SearchBrowseAboutContactDonate
Page Preview
Page 1151
Loading...
Download File
Download File
Page Text
________________ चरण 1127 - अभिधानराजेन्द्रः - भाग 3 चरणकरणाणुओग श्रुतज्ञाने, अपिशब्दान्मत्यादिष्वपि ज्ञानेषु, जीवो वर्तमानः सन्न प्राप्नोति मोक्षमित्यनेन प्रतिज्ञार्थः सूचितः / यः किंविशिष्ट इत्याहयस्तपः संयममयान् तपःसंयमात्मकान् योगान्न शक्नोति वोढुमित्यनेन हेत्वर्थः / “जे" इति पादपूरणे, “इजेराः पादपूरणे" ||8 / 3 / 217 / इति वचनात् / दृष्टान्तस्तु स्वयमभ्यूह्यः / वक्ष्यति वा प्रयोगः-न ज्ञानमेवेप्सितार्थप्रापक, सत्क्रियाविरहात्, स्वदेशप्रात्यभिलषितगमनक्रियाशून्यमार्गज्ञज्ञानवत् / सौत्रो वा दृष्टान्तःमार्गज्ञानिर्यामकाधिष्ठितोप्सितदिसंप्रापकपवनक्रियाशून्यपोतवत्। तथा चाहजह छेयलद्धनिजा-मगो वि वाणियगइच्छियं भूमिं / वाएण विणा पोतो, नचएइ महण्णवं तरिउं॥११४५॥ तह नाणलद्धनिजा-मगो वि सिद्धिवसहिं न पाउणइ। निउणो विजीवपोओ, तवसंजममारुयविहूणो।।११४६|| यथा येन प्रकारेण छेको दक्षो लब्धः प्राप्तो निर्यामको येन पोतेन स तथाविधः, अपिशब्दात् सुकर्णधाराद्यधिष्ठितोऽपि, वणिज इष्टा वणिगिष्टा, तां भूमि, महार्णवं ती, वातेन विना पोतो न शक्नोति, प्राप्नुमिति वाक्यशेषः। उपनयमाह-तथा श्रुतज्ञानमेव लब्धो निर्यामको येन जीवपोतेन स तथाविधः, अपिशब्दात् सनिपुणमतिकर्णधाराद्यधिष्ठितोऽपि संयमतपोनियमरूपेण मारुतेन विहीनो निपुणोऽपिजीवपोतो भवार्णवं तीर्खा सन्मनोरथवणिजोऽभिप्रेतां सिद्धिवसतिं न प्राप्नोति, तस्मात्तपः संयमानुष्ठाने खल्वप्रमादवता भवितव्यम्। तथा चात्रौपदेशिकमेव गाथासूत्रमाह - संसारसागराओ, उच्छूढो मा पुणो निवुड्डेजा। चरणगुणविप्पहीणो, वुडइ सुवहुं पि जाणंतो।।११४७।। अस्याः पदार्थो दृष्टान्ताऽभिधानद्वारेण प्रोच्यते। यथा नाम कश्चित्कच्छपः प्रचुरतृणपत्रपटलनिविड तमशैवलाच्छादितोदका-न्धकारमहाहदान्तर्गतो विविधानेकजलचरक्षोभादिव्यसनपरम्परा-व्यथितमानसः सर्वतः परिभ्रमन् कथमपि शैवालरन्ध्र मासाद्य तेनैव च तत उपरि विनिर्गत्य शरदिपार्वणचन्द्रचन्द्रिकास्पर्शसुखमनुभूय भूयोऽपि स्वबन्धुस्नेहाकृष्टचेतोवृत्तिस्तेषामपि तपः स्विनामदृष्टकल्याणानामहमिदं सुरलोककल्पं किमपि दर्शयामीत्यवधार्य तस्मिन्नेव हृदमध्ये निमनः, ततः समासादितबन्धुवर्गः तद्दर्शननिमित्तं विवक्षितरन्ध्रोपलब्धये पर्यटन् अपश्यश्च कष्टतरं व्यसनमनुभवति स्म, एवमयमपि जीवकच्छपोऽनादिकर्मपटलसन्तानाच्छादितान्मिथ्यादर्शनादितमोनुगताद् विविधशिरोनेत्रकर्ण वेदनाज्वरकुष्ठभगन्दरादिशरीरेष्टवियोगानिष्टसंप्रयोगादिमानसदुःखजलचरसमूहानुगतात्, संसरणं संसारो, भावे घञप्रत्ययः, स एव सागरस्तस्मात् परिभ्रमन् कथञ्चिदेव मनुष्यभवप्राप्तियोग्यकर्मोदयलक्षणं रन्ध्रमासाद्य मनुष्यत्वप्राप्तया उन्मनः सन् जिनचन्द्रवचनकिरणावबोधमासाद्यदुष्प्रापोऽयं जिनवचनबोधिलाभ इत्येवंजानानः स्वजनस्नेहविषयातुरचिन्तया मा पुनः कूर्मवत् तत्रैव निमज्जेत्। आहअज्ञानी कूर्मोऽतो निमजति, इतरस्तु हिताहितप्राप्तिपरिहारज्ञो ज्ञानी. ततः कथं निमज्जति ? तत आह-चरणगुणैर्विविधमनेकप्रकारं प्रकर्षण | हीनश्चरणगुणविप्रहीणस्ततः सुबह्वपि जानन् निमज्जति। आ० म०प्र० / आ० चू० / विशे० / पादे, वेदैकदेशशाखारूप ग्रन्थे, तदध्येतरि जने, गोत्रे, वाच० / केनापि यजमानेन वेदान्तर्गतग्रन्थविशेषाध्ययननिमित्तं चरणशब्दवाच्येभ्यश्चतुर्यो ब्राह्मणेभ्यः। विशे० / चतुर्णा चरणानां चतुर्वेदब्राह्मणानामिति / बृ०१ उ०। चरणकरणपरिहीण त्रि० (चरणकरणपरिहीन) व्रतादिना पिण्डविशु द्धयादिना च परिहीनः / मूलोत्तरगुणहीने, बृ०३उ०। चरणकरणपारविअ त्रि० (चरणकरणपारवित्) / चर्यते इति चरणं मूलगुणाः, क्रियत इति करणमुत्तरगुणाः, तेषां पारं तीरं पर्यन्तगमनं, तद्वेत्तीति चरणकरणवित् / मूलोत्तरगुणपारज्ञे, सूत्र०१ श्रु०१ अ० / चरणकरणयोरनुयोगश्चरणकरणानुयोगः / द्रव्या०२ अध्या०। चरणकरणाणुओग पुं० (चरणकरणानुयोग)। द्विचत्वारिंशदूषणरहितपिण्डग्रहणादौ, द्रव्या०। शुद्धान्नादिस्तनुर्योगो, महान् द्रव्यानुयोगजः। इत्थं षोडशकाद्ज्ञात्वा, विदधीत शुभादरम् / / 3 / / शुद्धान्नादिः शुद्धाहारग्रहणम्, अर्थाच्चरणकरणानुयोगाख्यो योगो द्विचत्वारिंशदूषणरहितपिण्डग्रहणो योगस्तनुर्लघुः कथितः, तथा द्रव्यानुयोगः स्वसमयपरसमयपरिज्ञान, तदाख्यो योगो द्रव्यानुयोगजो योगो महान् महत्तरः कथितः // 3 // द्रव्या०१ अध्या०। चरणकरणप्पहाणा, ससमयपरसमयमुक्कवावारा। चरणकरणस्स सारं, णिच्छियसुद्धं न याणंति॥१६४|| चरणकरणयोश्चारित्रात्मकत्वात् द्रव्यपर्यायात्मकजीवादितत्त्वावगमस्वभावरुच्यभावेऽभावादथ चरणकरणयोः सारं निश्चयेन शुद्ध सम्यग्दर्शन ते न जानन्ति न हि यथावस्थितवस्तुतत्त्वावबोधमन्तरेण तद्रुचिः / न च स्वसमयपरसमयतात्पर्यार्थानवगमे तदवगमे तदवबोधो वोटिकादिरिव संभवी / अथ जीवादिद्रव्यार्थपर्यायार्थापरिज्ञानेऽपि यदर्हद्विरुक्तं तदेवैक सत्यमित्येतावतैव सम्यग्दर्शनसद्भावः / “मन्नइ तमेव सच्च, णिस्संकं जं जिणे हि पन्नत्तं / " इत्याद्यागमप्रामाण्यान्न स्वसमयपरसमयपरमार्थानभिज्ञैर्निरावरणज्ञानदर्शनात्मकजिनस्वरुपाज्ञानवद्भिस्तदभिहितभावानां सामान्यरूपतयाऽप्यनवच्छेदेन सत्यस्वरूपत्वेन ज्ञातुमशक्यत्वात्, न त्वेवमागमत्रिरोधः, सामायिकमात्रपदविदो माषतुषादेर्यथोक्ताचारित्रिणस्तत्र मुक्तिप्रतिपादनात् सकलशास्त्रार्थज्ञता, विकलव्रतस्य व्रताद्याचरणनैरर्थक्यापत्तिश्च, तत्साध्यफलानवाप्तः / नच यथोपवर्णितचरणकरणसम्यगविकल्पे भवतो ज्ञानादितृतीयस्यापि तत्र पाठात् येन यथोदितचरणकरणप्ररूपणासेवमद्वारेण प्राधान्यादाचार्या स्वसमयपरसमयमुक्तव्यापारा न भवन्तीतिनोऽत्र संबन्धात् चरणकरणस्य सारं निश्चशुद्धं जानन्त्येव, गुर्वाज्ञायाः प्रवृत्तेः चरणगुणस्थितस्य साधोः सर्वनयविशुध्यभ्युपगमात्। “तं सव्वणयविसुद्धं, जंचरणगुणडिओ साहू" / इत्थाद्यागमप्रामाण्यात्, अग / तार्थस्तु स्वतन्त्रचरणप्रवृत्तेः व्रताद्यनुष्ठानस्य वैफल्यमभ्युपगम्यत एव, “गीयत्थो य विहारो, वीओ गीयस्थ मीसओ भणिओ।" इत्यागमप्रामाण्यात्। सम्म०३ काण्ड।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy