SearchBrowseAboutContactDonate
Page Preview
Page 1102
Loading...
Download File
Download File
Page Text
________________ चंदमंडल १०७८-अभिधानराजेन्द्रः भाग-३ चंदमंडल अथ सर्वाभ्यन्तरादिमण्डलायामाद्याह-- सव्वन्भंतरे णं भंते ! चंदमंडले केवइ आयामविक्खंभेणं केवइअ परिवखेवेणं पण्पत्ते ? गोयमा ! णवणउइं जोअणसहस्साइं छच चत्ताले जोअणसए आयामविक्खं भेणं तिणि अ जोअणसयसहस्साइं पण्णरस जोअणसहस्साइं अउणाणउतिं च जोअणाई किंचि विसेसाहिए परिक्खेवेणं पण्णत्ते / "सव्वभतरेणं" इत्यादि। सर्वाभ्यन्तरं भदन्त ! चन्द्रमण्डलं कियदायामविष्कम्याभ्यां कियत्परिक्षेपेण प्रज्ञप्तम् / गौतम ! नवनवति योजनसहस्राणि षट्चत्वारिंशदधिकानि योजनशतान्याया भविष्कम्भाभ्यां त्रीणि च योजनलक्षाणि पञ्चदशयोजनसहस्राण्यकोननवतिं च योजनानि किंचिद्विशेषाधिकानि परिक्षेपेण प्रज्ञप्तम्। उपपत्तिस्तूभयत्राऽपिसूर्यमण्डलाधिकारे दर्शिता। अथ द्वितीयम्अब्भंतराणंतरे सा चेव पुच्छा ? गोयमा ! णवणउई जोअणसहस्साई सत्त य वारसुत्तरे जोअणसए एगावणं च एगट्ठिभागे जोअणस्स एगट्ठिभागं च सत्तहा छेत्ता एगं चुणिआभागं आयामविक्खंभेणं तिण्णि अजोअणसय-सहस्साइं तिण्णि अ एगणवीसे जोअणसए किंचि विसेसाहिए परिक्खेवेणं / / "अभंतराणतरे" इत्यादि। अभ्यन्तरानन्तरे सैव पृच्छा सा सर्वाभ्यन्तरे मण्डले उत्तरसूत्रे / गौतम ! नवनवति योजनसहस्त्राणि सप्त द्वादशोत्तराणि योजनशतानि एकपञ्चाशतम् एकषष्टिभागान् योजनस्य एक चैकषष्टिभागं सप्तधा छित्त्वा एकं चूर्णिकाभागमायामविष्कम्भाभ्यां तथाहि-एकश्चन्द्रमा द्वितीये मण्डले संक्रामन् षत्रिंशद्योजनानि पञ्चविंशतिं चैकषष्टिभागान योजनस्य एकस्य एकस्य एकषष्टिभागस्य सप्तधा छिन्नस्य सत्कान चतुरो भागान् विमुच्य संक्रामति। अपरतोऽपि तावन्त्येव योजनानि विमुच्य संक्रामति उभयमीलने जातं द्वासप्ततियोजनानि एकपञ्चाशदेकषष्टि भागा योजनस्य एकस्य एकषष्टिभागस्य सप्तधा छिन्नस्य सत्क एकोनभागो द्वितीयमण्डले विष्कम्भाऽऽयामचिन्तायामधिकत्वेन प्राप्य ते इति / तच्च पूर्वमण्डलराशौ प्रक्षिप्यते जायते यथोक्तं द्वितीयं मण्डलाऽऽयामविकष्कम्भमानं त्रीणि योजनशतसहस्राणि त्रीणि चैकोनविंशत्यधिकानि योजनशतानि किञ्चिद्विशेषाऽधिकानि परिक्षेपेण द्वितीयं मण्डलं प्रज्ञप्तम् / उपपत्तिस्तु प्रथममण्डलपरिरये द्वासप्तति योजनादीनां परिरये त्रिंशदधिकद्वियोजनशतरूपे प्रक्षिप्ते सति यथोक्त मानम्। अथ तृतीयम्अभंतरतचे णे० जाव पण्णत्ता ? गोअमा ! णवणउइं जोअणसहस्साई सत्त य पंचासीए जोअणसए इयतालीसं च एगट्ठिभाए जोअणस्स एगद्विभागं च सत्तहा छेत्ता दोणिण अ 'चुण्णिआभाए आयामविक्खंभेणं तिण्णि अजोअणसय सहस्साई पण्णरसजोअणसहस्साइं पंच य इगुणापण्णे जोअणसए किंचि किसेसाहिए परिक्खेवेणं / "अब्भंतरचे णं" इत्यादि / अभ्यन्तरतृतीये चन्द्रमण्डले यावतूपदात् चंदमंडले केवइ आयामविक्खंभेणं केवइयं परिक्खेवेण इति ग्राह्यम्। उत्तरसूत्रे गौतम ! नवनवतियोजनसहस्राणि सप्त च पञ्चाशीत्यधिकानि योजनशतानि एकचत्वारिंशतं चैकषष्टिभागान् योजनस्य एकं च षष्टिभागं सप्तधा छित्त्वा द्वौ च चूर्णिकाभागावायामविष्करम्भाभ्याम्। अथद्वितीयमण्डलगत राशौ द्वासप्ततिं योजनान्येकपञ्चाशतं चैकषष्टिभागान् योजनस्य एकं च चूर्णिकाभाग प्रक्षिप्य यथोक्तं मानमानेतव्यं त्रीणि योजनलक्षाणि पञ्चदशयोजनसहस्राणि पञ्च चैकोनपञ्चाशदधिकानि योजनशतानि किंचिद्विशेषाधिकानि परिक्षेपेण इह पूर्वमण्डलं परिरयराशौ द्वे योजनशते त्रिंशदधिके प्रक्षिप्योपपत्ति: कार्या / (ज०) ज्यो०। अथ चतुर्थादिमण्डलेष्वतिदेशमाहएवं खलुएएणं उवाएणं णिक्खममाणे चंदे० जाव संकममाणे वावत्तरि वावत्तरि जोअणाई एगावणं च एगट्ठिभाग जोअणस्स एगट्ठिभागं च सत्तहा छेत्ता एग चुण्णिआभागं एगमेगे मंडले विक्खंभवुद्धिं अभिवुद्वेमाणे 2 दो दो तीसाइं जोअणमयाई परिरयवुड्डिं अभिवुकेमाणे 2 सव्वाहिरमंडलं उवसंकमित्ता चारं चरइ। “एवं खलु" इत्यादि पूर्ववत्। निष्क्रामेश्चन्द्रो यावत्पदात् “तयाणंतराओ मंडलाओ अणंतरमंडल" इति ग्राह्यम् / संक्रामन् संक्रामन द्वासप्ततिं 2 योजनानि। योजनान संख्या पदगता वीप्सा भागसंख्यापदेष्वपि ग्राह्या तेनैकपञ्चाशतम् एकपञ्चाशतं चैकषष्टिटभागान् योजनस्य एकं च एकषष्टिभागं सप्तधा छित्त्वा एकमेकं चूर्णिकाभागमेकैकस्मिन्मण्डले विष्कम्भवृद्धिमभिवर्द्धयन 2 द्वे द्वे त्रिंशदधिके योजनशते परिरयवृद्धिमभिवर्द्धयन् 2 सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरतीति / (जं०) ज्यो०। संप्रति पश्चानुपूर्त्या पृच्छतिसव्ववाहिरए णं भंते ! चंदमंडले केवइयं आयामविक्खं भेणं केवइअंपरिक्खेवेणं पण्णत्ते / गोअमा! एगंजोअणसयसहस्सं। छच्च सट्टे जोअणसयसहस्सं / छच्च सट्टे जोअणसए आयामविक्खंभेणं तिणि अजोअणसयसहस्साइं अट्ठारस-सहस्साई तिण्णि अ पण्णरसुत्तरे, जोअणसए परिक्खेवेणं / / “सव्ववाहिरए णं" इत्यादि / सर्वबाह्यं भदन्त ! चन्द्रमण्डलं कियदायामविष्कम्भाभ्यां कियत्परिक्षेपेण प्रज्ञप्तम्। गौतम! एक योजनलक्ष षट्षष्ठानि षट्षष्ट्यधिकानि योजनशतान्यायामविष्कम्भाभ्याम् उपपत्तिस्तु जम्बूद्वीपो लक्षम् उभयो: प्रत्येकं त्रीणि योजनशतानि त्रिंशदधिकानि उभयमीलने योजनाना षट्शतानि षष्ट्यधिकानीति। त्रीणि च पञ्चदशोत्तराणि योजनशतानि परिक्षेपण। अत्रोपपत्ति:-- जम्बूद्वीपपरिधौ षष्ट्यधिकषट्शतपरिधौ प्रक्षिप्ते भवति यथोक्तं मानम् / अथ द्वितीयम्वाहिराणंतरे णं पुच्छा? गोयमा! एग जोअणसयसहस्सं
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy