________________ चेइय 1238- अभिधानराजेन्द्रः-भाग 3 चेइय (17) अर्थदण्डत्वचिारःआनन्दस्य हि सप्तमाङ्गवचसा हित्वा परिव्राट्वरश्राद्धस्य प्रथितौपपातिकगिरा चैत्यान्तरोपासनाम्। अर्हचैत्यनतिं विशिष्य विहितां श्रुत्वा न यो दुर्मतिं, स्वान्तान्मुञ्चति नाश्रितप्रियतया कर्माणि मुञ्चन्तितम्॥६३|| (आनन्दमिति) हि निश्चितम्, आनन्दस्य आनन्दोश्रमणोपासकस्य, सप्तमाङ्गवचसा उपासकदशाङ्गवचनेन, तथा परिव्राट् वरः प्रधानो यः श्राद्धः अम्बडः श्रमणोपासकः, तस्य, प्रथिता प्रसिद्धा औपपातिकगिरौपपातिकोपाङ्गवाक्, तथा, चैत्यान्तरोपासनाम्--अन्यतीर्थिकचैत्यतत्परिगृहीतार्थचैत्योपासना, हित्वा त्यक्त्वा, स्थितस्येति शेषः, 'मत्प्रसूतिमनाराध्य'' इत्यन्नेव, अन्यथा भिन्नकर्तुकक्त्वाप्रत्ययानुपपत्तेः / अथवाऽन्तर्भूतण्यर्थत्वाद् हित्वेत्यस्य हापयित्वेत्यर्थः / एवं ह्यभिमतानभिमतविधानहापनयो रेक कर्तृत्वेन क्त्वाप्रत्ययानुपपत्तिः! अर्हचैत्यानामर्हत्प्रतिमानां, नतिं विशिष्य नामग्राहं विहितां कर्तव्यत्वेनोक्तां श्रुत्वा यो दुर्मतिं प्रतिभाऽनाराध्येति दुष्टमति न त्यजति, तम्, आश्रितस्यातिप्रियतयाऽत्यन्ताभीष्टतया, इवेत्यस्य गम्यमानत्वादुपमोत्प्रेक्षे / आश्रिताः प्रिया वस्य तत्तयेति व्याख्याने गुणप्रिय इत्यादाविव विशेषणपरनिपातः / कर्माणि ज्ञानावरणीयादीनि न मुञ्चन्ति / तत्र सप्तमाङ्गालापको यथा-"तते णं से आणंदे गाहावती समणस्स भगवओ महावीरस्स अंतिए पंचाणुवयस्स सत्त सिक्खावयं दुवालसविहं गिहिधम्म पडिवज्जइ, समणं भगवं महावीर वंदइ, णमंसइ, णमंसइत्ता एवं यदासीनो खलु मे भंते! कप्पइ अज्जप्पभिए अण्णउत्थिया वा अण्णउत्थियदेवयाणि वा अण्ण उत्थियपरिग्गहियाइ वा अरिहंतचेइआई वंदित्तएवा णमंसित्तए वा " प्रति०। ('सम्मत्त शब्दे तद्ग्रहणप्रस्तावे व्याख्या) ('आणंद' शब्दे द्वितीयभागे 106 पृष्ठे सूत्रमुक्तम्) अत्रान्ययूथिकपरिगृहीतचैत्यनिषेधे मिश्रितार्हचैत्यवन्दनादिविधिः स्फुट एव / न चात्र चैत्यशब्दार्थे ज्ञानं मूक्ति घटते / अर्हद्ज्ञानस्यान्यतीर्थिकपरिगृहीतत्वानुपपत्तेः, नापि साधुः, श्रुतवत् तस्यान्यपरिगृहीतत्वासिद्धेः / सिद्धौ वा स्वतीर्थिक एव सः। अन्यागमस्याप्यन्यपरिग्रहेणैव व्यवस्थितेः भृशंस दुर्बुद्धिपरिग्रहाच ब्रूमः। "तदन्यागममप्रमाणम्' इति वचनात्। अथ-''अण्णउत्थिया वा'' इत्यादिपदत्रयमेकार्थमेव " समणं वा माहणं वा'' इति पदद्वयवत्। अन्यथा'तेंसि असरणं च'' इत्याद्यनुपपत्तेः / तत्पदस्याव्यवहितपूर्वोक्तपदार्थपरामर्शकत्वात् चैत्यानामेव वाच्यव्यवहितपूवीक्तत्वात्तेषां दानाद्यप्रसङ्गेन तन्निषेधानुपपत्तेरिति चेत् / न / प्रशक्तानां त्रयाणां नत्यादेरवश्यनिषेध्यत्वात्पदत्रयस्यैकार्थताया वक्तुमशक्यत्वात, तेन तदा यावदुक्तपरामशस्यैवयुक्तत्वाच वस्तुतोऽव्यवहितप्राकालीनशाब्दोबोधापनुकूलव्यापारविषयत्वं वाच्यम् / तथा च -पूर्वमनालपितेनेत्यत्रान्यतीर्थिकै रित्यध्याहारस्यावश्यकत्वात् तेषामिति तत्पदेन त्वव्यवहितपूर्वोक्तान्यतीर्थिकपरामर्श युक्त इति मदुत्प्रेक्षां प्रमाणयन्तु प्रामाणिकाः / औपपातिकालापको यथा"अम्ममस्स णं णो कप्पइ अण्णउत्थिए वा अण्णउत्थियदेवयाणि वा अण्णउत्थियपरिग्गाहिआणि य अरिहंतचेइआणि वा वंदि-त्तिए वा णमंसित्तए वा जाव पञ्जवसित्तए वा एण्णत्थ अरिहंतेहिं वा / अरिहंतचेइआणि वा वंदित्तिए।"तवृत्तिर्यथा-"अण्णउत्थिए ति" अन्ययूथिका आई-त्समयापेक्षया ऽन्ये शाक्यादयः / "चेइआई त्ति" अर्हचैत्यानि जिनप्रतिमाः, "नन्नत्थ अरहंतेहिं व तिन कल्पते, इह योऽयं नेति प्रतिषेधः, सोऽन्यत्रार्हद्भ्यः, अर्हतो वर्जयित्वेत्यर्थः / न हि किल परिव्राजकवेषधारकोऽतोऽन्ययूथिकदेवतावन्दनादिनिषेधोऽर्हतामपि वन्दनादिनिषेधो मा भूदितिकृत्वा 'नन्नत्थ'' इत्यधीतम् अति। अत्रार्हचैत्येऽम्यडस्य "कण्ठ एव विहिता" इति न्यायाधनभिज्ञस्यापि सुज्ञानम् / इत्थं च सम्यक्त्वालापक एवार्हचैत्यानां वन्दननमस्करणयोर्विहितत्वात्पूजाद्याप्यधिकारिणां सिद्धमिति सिद्धान्ते स्फुटमर्हचेत्यपूजाविधानं न पश्यामः / सम्यक्त्वपराक्रमाध्ययने स्फुट फलानभिधानादिति लुम्पकमतं निरस्तम्। न पश्याम इत्यस्य स्वापराधत्वात्।न ह्यं स्थाणोरपराधः, यदेनमन्धो न पश्यतीति / सम्यक्त्वालापक एव सूक्ष्मदृष्टया दर्शनात्सम्यक्त्वपराक्रमाध्ययनेऽपि गुरुसाधर्मिकशुश्रूषाफलाभिधानेनैव पूजाफलाभिधनादिति भावनीयं सूरिभिः // 63 / / सुवर्णगुलिका / आह चप्रश्नव्याकरणे सुवर्णगुलिकासंबन्धनिर्धारणे, शस्ते कर्मणि दिग्द्यग्रहरहःख्यातौ तृतीयाङ्गतः। सम्यग्भावितचैत्यसाक्षिकमपि स्वालोनाज्ञाश्रुतौ, सूत्राच वयवहारतो भवति नः प्रीतिर्जिनेन्द्रे स्थिरा ||6|| प्रश्नव्याकरणे सुवर्णगुलिकायाः संबन्धनिर्धारणे सत्यसंबद्धस्यानभिधेयत्वात्संबन्धाभिधानस्यावश्यकत्वे वृत्तिस्थस्य तस्य सौत्रत्वादिति भावः। तथा तृतीयाङ्गतः स्थनाङ्गतः, शस्ते प्रशस्ते कर्मणि दिग्द्वयस्य पूर्वोत्तरदिगप्स्य, यो ग्रहः पुरस्कारः, तस्य यो रहःख्यातिस्तात्पर्यप्रतिपत्तिः, तस्यां, च पुनः, व्यवहारतः सूत्रात्सम्यग्भावितान्ययतनारूपवर्जनया सद्भावं प्रापितानि यानि चैत्यानि तानि साक्षीणि यत्रयस्यां क्रियायां, तथा स्वालेचना सुष्टु समीचीना याऽऽलोचना, तस्याः श्रुतौ विधिश्रवणे सति, नः श्रअस्माकं, प्रीतीजिनेन्द्र स्थापनाजिने स्थिरऽप्रतिपातिनीभवति, स्थपनाजिनस्य जिनेन्द्रत्वं भावजिनवत्सद्यःसमुपासनाफलदानसमर्थतयाऽव्याभिचारेणाध्यात्मिकभावाक्षेपकत्वादवसेयम्। तत्र तुर्याश्रवद्वारि-"सुवनगुलिआए त्ति' प्रतिके वृत्तिः-यथा सुवर्णगुलिकायाः कृते संग्रामोऽभृत्। तथाहि-सिन्धु-सौवीरेषु जनपदेषु विदर्भकनगरे उदायनस्य राज्ञः प्रभावत्या देव्याः सकाशे देवदत्ताभिधाना दारस्यभूत्। सा च देवनिर्मितां गोशीर्षचन्दनमयीं श्रीमन्महावीरप्रतिमा राजमन्दिरान्तर्वर्ति-चैत्यभवन-व्यवस्थितां प्रतिचरति स्म, तद्वन्दनार्थ च श्रावकः कोऽपि देशात् संचरन् समायातः, तत्र चागतोऽसौ रोगेणाऽपटुशरीरो जातः, तया च सम्यक् प्रतिचरितः / तुष्टेन च तेन सर्वकामिकमाराधितदेवतावितीर्णलिकाशतमदायि। तथाऽनया कुब्जा विरुपा, सरूपाभूयासमिति मनसि विभाव्य एका गुटिका भक्षिता, तत्प्रभावात् सा सुवर्णवर्णा जातेति सुवर्णगुलिका नाम्ना प्रसिद्धिमुपगता। तितोऽसौ चिन्तितवतीजाता मे रूपसंपद्, एतया च किं भर्तृविहीनया, तत्र तावदयं राजा पितृतुल्यो न कामयितव्यः शेषस्तु पुरुषमात्रमतः किं तैः?, तत् उज्जयिन्याः पतिं चण्डप्रद्योतराजं मनस्याधाय गुटिका भक्षिता, ततोऽसौ देववचनात्तां विज्ञाया तदानयनाय हस्तिरत्नमारुह्य तत्रायातः। आकारिता च तेन सा, तयोक्तम्-आगच्छमि यदि प्रतिमां नयसि, ते