________________ गोयरचरिया EE5 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया . "से भिक्खू वेत्यादि / स भावभिक्षुर्गृहपतिकुलं प्रविष्टः सन्या: पुनरौषधी: शालिबीजादिका एवंभूता जानीयात्। तद्यथा-(कसिणाओ त्ति) कृत्स्ना संपूर्णाः अनुपहताः / अत्र च द्रव्यभावाभ्यां चतुर्भङ्गिकातत्र द्रव्यकृत्स्ना अशस्त्रोपहताः, भावकृत्स्नाः सवित्ताः, तत्र कृत्स्ना इत्यनेन चतुर्भङ्गकेषु आद्यं भङ्गत्रयमुपात्तम्। (सासियाओ त्ति) जीवस्य स्व आत्मीय उत्पत्ति प्रत्ययो यासु ता स्वाश्रयाः, अविनष्टयोनय इत्यर्थः। आगमे च कासांचिदौषधीनामविनष्टयोनिकालः पठ्यते / तदुक्तम्"एतेसि णं भंते ! सालीणं के वइयं कालं जोणी संचिट्ठइ? इत्याद्यालापका / (अविदलकडाओ त्ति) न द्विदलकृता अद्विदलकृता अनूड़पाटिता इत्यर्थः। (अतिरिच्छच्छिण्णाओ त्ति) तिरश्चीनं छिन्ना: कन्दलीकृताः, तत्प्रतिषेधादतिरश्चीनच्छिन्नाः / एताश्च द्रव्यतः कृत्स्नाः, भावतो भाज्या: (आव्वोच्छिन्नाओ ति) व्यवच्छिन्नजीवरहिताः, न व्यवच्छिन्ना अव्यवच्छिन्नाः, भावत: कृत्स्ना इत्यर्थः। तथा (तरुणियं वा छिवाडि ति) तरुणीमपरिपक्वाम् (छिवाडि ति) मुद्गादेः फलिम् ! तामेव विशिनष्टि (अणभिकंताभज्जियं ति) न अभिक्रान्ता जीवितादनभिक्रान्ता, सचेतनेत्यर्थः। इति अभिजितामभग्राममर्दितामविराधिता मित्यर्थः। इति प्रेक्ष्य दृष्ट्वा तदेवंभूतमाहारजातमप्रासुकमनेषणीयं वा मन्यमानः लाभं सति न प्रतिगृह्णीयात्। साम्प्रतमेतदेव सूत्रं विपर्ययेणाऽऽहसे भिक्खूवा भिक्खुणी वा० जाव पविढे समाणे से जाओ पुण ओसहीओ जाणेजा-अकसिणाओ असासियाओ विदलकडाओ तिरिच्छछिण्णाओ अव्वोच्छिण्णाओ तरुणियं वा छिवाडि अभिकंतभज्जियं पेहाएफासुयं एसणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेजा। "से भिक्खू वा'' इत्यादि / स एव भावभिक्षुर्याः पुनरौषधीरवं जानीयात् / तद्यथा-अकृत्स्त्रा असंपूर्णा द्रव्यतो भावतश्च पूर्ववत्, अस्वाश्रयो विनष्टयोनयः, द्विदलकृता ऊर्द्धपाटिता:, तिरश्चीनच्छिन्ना कन्दलीकृताः, तथा तरुणिको वा फली, जीवितादपक्रान्तां भग्नां चेति, तदेवंभूतमाहारजातं प्रासुकमेषणीयं च मन्यमानो लाभे सति कारणे गृह्णीयादिति। ग्राह्याग्राह्य धिकार एवाऽऽहारविशेषमधिकृत्याऽऽहसे मिक्खू वा भिक्खुणी वा० जाव पविसमाणे से जाओ पुण जाणेज्जा-पिहुयं वा बहुरयं वा भजियं वा मधुं वा चाउलं वा चाउलपलवं वा सई संमंज्जियं अफासुयं अणेसणिजं मण्णमाणे लाभे संते णो पडिगाहेजा। "से भिक्खूवा" इत्यादि। स भावभिक्षुर्गृहपतिकुलं प्रविष्टः सन् इत्यादि पूर्ववद्यावत् (पिहुयं व ति) पृथकं, जातावेकवचनम् / नवस्य शालिव्रीह्यादेरग्निना ये लाजाः क्रियन्ते त इति, बहुरजस्तुषादिकं यस्मिंस्तद् बहुरजः। (भज्जियं ति) अग्नयर्द्धपक्वं गोधूमादेः शीर्षकम् अन्यद्वा तिलगोधूमादि, तथा गोधूमादेर्मन्थु चूर्ण , तथा चाउलास्तण्डुलाः शालिव्र ह्यादे:, त एव चूर्णीकृतास्तत्कणिका वा (चउलपलवं ति) तदेवंभूतं पृषुकाद्याहारजातं सकृदेकवारम् (संभनियंति) आमर्दितं किञ्चिदग्निना किश्चिदपरशस्त्रेणाप्रासुकमनेषणीयं मन्यमानो लाभे सति न प्रतिगृह्णीयात्। एतद्विपरीतं ग्राह्यमित्याहसे मिक्खू वा भिक्खुणीवा० जाव समाणे से जं पुण जाणेज्जापिहुयं वा जाव चाउलपलंवं वा असई भज्जियं दुक्खुत्तो वा भजियं तिक्खुत्तो वा भजियं फासुयं एसणिजं० जाव लाभे संते पडिगाहेजा। "से भिक्खू वा'' इत्यादि पूर्ववत्, नवरं यदसकृदनेकशोऽग्न्यादिना पक्वमामर्दितदुरभिपक्वादिदाषरहितं प्रासुकं मन्यमानो लाभे सति गृहीयादिति। आचा०२ श्रु०१अ० उ० (42) क्रीतप्रायादिसे भिक्खू वा भिक्खुणी वा० जाव पवितु समाणे से जं पुण जाणेजा-असणं वा पाणं वा खाइमं वा साइमं वा अस्सपडियाए एगं साहम्मियं समुहिस्स पाणाई भूताइंजीवाइं सत्ताई समारंभ समुहिस्स कीयं पामिधं अच्छेज्जं अणिसट्ठ अमिहडं आहट्ट वेइए ति तं तहप्पगारं असणं वा पाणं वा खाइमं वा साइमं वा पुरिसंतरकडं वा अपुरिसंतरकडं वा वहिया नीहडं वा अणीहडं वा अत्तट्ठियं वा अणत्तट्ठियं वा परिभुत्तं वा अपरिभुत्तं वा आसेवियं वा अणासेवियं वा अफासुयं वा० जाव णो पडिगाहेज्जा, एवं वहवे साहम्मिया एगं साहम्मिणिं वहवे साहम्मिणीओ समुद्धिस्स चत्तारि आलावगा भाणियव्वा / / ''से भिक्खू'' इत्यादि / स भिक्षुर्यावत् गृहपतिकुलं प्रविष्टः सन्नेवंभूतमाहारजातं नो प्रतिगृह्णीयादिति सम्बन्ध: (अस्सपडियाए त्ति) न विद्यते स्वं द्रव्यमस्य सोऽयमस्वः, भिम्रन्थ इत्यर्थः। तत्प्रतिज्ञया कश्चिद् गृहस्थ: प्रकृतिभद्रक एकं साधर्मिकं साधुं समुद्दिश्य निस्वोऽयमित्यभिसंधाय प्राणिनो भूतानि जीवा: सत्त्वाश्चैतेषां किञ्चिद्भेदात् भेदः, तान् समारभ्येत्यनेन मध्यग्रहणात्संरम्भसमारम्भा गृहीता:, एतेषां च स्वरूपमिदम्-"संकप्पो संरंभो, परियावकरो भवे समारंभो / आरंभो, उद्दवओ, सुद्धणयाणं तु सव्वेसिं / " इत्येवं समारम्भादि समुद्दिश्याधिकृत्य कर्म कुर्यादित्यनेन सर्वा विशुद्धिकोटिगृहीता / तथा क्रीतं मूल्यगृहीतं, (पामिचं) उच्छिन्नकम्, आच्छेद्यं परस्माबलादाच्छिन्नम्, (अणिसटुंति) अनिसृष्ट तत् स्वामिना अनुत्संकलितं, चोलकादि अभ्याहृतं गृहस्थेनाऽऽनीतं, तदेयंभूतं क्रीताद्याहृत्य (वेइए त्ति) ददात्यनेनापि समस्ता विशुद्धिकोटिहीता, तदाहारजातं चतुर्विधमपि तथाप्रकारमाधाकर्मादिदोषदुष्ट यो ददाति तस्मात् पुरुषादपर: पुरुषः पुरुषान्तरं, तत्कृतं वा, अपुरुषान्तरकृतं वा, तेनैव दात्रा कृतं, तथा-गृहान्निर्गतमनिर्गत वा, तथा-तेनैव दात्रा स्वीकृतमस्वीकृतं वा, तेनैव दात्रा तस्माद्बहु परिभुक्तम परिभुक्तं वा, तथा स्तोकस्वादितमनास्वादितं वा, तदेवमप्रासुकमनेषनीयं च मन्यमानो लाभे सति न प्रति गृह्णीयादित्येतत् प्रथमचरमतीर्थकृतोरकल्पनीयम्, मध्यतीर्थकराणां चान्यस्य कल्पत इति, एवं बहून साधर्मिकान् समुद्दिश्य प्राग्वद् वाच्यम् / तथा साध्वीसूत्रमष्येकत्वबहुत्वाभ्यां योजनीयमिति। आचा०२ श्रु०१ अ०१ उ०। (43) नौकागतम् - जे भिक्खू णावाउ णावागयस्स असणं वा पाणं वा