SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ओसप्पिणी 107- अभिधानराजेन्द्रः - भाग 3 ओसप्पिणी अचीणरत्तपीअसुलिंग णविधियो मण्डनप्रकाराः बहुप्रकाराः अवान्तरभेदात्। ते च किं विशिष्टा इत्याह काञ्चनमणिरत्नभक्तिचित्रा इति व्यक्तम्। तथैव तथा प्रकारेण भूषणविधिनोपपेतास्ते मण्यङ्गा इति तात्पर्यार्थः / शेषं प्राग्वत्। अथ नवमकल्पवृक्षस्वरूपमाह - तीसे णं समाए तत्थ तत्थ बहवे गेहागारा णामं दुमगणा पण्णत्ता। समणाउसो जहा से पागारट्टालयचरियदारगोपुरपा-- सायागासतलमंडलएगसालगविसालगतिसालगचउसालगगमघरमोहणघरवलभीहरचित्तमालयघरभत्तिघरवट्टतंसचउरंसणंदिआवत्तसंहिआ पंडुतरतलमुंडमालहम्मिअं अहवा णं धवलहरअद्धमागहविब्भमसेलद्धसेलसंठिअकूमागारद्धसुविहिकोहगअणेगघरसरणलेण आवणा विडंगजालबिंदणिज्जजूहअपवरणचंदसालिआ रूवविमत्तिकहिआ भवणविही बहुविकप्पा तहेव ते गेहागारा विदुमगणा अणेगबहुविविहवीससा परिणयाए सुहारूहणसुहोत्ताराए सुहणिक्खमणपवेसाए दद्दरसोपाणपंतिकलिआए पइरिकसुहविहाराए मणोणुकूलाए भवणविहीए उववेया जाव चिटुंतित्ति। तस्यां समायामित्यादि प्राग्वत्। गेहाकारानाम द्रुमगणाः प्रज्ञप्ताः / यथा ते प्राकारो वप्रः अट्टालकः प्राकारो परिवाश्रयविशेषः चरिका नगरप्रकारान्तरालेष्ठहस्तप्रमाणो मार्गद्वारं व्यक्त गोपुरं पुरद्वारं प्रासादो नरेन्द्राश्रयः आकाशतलं कूटाद्याच्छिन्नकुट्टिमं मण्डपः छायाद्यर्थे पटादिमय आश्रयविशेषः / एकशालकद्विशालकत्रिशालकचतुःशालकादीनि भवनानि / नवरं गर्भगृहं सर्वतो वर्ति गृहान्तरमभ्यन्तरगृहमित्यर्थः / अन्यथोत्तरत्र वक्ष्यमाणेनावरकेण पौनरूक्त्यं स्यात् मोहनगृहं सुरतगृहं बलभीच्छदिराधारस्तत्प्रधानं गृहं वृत्तं वर्तुलाकारम् / त्यस्त्रं त्रिकोणं चतुरस्त्रं चतुष्कोणं नन्द्यावर्तः प्रासादविशेषस्तद्वत्संस्थितानि नन्द्यावर्ताकाराणि गृहाणि पश्चाद् द्वन्द्वः पाण्मुरतलं शुद्धामयतलं मुण्डमालहर्म्यम् उपर्यनाच्छादितं शिखरादिभागरहितं हर्म्यम् / अथवा णमिति प्राग्वत् धवलं गृहं सौधम् अर्द्धमागधविभ्रमाणि गृहविशेषाः / शैलसंस्थितानि पर्वताकाराणि गृहाणि अर्द्धशैलसंस्थितानि तथैव कूटाकारेण शिखराकृत्याद्यानि सुविधिकोष्ठकानि सुसुत्राण्यपूर्वकरचितोपरितनभागविशेषाणि अनेकानि गृहाणि सामान्यतः शराणानि तृणमपानि लयनानि पर्वतनिकुट्टितगृहाणि / सामान्यतः शरणानि आपणा हट्टाः / इत्यादिकाः भवनविधयो वास्तुप्रकारा बहुविकल्पा इत्यन्वयः। कथंभूता इत्याह / विटङ्ककपोतपाली जालवृन्दो गवाक्षसमूहः। नियूहः द्वारोपरितनपार्श्वविनिर्गतदारु अपवरकः प्रतीतः / चन्द्रशालिका शिरोगृहम् / एवं रूपाभिर्विभक्तीभिः कथिताः। तथैव भवनविधिनोपपे--- तास्ते गेहाकारा अपि दुमगणास्तिष्ठन्तीति / संबन्धः किं विशिष्टेन विधिनेत्याह। सुखेनारोहणमूर्ध्वगमनं सुखेनावतारोऽधस्तादवतरणं यस्य स तथा / सुखेन निष्क्रमणं निर्गमः प्रवेशश्च यत्र स तथा / कथमुक्तं स्वरूपमित्याह / दर्दरसोपानपङ्क्तिकलितेन अत्र हेतौ तृतीया / तथा प्रतिरिक्ते एकान्ते सुखो विहारोऽवस्थानशयनादिरूपो यत्र स तथा / मनोऽनुकूलेनेति व्यक्तं शेषं प्राग्वत्। अथ दशमकल्पवृक्षस्वरूपमाह तीसे णं समाए तत्थ तत्थ बहवे अणिगणा णामं दुमगणा पण्णत्ता। समणाउसो जहा से अइणगखोमतणुलकंबलदुगूलकौसेन्जकालमिगपट्टअंसुअचीणअंसुअपट्टाआभरणचित्तसिलक्खणगकल्लाणगभिंगणीलकज्जलवहुवण्णरत्तपीअसुकिल्लसक्खयमिगलोमं हेमप्परल्लग अवरूत्तरसिंधुउसभदविलवंगकलिंगतलिणतंतुममयत्तिचित्तवत्थहिवीबहुप्पगारा वरपट्टणुग्गया वण्णरागकलिआ तहेव ते अणगणा वि दुमगणा। अणेगबहुविविहवीससा परिणयाए वत्थविहीए उववेआ कुसविकुसं जाव चिट्ठति। वाक्ययोजना पूर्ववत् / नामार्थस्तु विचित्रवस्त्रदायित्वात् / न विद्यन्ते नग्रास्तात्कालीनजना येभ्यस्ते अनग्नाः / यच्च प्राक्तनेषु बहुषु जम्बूद्वीपप्रज्ञप्तिसूत्रादशेषु (आयाणा इति ) दृश्यते स लिपिप्रमादः संभाव्यते। प्रस्तुतसूत्रालापकविस्तारोपदर्शके जीवाभिगमे एतादृशपाठस्यादर्शनात्। आजिनकं चर्ममयं वस्त्रं / क्षौमं सामान्यतः कार्पासिकं / अतसीमयमित्यन्ये / तनुं शरीरं सुखस्पर्शतया लाति अनुगृहातीति तनुलं तनुसुखादिकम्बलः प्रतीतः / अणुअकंबल इति पाठे तु तनुकः सूक्ष्मो किम्बलः / दुकूलं गौडविषयविशिष्टकासिकं अथवा / दुकूलो वृक्षविशेषस्तस्य वल्कं गृहीत्वोदूखले जलेन सह कुट्टयित्वा बुसीकृत्य च वीयते यत्तद्दुकूलं कौशेयं च सरितन्तु निष्पन्नं। कालमृगपट्टः कालमृगचर्म / अंशुकचीनांशुकानि नानादेशेषु प्रसिद्धानि ! दुकूलविशेषणरूपाणि / पूर्वोक्तस्येव वस्त्रस्य यान्यभ्यन्तरहारिभिनिष्पाद्यन्ते सूक्ष्मतराणि भवन्ति तानि चीनांशुकानि वा पट्टानि पट्टसूत्रनिष्पन्नानि आभरणैश्चित्राणि विचित्रा णि आभरणचित्राणि / लक्ष्णानि सूक्ष्मतन्तुनिष्पन्नानि कल्याणकानि परमलक्षणोपेतानि / भृङ्गः कीटविशेषः स इव नीलम् / तथा कजलवणे बहुवर्णे विचित्रवर्णे रक्तपीतशुक्लसंस्कृतं परिकर्मितं यन्मृगलोमहेम च तदात्मकं कनकरसच्छुरितत्वादिधर्मयोगात् / रल्लकः कम्बलविशेषो जीणादि पश्चाद् द्वन्द्वः / एते च कथंभूता इत्याह। अपरः पश्चिमदेशः उत्तर उत्तरदेशः सिन्धुदेशविशेषः / (उसभत्ति ) संप्रदायगम्यं / द्रविडवङ्गकलिङ्गा देशविशेषाः / एतेषां संबन्धिनस्तत्र देशोत्पन्नत्वेन ये ते तथा / तलिनतन्तवः सूक्ष्मतन्तवः तन्मया या भक्तयो विच्छित्तयो विशिष्टरचनास्ताभिश्चित्राः इत्यादिका वस्त्रविधयो बहुप्रकारा भवेयुर्वर-पत्तनं तत्तत्प्रसिद्धपत्तनं तस्मादुद्गता विनिर्गता विविधैर्वणविविधैरागैर्मजिष्ठरागादिभिः कलितास्तथैव ते ननका अपि द्रुमगणाः / अनेकबहुविविधविरसा परिणतत्वेन वस्त्रविधिनोपपेता इत्यादि / अत्र चाधिकारे जीवाभिगमसूत्रादर्श क्वचित् क्वचित् किंचिदधिकपदमपि दृश्यते / तत्तु वृत्ती व्याख्यातं स्वयं पर्यालोच्यमानमपि च नार्थप्रदमिति न लिखितम्। तेन तत्संप्रदायादवगन्तव्यं तमन्तरेण सम्यक् पाठशुद्धेरपि कर्तुमशक्यत्वादिति उक्तं सुषमसुषमायां कल्पद्रुमस्वरूपम्। (6) अथ तत्कालभाविमनुजस्वरूपं पृच्छन्नाहतीसे णं भंते ! समाए भरहे वासे मणुआणं के रिसए / आयारभावपमोयारे पण्णत्ते / गोयमा ? ते णं मणु आ सुप्पइडिअकुम्मचारूचलणा जाव लक्खणवंजणगुणोववेआ
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy