________________ चउरंग 1054- अभिधानराजेन्द्रः भाग-३ चउरंग त्यापकः तद्वत् स च न तथा तृणादिभिर्दीप्यते यथा घृतेनेति, अस्य घृतसिक्तस्य निर्वृतिरनुगीयते। ततः सविशेषणस्यास्य दृष्टान्तत्वेनाभिधानमिति भावनीयम् / यद्वा-निर्वाणमिति जीवनमुक्तिं याति "निर्जि तमदमदनानां वाकायमनोविकाररहितानां विनिवृत्तपराशानामिहैव मोक्षः सुविहितानामिति" वचनात् / कथंभूतः सन् घृतसिक्तपावक इव तपस्तेजसोज्ज्वलितत्वेन घृततर्पिताग्निसमान इति सूत्रार्थः / पटन्तिच नागार्जुनीयाः- “चउद्धा संपयं लडु, इहेव ताव भायते / तेयते तेजसंपन्ने, घयसित्ते व्व पावए त्ति" / / 1 / / तत्र च-चतुर्दा चतुःप्रकारां संपद संपत्तिं प्रक्रमान्मनुष्यत्वादिविषयां लब्ध्वा, इहैव लोके तावत्, आस्तां पस्त्र, भ्राजते ज्ञानश्रिया शोभते, तेजते दीप्यते तेजसा अर्थात्तपोजनितेन संपन्नो युक्तस्तेजः संपन्नशेषं प्राग्वदिति सूत्रार्थः / / 12 // इत्थमामुष्मिकमैहिकं च फलमुपदी शिष्योपदेशमाहविंगि च कम्मुणो हेळं, जसं संचिणु खंतिए। पाढवं सरीरं हिच्चा, उबु पक्कमई दिसं / / 13 / / (विंगि च ति) पृथक् कुरु , कर्मणः प्रस्तावान् मानुषत्वादिनिबन्धकरस्य हेतुम् उपादानकारणं मिथ्यात्याविरत्यादिकम्।तथा-यशोहेतुत्वाद्यशः सञ्जयो विनयो वा यदुक्तम्-"एवं धम्मस्स विणओ, मूलं परमों से मोक्खो। जेण कित्तिसुयं सिग्धं, णीसेसं चामिगच्छ” इति। तत्संचिनु भृशमुपचितं कुरु, कया ? क्षान्त्या उपलक्षणत्वान्मार्दवादिभिश्च, ततः किं स्यादित्याह-(पाढवंति) पार्थिवमिव पार्थिवं शीतोष्णादिपरीषहसहिष्णुतणा समदुःखसुखतया च पृथिव्यामिव भवम् पृथिवी हि सर्वसहा कारणानुरूपं च कार्यमिति श्रावः / यदि वा-पृथिव्या विकारः पार्थिवः स चेह शैलः ततश्च शैलेशीप्राप्त्यापेक्षयाऽतिनिश्चलतया शैलोपमत्वात्परप्रसिद्ध्या वा पार्थिव शरीरं तनुं हित्वा त्यक्त्वा ऊर्द्धदिशमिति सम्बन्धः प्रक्रामति प्रकर्षण गच्छति। येन भवानित्युपस्कारः। यद्वा-सोपस्कारत्वात् सूत्राणामेव नीयते एवं कुर्वन् भव्यजन्तुरूज़ दिशं प्रक्रामति / ततस्त्वमतिदृढचेता इत्थ मित्थं च कुरु इत्युपदिश्यते / 'प्रक्रामतीति च'वर्तमानसामीप्येन निर्देश आसन्नफलप्राप्तिसूचक इति सूत्रार्थः।। 13 // इत्थं येषां तद्भव एव मुक्त्यवाप्तिस्तान् प्रत्युक्तम्। येषां तुन तथा तान् प्रत्याहविसालसेहिं सीले हिं, जक्खा उत्तरउत्तरा। महासुक्का व दिप्पंता, मन्नता अपुणचवं / / 14 / / अप्पिया देवकामाणं, कामरूवविउव्विणो। उर्ल्ड कप्पेसु चिटुंति, पुव्वावाससया वहू / / 15 / / मागधदेशीयभाषया विसदृशैश्च स्वचारित्रमोहनीयकर्मक्षयोपशमापेक्षया विभिन्नैः शीलैव्रतपालनात्मकैरनुष्ठानविशेषैः किं इज्यन्ते पूज्यन्त इति यक्षाः, यान्ति वा तथाविधर्द्धिसमुदयेऽपि क्षयमिति यक्षाः ऊर्ध्व कल्पेषु तिष्ठन्ति इत्युत्तरेण सम्बन्धः / उत्तरोत्तरा उत्तरोत्तरविमानवासिनः / उत्तरो वा उपरितनस्थानवयुत्तरः प्रधानो येषु ते अमी उत्तरोतरा महाशुक्ला अतिशयोज्ज्वलतया चन्द्रादित्यादयः ते इव दीप्यमानाः प्रकाशमानाः अनेन च शरीरसंपदुक्ता / सुखसंपदमाह-मन्यमाना मनस्यवधारयन्तः शब्दादिविषयावाप्तिसमुत्पन्नरतिसागरावगाढतया अतिदीर्घस्थितितया वा किं न पुनश्च्यवनम् अपुनश्च्यवः तमर्थतिर्यगादिषूत्यत्यभावम्। यदुक्तम्-“मन्यमाना अपुनश्च्यवनमिति / 14 / / सूत्रोक्तमेव हेतुं सूत्रकृदाह-'अप्पिये' त्यादिना / अर्पिताः प्राकृत-सुकृतेन दौकिता इंव केषां काम्यन्तेऽमिलष्यन्त इति कामाः देवानां कामाः देवकामा दिव्याङ्गनास्पर्शादयः। कामरूपम् (विउव्विणो त्ति ) सूत्रत्वात् कामरूपविकरणा यथेष्टरूपाभिनिवर्तनशक्तिसमन्विताः / कुर्वन्ति हि ते उत्तरवैक्रियाणि समवसरणागमनादिषु तथा तथेति येऽपि प्रयोजनाभावान्न कुर्वन्ति तेषामपि शक्तिरस्त्येवेत्येवमुच्यते / ऊर्द्ध कल्पोपरिवर्तिषु प्रैवेयकेषु अनुत्तरविमानेषु च कल्पेषु सौधर्मादिषु, यदि वा-ऊर्द्ध उपरि कल्पन्ते विशिष्टपुण्यभाजामवस्थिति विषयतयेति, सौधर्मादयो ग्रैवेयकादयश्च सर्वेऽपि कल्पा एव तेषु तिष्ठन्ति आयुःस्थितिमनुपालयन्ति पूर्वाणि वर्षसप्ततिकोटिलक्षषट्पञ्चाशत्कोटिसहस्रपरिमितानि बहूनि, जघन्यतोऽपि पल्योपमस्थितित्वात् तत्राऽपि च तेषामसंख्येयानामेव संभवात्। एवं वर्षशतान्यपि यहूनि पूर्ववर्षशतायुषामेव चरणयोग्यत्वेन विशेषतो देशनौचित्यमितिख्यापनार्थमित्थमुपन्यास इति सूत्रार्थः // 15 // ___ तत्किमेषामेतावदेव फलमित्याशङ्कय आहतत्थ ठिचा जहाठाणं, जक्खा आउक्खए चुया। उर्वति माणुसं जोणिं,से दसंगेऽभिजायए।॥१६॥ तत्र तेषु उक्तरूपोत्पत्तिस्थानेषु स्थित्वेत्यासित्वा यथास्थानमितियद् यस्य स्वानुरूपमिन्द्रादिपदं तस्मिन् यक्षा आयुःक्षये स्वस्वजीवितावसाने च्युताः भ्रष्टाः ( उति त्ति) उपयन्ति मानुषाणामियं मानुषीतां योनिमुत्पत्तिस्थानम् / तत्र च "से" इति स सावशेषकुशलका कश्चिजन्तुर्दशाङ्गानि भोगोपकरणानि वक्ष्यमाणान्यस्येति, दशाङ्गोऽभिजायते एकवचननिर्देशस्तु विविसदृशशीलतया कश्चिदृशाङ्गः कश्चिन्नवाङ्गादिरपि जायत इति वैचित्र्यसूचनार्थः / यद्वा-'से' इति सूत्रत्वात् तेषां दशानामङ्गानां समाहारो दशाङ्गी प्राकृतत्वाच पुंसा निर्देशो जायते। उपभोग्यतयाऽभिमुख्येनोत्पद्यत इति सूत्रार्थः / / 16 // कानि पुनर्दशाङ्गानि इति?, आहखेत्तं वत्थु हिरण्णं च, पसवो दास पोरूसं। चत्तारि कामखंधाणि, तत्थ से उववज्जइ।। 17 // मित्तवं नायवं होई, उच्चागोए य वण्णवं / अप्पायंके महापन्ने, अभिजाए जसो वले // 18|| 'क्षि' निवासगत्योः, क्षियन्ति निवसन्त्यस्मिन्निति क्षेत्रम् ग्रामारामादि सेतुकेतूभयात्मकं वा। तथा वसन्त्यस्मिन्निति वास्तु खातोच्छ्रितोभयात्मकं वा / हिरण्यं सुवर्णम् / उपलक्षणत्वात् रूप्यादि च / पशवोऽश्वादयः / दास्यते दीयते एभ्यः इति दासाः पौष्यवर्गरूपास्ते च। (पौरुसं इति ) सूत्रत्वात्पौरुषेयं च पदातिसमूहः दासपौरुषेयं चत्वारः चतुःसंख्या। अत्र हि क्षेत्रं वास्त्विति चैकः / हिरण्यमिति द्वितीयः। पशवः इति तृतीयः / दासपौषेयमिति चतुर्थः / एते किमित्याह-काम्यत्वात्कामा मनोज्ञ शब्दादयः तद्धेतवः स्कन्धास्तत्तत्पुद्गलसमूहाः काम-स्कन्धा यत्र भवन्ति इति गम्यते / प्राकृतत्वाच्च न निर्देशस्तत्र तेषु कुलेषु ( से इति) स उत्पद्यते जायते अनेन वैक्रमग मुक्तम् / शेषाणि तु नवाङ्गान्याह-मित्राणि सहपांशुक्रीडितादीनि सन्त्यस्येति मित्रवान् / ज्ञातयः स्वजनाः सन्त्यस्येति ज्ञातिमान् भवति / उचैर्लक्ष्यादिक्षयेऽपि पूज्यतया गोत्र कुलमस्येत्युचैर्गोत्रः चः समुचये। वर्णः