्यति च"सचित्तदव्वओ ज्झाण'' इत्यादि। 2 / प्रविश्य जिनगृहे विहितयथोचितनैषेधिक्यादिकरणैर्नरनारिगणैर्भावपूजादिविधित्सया स्वस्वोचिता दिग् ज्ञेयेति तृतीयं दिग्द्वारम्-(दुदिसि त्ति) द्वे वामदक्षिणलक्षणे दिशौ काष्ठे क्रमतः स्त्रीपुंसयोर्योग्यतया वन्दनामधिकृत्य समाहृते वर्णित या यत्र तद् द्विदिग् / अभिधास्यति च-"वंदति जिणे दाहिण" इत्यादि / 3 / वामेतरदिक स्थैश्च तैर्जिनात्व कियत् दूरे वन्दना विधेयेति दिगनन्तरं चतुर्थमवग्रहद्वारम्-(तिहुग्गह त्ति) त्रिधा जघन्यमध्यमोत्कृष्टभेदात् त्रिप्रकारोऽवग्रहो मूलबिम्बवन्दनास्थानाभ्यन्तरालभूभा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy