________________ चक्कवट्टि (ण) 1102 - अभिधानराजेन्द्रः - भाग 3 चक्कवट्टि (ण) वैमानिक निवासः, तुरगस्तोरणं गोपुरं च प्रसिद्धानि, मणिः चन्द्रकान्तादिरत्नः, कर्केतनादि, नन्द्यावर्तो नवकोणः स्वस्तिकविशेषः, मुशलं लागलं च प्रसिद्धं, सुरचितः सुष्टुकृतः सुरतिदो वा सुखकरो यो वरकल्पवृक्षः कल्पद्रुमः स तथा, मृगपतिः सिंहो, भद्रासनं सिंहासन, सुरुचिः रूढिगम्या आभरणविशेष इति केचित्, स्तूपः प्रतीतः, वरमुकुट प्रवरशेखरः, (सरिय त्ति) मुक्तावली, कुण्डलं कर्णाभरणं, कुञ्जरो वरवृषभश्च प्रतीतौ, द्वीपो जलवृतो भूदेशः, मन्दिरो मेरुः, मन्दरं वा गृहं, गरुमः सुपर्णः, ध्वजः, केतुः, इन्द्रकेतुरिन्द्रयष्टिः, दर्पणः आदर्शः, अष्टापदं द्यूतफलकं, कैलाशं पर्वतविशेषो वा, चापं धनुः, वाणो मार्गणः, नक्षत्रं मेघश्च प्रतीतौ, मेखला काञ्ची, वीणाः प्रतीता, युगं यूपः, छत्नं प्रतीतं, दाममाला दामिनी लोकरूढिगम्या, कमण्डलुः कुण्डि का कमलं घण्टा च प्रतीते, वरपोतो वोहित्थः, सूची प्रतीता सागरः समुद्रः, कुमुदाकरः कुमुदखण्डं, मकरो जलचरविशेषः, हारः प्रतीतः (गागर त्ति) स्त्रीपरिधानविशेषः, नूपुरं पादाभरणं, नगः पर्वतो, नगरं प्रतीतं, वैर वजं, किन्नरोवाद्यविशेषो, देवविशेषो वा, मयूरवरराज-हंससारसचकोरचक्रवाकमिथुनानि प्रसिद्धानि, चामरं प्रकीर्णक, खेमकं फलकं, पवीसकं विपञ्ची वाद्यविशेषो, वरतालवृन्त व्यजनाविशेषः, श्रीकाभिषेको लक्ष्याभिषेको लक्ष्याभिषेचन, मेदिनी पृथिवी, खङ्गोऽसिः, अडशः शृणिः, विमलकलशो शृङ्गरश्च भाजनविशेषो, वर्द्धमानकं शरावं, पुरुषारूढपुरुषो वा, एतेषां द्वन्द्वः तत एतानि प्रस्तानि मङ्गल्यानि उत्तमानि प्रधानानि विभक्तानि विविक्तानि यानि वरपुरुषाणां लक्षणानि तानि धारयन्ते ये ते तथा, तथा द्वात्रिंशता राजवराणां सहस्रैरनुजातोऽनुगतो मार्गो येषां ते तथा, चतुःषष्टिसमस्राणि यास तास्तथा ताश्च ताः प्रवरयुवतयश्च तरुण्य इति समासः, तासां नयनकान्ताः लोचनाभिरामाः, परिणयनभर्तारो वा, रक्ता लोहिता आभा प्रभा येषां ते रक्ताभाः, (पउमपम्ह त्ति) पद्मगर्भः कोरण्टकदाम कोरण्टकाऽभिधानपुष्पस्रक्, चम्पकः, कुसुमविशेषः, सुतप्तवकनकस्य यो निकषो रेखा स तथा, तत एतेषामिव वर्णो येषां ते तथा सुजतानि सुनिष्पन्नानि सर्वाण्यङ्गानि अवयवा यत्र तदेवंविधं सुन्दरमङ्गं येषां ते तथा, महानि महामूल्यानि वरपत्तनोद्गतानि प्रवरक्षेत्रविशेषोत्पन्नानि विचित्ररागाणि विविधरागरजितानि, एणी हरिणी, प्रेणी च तद्विशेष एव, तचर्मनिर्मितानि यानि वस्त्राणि तानि एणीप्रैणीनिर्मितान्युच्यन्ते, श्रूयन्ते च निशीथे"कालमृगाणि नीलमृगाणि च "इत्यादिभिर्वचनैः मृगचर्मवस्त्राणीति, तथा दुकूलानीति दूकूलो वृक्षविशेषस्तस्य वल्कंगृहीत्वा उदूखलजलेन सह कुट्टयित्वा वुशीकृत्य सूत्रीकृत्य यूव्यूयन्ते यानि तानि दुकूलानिवरचीनानीति दुकूलवृक्षवल्कवृक्षस्यैव यान्यभ्यन्तरं हीरेति निष्पाद्यन्ते सूक्ष्मतराणि भवन्ति तानि, चीनदेशोत्पन्नानि वा चीनान्युच्यन्ते, पट्टसूत्रमयानि पट्टानि कौशेयकानि कौशेयकरोद्भवानि वस्त्राणि, श्रोणीसूत्रकं कटिसूत्रकम्, एभिर्विभूषितान्यङ्गानि येषां ते तथा, वाचनान्तरे निर्मितस्थाने क्षौमिक इति पठ्यते-तत्र क्षौमिकाणि कार्पासिकानि वृक्षेभ्यो निर्गतानीत्यन्ये, अतसीमयानीत्यपरे, तथा वरसुरभिगन्धाः प्रधानमनोज्ञपुटपाकलक्षणा गन्धास्तथा वरचूर्णरूपा वासास्ताडिता इत्यर्थः / वरकुसुमानि च प्रतीतानि, तेषां भरितानि भृतानि शिरांसि मस्तकानि येषां ते तथा, कल्पितानि ईप्सितानि | छेकाचार्येण निपुणशिल्पिना सुकृतानि सुष्टु विहितानि रतिदानि सुखकारीणि, माला आभरणविशेषः, कटकानि कङ्कणानि, पाठान्तरेण कुण्डलानि प्रतीतानि, अङ्गदानि बाह्वाभरणविशेषाः, तुटिका बाहुरक्षिकाः, प्रवरभूषणानि च मुकुटादीनि, मालादीन्येव वा प्रवरभूषणानि, पिनद्धानि बद्धानि ये देहे येषां ते तथा, एकावलीविचित्रमणिका एकसरिकं कण्ठे गले सुरचिता वक्षसि हृदये येषां तेतथा, प्रलम्बो दीर्घप्रलम्बमानो लम्बमानः सुकृतः सुरचितः पटशाटकः उत्तरीयम् उपरि कायवस्त्रं यैस्ते तथा, मुद्रिकाभिरङ्गुलीयकैः पिङ्गलाः पिङ्गा अङ्गुल्यो येषां ते तथा, ततः कर्मधारयः, उज्ज्वल नेपथ्यं वेषो रचितं रतिदं वा (चिल्लगं ति) लीनं दीप्यमानं वा विराजमानं शोभमान येषां तेन वा विराजमानं वा ये ते तथा, तेजसा दिवाकर इव दीप्ता इति प्रतीतं, शारदं शरत्कालीनं यत् नवमुत्पद्यमानावस्थं स्तनित मेघगर्जितं तद्धन्मधुरो गम्भीरः स्निग्धश्च घोषो येषां ते तथा।वाचनान्तरे-“सागरनवेत्यादि" दृश्यते। उत्पन्नसमस्तरत्नाश्च ते चक्ररत्नप्रधानाश्चेति विग्रहः / रत्नानि च तेषां चतुर्दश। तद्यथा-"सेणावइ 1 माहावइ, 2 पुरोहिय 3 तुरंग 4 वड्डई 5 गय 6 इत्थी 7 / चक्कं 8 छत्तं 6 चम्म, 10 मणि 11 कागिणि 12 खग्ग 13 दंडो य 14 / " नवनिधिपतयः। निधयश्चैवम्-“निसप्पे १पंडु 2 पिडु 3 पिंगलय, सव्वरयणे 5 तहा महापउमे 6 / काले७य महकाले, माणवगमहानिही 6 संखे // 1 // " समृद्धकोशा इति प्रतीतं, चत्वारोऽन्ताःभूविभागाः पूर्वसमुद्रादिरूपा येषां ते तथा, त एव चात्तुरन्ता चतुर्भिरेशैर्हस्त्यश्वरथपादातिलक्षणैरुपेता वा तुर्य्यस्ताभिसमनुयायमानमार्गः समनुगम्यमानपन्थाः, एतदेव दर्शयति तुरगपतय इत्यादि, विपुलकुलाश्च ते विश्रुतयशसश्च प्रतीतः ख्यात इति विग्रहः, शारदशशी यः सकलपूर्णस्तद्वत् सौम्यं वदनं येषां ते तथा, शूरास्त्रैलोक्यनिर्गतप्रभावाश्च ते लब्धशब्दाश्च प्राप्तख्यातय इति विग्रहः, समस्तभरताधिपा नरेन्द्रा इति प्रतीत, सह शैलैः पर्वतैर्वननगरविप्रकृष्टः काननैश्च नगरासन्नैर्यत्तत्तथा, हिमवत्सागरान्तं धीरा भुक्त्वा भरतवर्ष जितशत्रयः प्रवरगजसिंहाः पूर्वकृततपः प्रभावादिति प्रतीतं, निर्विष्ट परिसिञ्चितं च पोषितं मुखं यैस्ते तथा, अनेकवर्षशतायुष्मतः भार्याभिश्च जनपदप्रधानाभिलाल्यमानाः विलास्यमानाः, अतुला निरुपमा ये शब्दस्पर्शरसरूपगन्धास्ते तथा स्तांश्चानुभूय तेऽपि आसताम् उपनमन्ति प्राप्नुवन्ति मरणधर्मे मृत्युलक्षणं जीवपर्यायं च अवितृप्ता अतृप्ता कामानामब्रह्माङ्गानाम्। प्रश्न०४ आश्र० द्वार। चम्पादिषु दश चक्रिणः प्रव्रजिताःएयासु णं दससुरायहाणीसु दस रायणो, मुंडा भवित्ता० जाव पव्वइया / तं जहा-भरहे सगरे मघवं सणंकुमारे संती कुंथू अरे महापउमे हरिसेणे जयनामे / / "तरुणा वेसित्थिविवा हरायमाईसु होइ सइकरणं / आउज्जगीयसद्दे, इत्थीसद्दे य सवियारे"।।१।। (एतास्विति) अनन्तरोदितासु दशस्वार्यनगरीषु मध्येऽन्यतरासुकासुचिद्दश राजानश्चक्रवर्तिनः प्रव्रजिता इत्येवं दशस्थानकेऽवतारस्तेषां कृतः / द्वौ च सुभूमबह्मदत्ताभिधानी न प्रव्र जितौ, नरकं च गताविति / तत्र भरतसगरी प्रथम द्वितीयौ चक्रवर्तिराजौ साकेते नगरे विनीतायोध्यापर्याये जाती, प्रव्रजितौ च / मघवान् श्रावस्त्याम, सनत्कुमारादयश्चत्वारो हस्तिनापुरे, महापद्मो वाराणस्याम, हरिषेणः काम्पिल्ये, जयनामा राजगृहे इति। न चैतासु