SearchBrowseAboutContactDonate
Page Preview
Page 1115
Loading...
Download File
Download File
Page Text
________________ चंदविकंप 1061 - अभिधानराजेन्द्रः - भाग 3 चंदविकप प्रक्षिप्यन्ते, जातानि द्वाविंशतानि एकविंशत्याधिकानि 2221, सूर्यविकम्पो द्वे योजने अष्टाचत्वारिंशदकेषष्टिभागा योजनस्य, तत्र द्वे योजने एकषष्टिभागकरणार्थमेकषष्ट्या गुण्येते, जातं द्वाविंशत्यधिकं शतं 122, तत उपरितना अष्टाचत्वारिंशदेकषष्टिभागाः प्रक्षिप्यन्ते, जातं सप्तत्यधिकं शतम् 170, एतेन पूर्वराशेर्भागो हियते, लब्धास्त्रयोदश, एतावन्तः सूर्यविकम्पा एकस्मिन् चन्द्रविकम्पे भवन्ति, शेषे तिष्ठन्तयेकादश एकषष्टिभागाः, एकस्य चैकषष्टिभागस्य सप्तधा छिन्नसय सत्काश्चत्वारो भागाः, द्वयाश्च चन्द्रमण्डयोरपान्तराले द्वादश सूर्यमार्गा भवन्ति, एकस्य सूर्यमार्गस्य सर्वाभ्यन्तरे एव मण्डले भावात् / एवं शेषेष्वपि चन्द्रमण्डलान्तेरेषु पूर्व-पूर्वचन्द्रमण्डलान्तरोद्वरितभागपरिमीलनेन यथोक्तसूर्यमार्गप्रमाणं परिभावनीयम् / भावयिष्यते चाऽयमर्थोऽग्रे स्वयमेव सूत्रकृतेति न प्रतिचन्द्रमण्डलान्तरभावना क्रियते, तदेवमुक्तं चन्द्रमण्डलान्तरेषु सूर्यमार्गप्रतिपादनार्थ करणम्। संप्रति सूर्यमण्डलान्तरपरिमाणं चन्द्रमण्डलान्तरपरिमाणं च प्रतिपादयतिवे जोयणाणि सूर-स्स मंडलाणं तु हवइ अंतरिया। चंदस्य वि पणतीसं, साहीया होइ नायव्वा॥ सूर्यस्य सवितुः सत्कानां मण्डलानां परस्परमन्तरिका अन्तरमेवान्तर्यम्, ब्राह्मणादित्वात् स्वार्थेष्यप्रत्ययः, ततः स्त्रीत्यविवक्षायां डीपप्रत्यये अन्तरी, अन्तर्येव आन्तरिका भवति द्वे योजने, चन्द्रस्य पुनरान्तरिका भवति ज्ञातव्या पञ्चत्रिंशत् योजनानि साधिकानि, पञ्चविंशत्योजनानि पञ्चविंशतिरेकषष्टिभागा योजनस्य, एकस्य च एकषष्टिभागस्य सप्तधा छिन्नस्य सत्काश्चत्वारो भागा इत्यर्थः / __ अधुना सूर्यविकम्प्स्य चन्द्रविकम्पस्य च परिमाणमाहसूरविकंपो एक्को, संमडला होइ मंडलंतरिया। चंदविकंपो य तहा, संमंडला मंडलंतरिया।। एकः सूर्यविकम्पो भवति मण्डलान्तरिका समण्डला। किमुक्तं भवति ? एकस्य सूर्यमण्डलान्तरस्य यत्परिमाणमेकसूर्यमण्डलपरिमाणसहितं तदेकस्य सूर्यविकम्पस्य परिमाणमिति। "चंदविकंपो य" इत्यादि। तथा तेनैव प्रकारेण चन्द्रविकम्पश्च मण्डलान्तरिका समण्डला, एकस्य चन्द्रमण्डलान्तरस्य यत्परिमाण तत् प्रागेवास्मभिरुक्तामिति / साम्प्रतमेकेनायनेन चन्द्रः सूर्यो वा यावत्प्रमाणं क्षेत्र तिर्यगाक्रामति तत्परिमाणमाहपंचेव जोयणसया, दसुत्तरा जत्थ मंडला होति। जं अक्कमेइ तिरियं, चंदो सुरो य अयणेणं / / यत् क्षेत्रं चन्द्रः सूर्यो या एकेना यनेन तिर्यगाक्रामति, यत्र चन्द्रमसः सूर्यस्य वामण्डलानि भवन्ति, तस्य क्षेत्रस्य परिमाणं पञ्च योजनशतानि दशात्तेराणि, नवरं चन्द्रमसमधिकृत्याष्टभिरेकषष्टिभागे न्यूनानि, तथाहि-एकस्मिन्नयने सूर्यविकम्पानाम्अशीत्यधिकं शतं भवति / एकैकस्य सूर्यवि-कम्पस्य परिमाणमेकषष्टिभागरूपं ससत्यधिकं शतम् 170, ततश्च त्र्यशीत्यधिकं शतमेकेन शतेन गुण्यते, जातान्येकत्रिंशत्सहस्राणि शतमेकं दशोत्तरम् 31110, तत एतेषां योजनानयनार्थमेकषष्ट्या भागो ह्रियते, लब्धानि पञ्च योजनशतानि 500, एतावत् | सर्वाभ्यन्तरान्मण्डलात्परत एकेनायनेन सूर्यस्तिर्यक्रक्षेत्रमाक्रामति, तथा एकस्मिन्नयने चन्द्रविकम्पाश्चतुर्दश, एकस्य च चन्द्रविकम्पस्य परिमाणं षट्त्रिंशत्योजनानि पञ्चविंशतिरेकषष्टिभागा योजनस्य, एकस्य चएकषष्टिभागस्य सप्तधा छिन्नस्य चत्वारोभागाः योजनराशिरेकषष्टिभागकरणार्थमेकषटष्ट्या गुण्यन्ते, जातान्येकविंशतिशतानि षण्णवत्यधिकानि 2166, तत उपरितनाः पञ्चविंशतिरेकषष्टिभागाः प्रक्षिप्यन्ते, जातानि द्वाविंशतिशतानि एकविंशत्यधिकानि 2221, चतुर्दश च सर्वसंख्यया चन्द्रमसो विकम्पाः, ततो द्वाविंशतिशतानि एकविंशन्यधिकानि चतुर्दशभिर्गुण्यन्ते, जातान्येकत्रिंशत्-सहस्राणि चतुर्नवत्यधिकानि 31064, येऽपि च एकस्य एकषष्टिभागस्य सप्तधा छिन्नस्य सत्काश्चत्वारो भागास्तेऽपि चतुर्भिर्गुण्यन्ते, जाताः षट्पञ्चाशत्, सप्तभिगि हृतेलब्धा अष्टौ, ते पूर्वराशौ प्रक्षिप्यन्ते, जातः पूर्वराशिरेकत्रिंशत्सहस्राणि शतमेकं व्युत्तरम् 31102, तेषां योजनानयनार्थमकषष्ट्या भागो हियते, लब्धानि पञ्चयोजनशतानि नवोत्तराणि त्रिपञ्चाशणैकषष्टिभागा योजनस्य 506,53/61 पञ्चयोजनशतानि दशोत्तराणि अष्टभिरेकषष्टिभागैहींनानीत्यर्थः। एतावत्सर्वाभ्य रान्मण्डलात्परत एकेना ऽयनेन चन्द्रस्तिर्यगक्षेत्रमाक्रामति, एवंरूपा च क्षेत्रकाष्ठा मूलटीकायामपि भाविता / तथा च तदग्रन्थः- "सूरस्स पंच जोयणसया दसाहिआ कट्ठा, सच्चेव अट्ठाहिं एकसट्ठिभागेहिं ऊणिया चंदकट्ठा हवइत्ति"॥ संप्रति काष्ठादर्शनतो विकम्पानयनार्थ करणमाहसगमंडलेहि लद्धं, सगकट्ठाओ हवंति सविकंपा। जे सगविक्खंभजुया, हवंति सगमंडलंतरिया / / चन्द्रमसः सूर्यस्य वा विकम्पाः कथम्भूता इत्याह-स्यकविष्कम्भयुताः स्वकमण्डलान्तरिकाः, स्वस्वमण्डलविष्कम्भसहितस्वस्वमण्डलान्तरिक रूपा इत्यर्थः। भवन्ति ते स्वकाष्ठातः, प्राकृतत्वात् षष्ठ्यर्थे पञ्चमी। स्वस्वविकम्पयोग्यक्षेत्रपरिमाणस्य स्वकमण्डलैः स्वस्वमण्डलसंख्यया भागेहृते यल्लब्धं तावत्प्रमाणाः स्वस्वविकम्पा भवन्ति / तथाहि-सूर्यस्य क्षेत्रकाष्ठा पञ्च योजनशतानि देशात्तराणि 510, तान्येव षष्टिभागकरणार्थमकषष्ट्या गुण्यन्ते, जातान्येकत्रिंशत्सहस्राणि शतमेकं दशोत्तम् 31110, सूर्यस्य मण्डलानि त्र्यशीत्यधिकं शतम् 183, ततो योजनानयनार्थ त्र्यशीत्यधिकं मण्डलं शतमेकषष्ट्या गुण्यते, जातान्येकादशसहस्राणि शतमेकं त्रिषष्ट्यधिकम् 11163, एतेन पूर्वराशेर्भागो ह्रियते, लब्धं द्वे योजने, शेषमुपरिष्टादुद्वरितसप्ताशीतिशतानि चतुरशीत्यधिकानि८७८४,ततः संप्रत्येकषष्टिभागा आनेतव्या इति अधस्ताच्छेदराशिस्त्र्यशीत्यधिकं शतं धूियते 183, तेन भागे हृते लब्धा अष्टाचत्वारिंशदेकषष्टिभागाः, एतावत्परिमाणमेकैकस्य सूर्यविकम्पस्य, तथा चन्द्रस्य तिर्यक्षेत्रकाष्ठा पञ्च योजनशतानि नवोत्तराणि त्रिपञ्चाशदेकषष्टिभागायोजनस्य 506:53, तत्र योजनान्येकषष्टिभागकरणार्थ मेकषष्ट्या गुण्यन्ते, जातान्येकत्रिंशतसहस्राणि एकोनपञ्चाशदधिकानि 31046, तत उपरितनास्त्रिपञ्चाशदेकषष्टिभागाः प्रक्षिप्यन्ते, जातान्येकत्रिंशतसहस्त्राणि शतमेकं व्युत्तरम् 31102, चन्द्रस्य चन्द्रण्डलानि सर्वबाह्यान्मण्डलादाक् चतुर्दश 14, ततो योजनानयनार्थ चतुर्दश एकषष्ट्या गुण्यन्ते, जांता--
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy