SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ओसप्पिणी 104 - अभिधानराजेन्द्रः - भाग 3 ओसप्पिणी दगवारगविचित्तवट्टगमणिवट्टगसुत्तिवापीणया कंचणमणिरयणमत्तिचित्ता भायणविहीय बहुप्पगारा तहेव ते भिंगा विदुमगणा। अणेगबहुविहवीससा परिणयाए भायणविहीए उववेअफ्ले हिं पुण्णा विव विसंतीति। तस्यां समायां तत्रेत्यादि प्राग्वत् भूतं भरणं पूरणमित्यर्थः / तत्राङ्गानि कारणानि न हि भरणक्रियाभरणीयं भाजनं वा भवतीति तत्संपादकत्वात्। वृक्षा अपि भृताङ्गाः। प्राकृतत्वाच भिंगा उच्यन्ते। यथा सेवारको मरुदेशप्रसिद्धनामा मङ्गल्यघटः घटकोलघुर्घटः कलशोमहाघटः कटकः प्रतीतः / कर्करी स एव सविशेषः / पादकाञ्चनिका पादधावनयोग्या काञ्चनमयी पात्री उदको येनोदकं मुच्यते वा नी लन्तिका यद्यपि नामकोशे करककर्करीवार्द्वानीनां न कश्चिद्विशेषस्तथापीह संस्थानादिकृतो विशेषों लोकतोऽवसेय इति सुप्रतिष्ठकः पुष्पपात्रविशेषः पारी स्नेहभाण्डचषकः सुरापानपात्रं भृङ्गारः कनकालुकः शरको मदिरापात्रं पात्रीस्थले प्रसिद्ध दकवारको जलघटः विचित्राणि विविधचित्रोपेतानि वृत्तकानि भोजनक्षणोपयोगिघृतादिपात्राणि तान्येव मणिप्रधानानि वृत्तकानि मणिवृत्तकानि शुक्तिश्चन्दनाद्याधारभूता शेषा 'विट्ठरकरोडिनल्लकचपलितावमददगवारग' पीनकालोलतो विशिष्टसंप्रदायाद्वाऽवगम्याः काञ्चनमणिरत्नानां भक्तयो विच्छित्तयस्ताभिः चित्रा भाजनविधयो भाजनप्रकारा बहुप्रकारा एकैकस्मिन् विधाववान्तरा नेकभेदभावात्। तथैवेति पूर्ववत्। तेभृताङ्गा अपि द्रुमगणा “अणेगेति" पूर्ववत् / भाजनविधिनोपपेताः फ्लैः पूर्णा इव विकसन्ति / अयमर्थस्तेषां भाजनविधयः फ्लानीवशोभन्ते। अथवा इवशब्दस्य भिन्नक्रमेण योजना तेन फ्लैः पूर्णा भाजनविधिना वोपपन्ना दृश्यन्ते इति। अथतृतीयकल्पवृक्षस्वरूपमाह। तीसेणं समाए तत्थ तत्थ तहिं तहिं बहवे तुडिअंगा णाम दुमगणा पण्णत्ता। समणाउसोजहा से आलिंगमुइंगपणवपडहदद्दरगकरडिडिंडिमभभाहोरंभकणियखरमुहिमुगुदसंखिअपिरलीवचकपरिवाइणिवंसवेणुघोसविवंचिमहतिकच्छविभिरिआ तलतालकंसतालसुसंप उत्ता / आतोञ्जविहीनिउणगंधवसमयकुसलेहिं पदिआ तिहाणकरणसुद्धा तहेव ते तुडिअंगा वि दुमगणा / अणेगबहुविहवाससा परिणयाए ततविततघणसुसिराए आतोजविहीए उववेआ फ्लेहिं पुण्णा विव विसंष्टुंति कुसविकुसं जाव चिटुंतीति। यथा ते आलिङ्गयो नाम यो वादकेन मुरज आलिङ्गय वाद्यते हदिधृत्वा वाद्यते इत्यर्थः मृदङ्गोलघुमर्दलः पणको भाण्डपटहो लघुपटहो वा पटहः स्पष्टः दर्दरकः यस्य चतुर्मिश्चरणैरवस्थानं भुवि सगाधो चविनद्धो | वाद्यविशेषः / करटी सुप्रसिद्ध। डिमः प्रथमप्रस्तावनासूचकः पणवविशेषः भम्भा ढक्का निःस्वनानि इति संप्रदायः होरम्भा महाढक्का महानिःस्वनानीत्यर्थः / क्वणिता काचिद्वीणा खरमुखी काहली मुकुन्दो मुरजविशेषो / योऽतिलीनं प्रायो वाद्यते। शटिका लघुशङ्खरूपा तस्याः स्वरो मनाक् तीक्ष्णो भवति न तु शङ्खस्येवातिगम्भीरः पिरलीवच्चको तृणरूपवाद्यवि-- शेषौ। परिवादिनी सप्ततन्त्री विणा वंशः प्रतीतः वेणुवंशविशेषः / सुघोषा वीणाविशेषः विपञ्चीतितन्त्री वीणा महती सप्ततन्त्रिका सा कच्छपी भारती वीणा। रिगसिगिका घjमाणवादिनविशेषः। इति श्राद्धविधिवृत्तौ एते कथंभूता इति / तलं हस्तपुटं ताला: कांस्यतालाश्च प्रतीताः एतैः सुसंप्रयुक्ताः सुष्टु अतिशयेन सम्यग्यथोक्तनीत्या प्रयुक्ताः संबद्धाः यद्यपि हस्तपुट न कश्चित्तूर्यविशेषः तथापि तदुत्थितशब्दप्रतिकृतिः शब्दशब्दो लक्ष्यते। एतादृशा आतोद्यविधयस्तूर्यप्रकाराः निपुणं यथा भवन्ति एवं गन्धर्वसमये नाट्यसमये कुशलास्तैः स्पन्दिता व्यापारत इति भावः / पुनः किंविशिष्टा इत्याह। त्रिषु आदिमध्यावसानेषु स्थानेषु करणेन क्रियया यथोक्तवादनक्रियया शुद्धा अवदाता न पुनरस्थानव्यापारणरूपदोषलेशेनापि कलङ्किताः तत्र त्रुटिताङ्गा अपि द्रुमगणास्तथैव तथा प्रकारेण नत्वन्यादृशेन। ततंवीणादिकं विततं पटहादिकं घनं कांस्यतालादिकं सुषिरं वंशादिमेतद्रूपेण सामान्यतश्चतुर्विधेन आतोद्यविधिनोपपेताः शेष प्राग्वत् इति। अथ चतुर्थकल्पवृक्षस्वरूपमाहतीसेणं समाए तत्थ तत्थ तहिं तहिं बहवे दीवसिहा णामं दुमगणा पण्णत्ता ? समणाउसो जहा सेसं भाविसमए नवनिहिवइणो दीविआचक्कबालविंदपभूयवद्दिपलित्तणाहे धणिउज्जालिए ते मिरमद्दए कणगनिगरकु सुमिअपालिअत्त गवणप्पगासे कंचणमणिरयणविमलमहरिहतवणिज्नुज्जलविचित्तदंडाहिं दीविआहिं सहसा पजालि उस्सप्पिअनिद्धते अदिप्पंतविमलगहगणसमप्पहाहिं वितिपरकरसूरपसरिउजो अविल्लिआहिं जालुअलपहसिअमिरामाहिं सोभमाणाहिं सोभमाणं तहेव ते दीवसिहा वि दुमगणा अणेगबहुविविहवीससा परिणयाए उजोअविहीए उववेआ फ्लेहिं पुण्णा कुसविकुसंजाव चिट्ठतित्ति / तस्यां समायां दीपशिखा इव दीपशिखास्तत्कार्यकारित्वात्। अन्यथा व्याघातकालत्वेन तत्राग्नेरभावात् दीपशिखानामप्यसंभवात् / योजना प्राग्वत् / यथा तत्संध्यारूपो विरूद्ध उपरि समयवर्तित्वेन मन्दो रागस्तत्समये तदवसरेनवनिधिपतेश्चक्रवर्तिन इव ह्रस्वा दीपा दीपिकास्तासां चक्रवालं सर्वतः परिमण्डलरूपं वृन्दं कीदृगित्याह।प्रभूता भूयस्यः स्थूरा शिववर्तीया दशा यस्य तत्तथा / पर्याप्तः परिपूर्णः रोहस्तैलादिरूपो यस्य तत्तथा / धणिअमित्यर्थमुज्ज्वालितमत एव तिमिरमर्दकम्। पुनः किं विशिष्टमित्याह। कनकनिकरः सुवर्णराशिः कुसुमित च तत् पारिजातकवनं च पुष्पितसुरतरुविशेषवनंततोद्वन्द्वस्तत्प्रकाशः प्रभाआकारो यस्य तत्तथा / एतावता समुदायविशेषणमुक्तमिदानी समुदायसमुदायिनोः कथंचित् भेद इति ख्यापयन समुदायविशेषणमेव विवक्षुः समुदायिविशेषणान्याह / लोकेऽपि वक्तारो भवन्ति / यदि जन्ययात्रा महर्द्धिक जनैराकीर्णेति ( कंचणेत्यादि ) काभिः शोभमानमिति संबन्धः। कथंभूताभिः दीपिकाभिरत आह काञ्चनमणिरत्नमालाविमलाः स्वाभाविकागन्तुकमलरहिता महार्हा महोत्सवागः / तपनीयं सुवर्णविशेषस्तेनोज्वला दीप्ताः विचित्रवर्णा दण्डायासांतास्तथा ताभिः सहसा एककाल प्रज्वालिताश्च ता उत्सर्पिताश्च वर्तुत्सर्पणेन / तथा स्निग्धं मनोहरं तेजो यासांतास्तथा दीप्यमानो रजन्यां भास्वान् विमलोऽत्र धूल्याद्यपगमेन ग्रहगणो ग्रहसमूहस्तेन समा प्रभा यासां ता
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy