________________ चुल्लहिमवंत 1201- अभिधानराजेन्द्रः-भाग 3 चुल्लहिमवंत णमवर्णको भणितव्यः, प्राग्वदित्यर्थ / 'तस्स ण" इत्यादि व्यक्तम्। "तेसिण" इत्यादि सर्व प्राग्वत्, नवरं (णाणामणिमये त्ति) वर्णकैकदेशेन पूर्णस्तोरणवर्णको ग्राह्यः। अथात्र पद्मस्वरूपमाह-"तस्सणं'' इत्यादि। तस्य पादहस्य बहुमध्यदेशभागे अत्रान्तरे महदेकं पा प्रज्ञासम्, एक योजनमायामतो, विष्कम्भतश्च अर्द्धयोजनं, बाहुल्येन पिण्डेन दश योजनान्युद्वेधेन जलावगाहेन द्वौ क्रोशावुच्छ्रितं जलान्ताज्जलपर्यन्तात् एवं सातिरेकाणि दश योजनानि सर्वाग्रण प्रज्ञप्तानि, जलावगाहोपरितनभागसल्ककमलमानमीलने एतावतामेव संभवात्। से णं एगाए जगईए सव्वओ समंता संपरिक्खित्ते जंबुदीवजगद्दप्पमाणा गवक्खकडए वितह चेव पमाणेणं।। 'सेण' इत्यादि। तत्पद्ममेकया जगत्या प्राकारकल्पया सर्वतः समन्तात् संपरिक्षितं, सा च जगती जम्बूद्वीपजगतीप्रमाणा वेदितव्या, एतच्च प्रमाणं जलादुपरिष्टाद् ज्ञेयं, दशयोजनात्मकजलावगाहप्रमाणस्याऽविवक्षितत्वात्। गवाक्षकटकोऽपि जालकसमूहोऽपि तथैव प्रमाणेनोद्यत्वेनार्द्धयोजनपञ्चधनुःशतानि विष्कम्भेणेत्यर्थः। अथ पद्मवर्णकमाहतस्स णं पउमस्स अयमेआरूवे वण्णावासे पण्णत्ते। तंजहावइरामया मूलां, क रिट्ठामए कंदे, वेरुलिआमए णाले वेरुलियानया काहिरपत्ता, जंबूणयमया अभिंतरपत्ता, तवणिज्जमया के सरा, णाणामणिमया पोक्खरच्छिसया, कणगमई कण्णिगा, सा णं अद्धजोअणं आयामविक्खंभेणं, कोसं वाहल्लेणं सव्वकणगामई अच्छा, तीसे णं कण्णिआए उप्पिं बहुसमरमणिजभूमिभागे पण्णत्ते, से जहाणामए आलिंग तस्स णं बहुसमरम णज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे भवणे पण्णते, कोसं आयामेणं, अद्धकोसं विक्खंभेणं, देसूणगं कोसं उद्धं उच्चत्तेणं अणेगखं भसयसण्णिविट्ठ जावपासाईदरसणिज्जे 5 तस्सणं भवणस्स तिदिसिं तओ दारा पण्णत्ता, ते णं दारा पंचधणुसयाइं उड्ड, अड्डाइजाई धणुसयाई विक्खंभेणं, तावतिअंचेव पवेसेण, से आवरकणगथूमिअंगा जाव वणमालाओ णेअव्वाओ, तस्स णं भवणस्स अंतो बहुसमरडणिजे भूमिभागे पण्णत्ते, से जहाणामए आलिंग० तस्स णं बहुमज्झदेसभाए एत्थं महईए गामणिपेढिआ पण्णत्ता, साणं मणिपेढिआ पंचधणुसयाई आयामविक्खंभेणं अड्डाइजाई धणुसयाईबाहुल्लेणं सव्वमणिमई अच्छा, तीसे णं मणिपेढिआए उगि एत्थ णं महं एगे सयणिज्जे पण्णते, सयणिज्जवण्णओ माणिअव्वो। (तस्स त्ति) तस्य पद्मस्यायमेतद्रूपो वर्णव्यासः प्रज्ञप्तः। तद्यथावज्रमयानि मूलानि कन्दादधस्तिर्यनिर्गतजटासमूहावयवरूपाणि, अरिष्टरत्नमयः कन्दो मूलनालमध्यवर्ती ग्रन्थिः, वैडूर्यमयं नालं कन्दोपरि / मध्यवर्त्यवयवः, वैसूर्यमयानि बाह्यपत्राणि। अत्राऽयं विशेषो बृहत्क्षेत्रविचारवृत्त्यादौबाह्यानि चत्वारि पत्राणि वैडूर्य मयाणि, शेषाणि रक्तसुवर्णमयानि जाम्बूनदमीषद्धक्तस्वणं, तन्मयानि अभ्यन्तरपत्राणि, सिरिनिलयमितिक्षेत्रविचारवृत्तौ तु-पीतस्वर्णमयान्युक्तानि, तपनीयमयानि रक्तस्वर्णमयानि, केसरकर्णिकायाः परितोऽवयवाः नानामणिमयाः पुष्करास्थिभागाः कमलवीजविभागाः, कनकमया कर्णिका वीजकोशः। अथ कणिकामानाद्याह-'"सा णं' इत्यादि। सा कर्णिका अर्द्धयोजनमायामेन, विष्कम्भेण च क्रोशं. बाहुल्येन पिण्डेन सर्वात्मना कनकमयी, अत एव कनकमयानि पूर्वापरविशेषणान्यवयवविभागेऽपि कनकमयत्वं स्यादित्याशङ्का निरस्ता। “अच्छा " इत्येकदेशेन "सण्हाइ'' इत्यादि पदान्यपि ज्ञेयानि। तेषां व्याख्या च प्राग्वत्। 'तीसे णं'' इत्यादि। एतानि सर्वाण्यपि निगदसिद्धानि। शयनीयवर्णकश्चायं जीवाभिगमोक्त:--"तस्स णं देवसयणिज्जस्स अयमेआरूवे वण्णावासे पण्णते। तं जहा–णाणामणिपडिपाया सोवण्णिआ पाया णाणामणिमयाई पायसासगाई जंबूणयमयाइं गत्ताइ वइरामया संधी णाणामणिमए विश्वे रययामई तूली लोहिअक्खमयाई विश्वो अणाइं तवणिजमईड गंडोवहाणियाय इति से णं सयणिज्जे सालिंगणवट्टिए उभओ विव्वोअणे उभओ उण्णए मज्झे णए गंभीरे गंगापुलिणवालु आउदालसालिसए उअविअखोम-दुगुल्लपट्ट-पडिच्छयणे आईणगरुपचूरणणीयतूलफासे सुविरइअरयत्ताणे रत्तंसुअभसंवुडे सुरम्मे पासादीए कए ति। अत्र व्याख्यातस्य देवशयनीस्यायमेतद्रूपो वर्णव्यासः प्रज्ञप्तः। तद्यथानानामणिमयाः प्रतिपादाः, मूलपादानां प्रति विशिष्टोपष्टम्भकरणाय पादाः प्रतिपादाः, सौवर्णिकाः सुवर्णमयाः पादा मूलपादाः, जाम्बूनदमयानि गात्राणि ईषादीनि, वज्रमया वज्ररत्नपूरिताः सन्धयः।, (नानामणिमए विच्चे इति) विचं नाम व्यूतं , विशिष्टं वातमित्यर्थः। रजतमया तूली, लोहिताक्षमयानि (विव्वोअणाइ त्ति)उपधानकानि, उच्छीर्षकाणीति यावत्, तपनीयमय्यो गण्डोपधानिकाः, गल्लमसूरकाणीत्यर्थः। तपनीयं सह आलिङ्गनवा शरीरप्रमाणेनोपथानेन यत् तत्तथा। उभयत उभौ शिरोऽन्तपादान्तावाश्रित्य "विव्दोअणे" उपधाने यत्र तत्तथा, उभयत उन्नतंमध्ये नतंच तत् नम्रत्वात् गम्भीरं च महत्वात् तत्तथा, गङ्गापुलिनवालुकाया अवदालो विदलनं पादादिन्यासे अधोगमनमिति तेन सा (सालिसइ ति) सदृशकं तथा (उअविअत्ति) विशिष्ट परिकर्मितं क्षौम कासिकं दुकूलं वस्त्रं, तदेव पट्टः, स प्रतिच्छादनमाच्छादनं यस्य तत्तथा। "आईणग'' इत्यादि प्राग्वत्। सुविरचितं रजसाणमाच्छादनविशेषोऽपरिभोगावस्थवा यत्र तत्तथा, रक्ताशुकेन मशकंदशादिनिवारणार्थकमशकगृहाभिधानवस्त्रविशेषेण संवृतमत एव सुरम्यम्, "पासादीए" इत्यादि पदचतुष्कं प्राग्वत्। अथास्य प्रथमपरिक्षेपमाहसे णं पउमे अण्णेण अट्ठसएण पउमाणं तदद्धचत्तप्पमाणमित्ताणं सव्वओ समंता संपरिक्खित्ते। तेणं पउमा अद्धजोअणं आयामविक्खं भेणं, कोसं बाहल्लेणं, दस जो अणाइं उब्वे हेणं, कोसं ऊसिआ जलंताओ साइरेगाई दस जोअणाई उच्चत्तेणं, तेसिणं पउमाणं अयमे आरूवे वण्णावासे पण्णत्ते / तं जहा-वइरामया मूला० जाव कणगामई क