SearchBrowseAboutContactDonate
Page Preview
Page 912
Loading...
Download File
Download File
Page Text
________________ उवक्कमकाल 604 - अभिधानराजेन्द्रः - भाग 2 उवक्कमकाल यथा ज्वरादिरोगः यच साध्यं तदुपक्रम्यते (एत्तोचियत्ति) साध्यत्वादेव | साध्यरोगवदिति / अथवा प्रकारान्तरेण प्रमाणयन्नाह / / सज्झामयहेऊओ, सज्झनियाणासओहवा सज्झं। सोवक्कमणमयं पि व, देहो देहाइभावाउ / / अथवा सह उपक्रमेण वर्तते सोपक्रमणं वेदनीयादिकम् / साध्यमुपक्रमक्रियाविषयभूतं कर्मेति प्रतिज्ञा। उपक्रमश्च साध्यश्वासौ आमयश्व साध्यामयस्तद्धेतुत्वादिति हेतुः / यथा अयमेव प्रत्यक्षो देहः मण्डच्छेदादिद्वारेण देहोऽपि साध्यः उपक्रमक्रियाविषयः सोपक्रमश्चेति साध्यविकलत्वाभावो दृष्टान्तस्तस्य साध्यामयस्य च गण्डादिकारणत्वादेहस्य साधनविकलत्वस्याप्यभावः / अथवा हेतुत्वन्तरभावादन्यथा प्रमाणं सोपक्रमण साध्यं कर्मेति सैव प्रतिज्ञासाध्यनिदानाश्रयत्वादिति। अत्र निदानं कारणं साध्व-कर्मजनकंच निदानमपि साध्यमुच्यते साध्यं च तन्निदानं च साध्यनिदानं तस्याश्रयः साध्यनिदानाश्रयस्तद्भावः साध्यनिदानाश्रयत्वं तस्मात्साध्यनिदानाश्रयत्वात्साध्यनिदानजन्यत्वादिति भावः / निदानस्य साध्यत्वं कथं ज्ञायत इति चेदुच्यते साध्यकर्मजनकत्वात्कर्मणोऽपि साध्यत्वं कथमवसीयत इति / / चेदुच्यते उपक्रमान्यथानुपपत्तेरिति आह ननूपक्रमएव ह्यत्र साध्यस्ततस्तदसिद्धौ कर्मणः साध्यत्वं न सिध्यति तदसिद्धौ तु कर्मजनकस्यापि साध्यत्वासिद्धिरिति साध्यनिदानजन्यत्वादिति साध्य-त्वविशेषणासिद्ध्याऽसिद्धो हेतुरिति। सत्यं कित्वेवं मन्यते "जइनाणुभूइउचियखविज्जयकम्मेत्यादि" ग्रन्थोक्तयुक्तिभ्यः सिद्धमेव कर्मणः सोपक्रमत्वं ततस्तत्सिद्धौ कर्मणः साध्यत्वं सिध्यति तत्सिद्धौ च साध्यकर्मजनकतया तज्जनकनिदानस्यापि साध्यसिद्धिरिति / यद्येवं पूर्वोक्तयुक्तिभ्य एव सिद्धं कर्मणः सोपक्रमत्वमिह पुनरपि तत्साधनमपार्थक्यमिति चेत्सत्यं किंतु प्रपञ्चप्रियविनेयानुग्रहार्थत्वाददोषः / यदि वा कर्मणो निदानमध्यवसायस्थानान्येव तानि च विचित्रत्वेनासंख्येयलोकाकाशप्रदेशराशिप्रमाणान्यतस्तेषु मध्ये यथा निरुपक्रमजनकानि तथास्योपकर्मजनकान्यध्यवसायस्थानानि विद्यन्ते एवेति तद्वैचित्र्यान्यथानुपपतेरित्यादि युक्तितः साध्कर्म जनकनिदानस्य साध्यत्वं साधनीयं तत्सिद्धौ च तत्कार्यस्य कर्मणोऽपि साध्यत्वं सोपक्रमेणत्वं सिध्यतीत्यलं प्रपञ्चेन। यथा अयं देह इति स एव दृष्टान्तः अस्य च गण्डच्छेदादिद्वारेण छिद्यमानत्वात्सोपक्रमत्वमत एव साध्यनिदानजन्यता अतः साध्यसाधनधर्माभ्यासस्याविकलतेति। अथवा हेत्वन्यथात्वेनान्यथाप्रमाणं (देहादिभावाउत्ति) सोपक्रमणं साध्यमुपक्रमक्रियाविषयभूतं कर्मेति प्रतिज्ञा सैव देहादौ भावादादिशब्दाजीवे च भावादिति हेतुः देहे जीवे च किल वर्त्तते कर्म केवलं जीवे वढ्ययः पिण्डन्यायेन तस्य वृत्तिः देहे त्वाधाराधेयभावेन जीवो वर्तते तद्वारेण च कापीति यथायमेव प्रत्यक्षो देह इति स एव दृष्टान्तः / नन्वाधाराधेयभावेन देहस्यापि जीवे वृत्तिर्युक्ता देहस्य च देहे वृत्तिरिति एतत्कथम्। सत्यं सर्वे भावाः स्वात्मनि वर्तन्ते वस्त्वन्तरे चाधारे इति न्यायादेहस्यापि देहे वृत्तियुज्यत एव / अथवास्यौदारिकादिदेहस्य जीववत्कार्मणलक्षणेऽपि देहे वृत्तिः प्रतीतैवेति न देहादौ भावादिति साधनधर्मविकलतादृष्टान्तस्येति / अथ कर्मणः सोपक्रमत्वसिद्धावुपपत्त्यतराण्यप्याह! किंचिदकाले वि फलो, पाइज्जइ पचएण कालेण। तह कम्म पाइज्जइ, पाएण वि पचए वण्णं / / भिण्णो जहेह कालो, तुल्ले वि पहम्मि गइविसेसा उ। सत्थेव गहणकालो,गइमेहो भेयओ भिन्नो / / तह तुल्लम्मि वि कम्मे य, परिणामाइकिरिया विसेसा उ। भिण्णोणुभवणकालो, जेट्ठो मज्झो जहन्नो य / जह वा दीहा रज्जू, डज्झइ कालेण पुंजिए खिप्पं / वियओ पडो व्व सुस्सइ, पिंडीभूओ य कालेण। भागा य निरोवट्ठो, हीरइ कमसो जहा णदी खिप्पं / किरिया विसेसओ वा, समे विरोगे चिगिच्छाए। यथा किंचिदाम्रराजादनादिफलं यावता कालेन वृक्षस्थं क्रमेण पच्यते तदपेक्षया अर्वाक् कालेऽपि गर्तप्रक्षेपपललस्थगनाद्युपाये-त्र पाच्यते-- अन्यत्र वृक्षस्थमेवोपायाभावतः क्रमशः स्वपाककाले न पच्यते तथा काप्यायुष्कादिकं किमप्यध्यवसानादिहेतुभिर्बन्धकालनिर्वर्तितवर्षशतादिरूपस्थितिकालापेक्षया कालेनाप्यन्तर्मुहुत्तोदिना पाच्यते वेद्यतेऽनुभूय पर्यन्तं नीयत इति तात्पर्यम् अन्यानुबन्धकालनिर्वर्तितवर्षशतादिलक्षणस्थितिकालेनैव संपूर्णेन विपाच्यते अनुभूयत इति / अथवा यथेह तुल्येऽपि त्रियोजनादिके पथि त्रयाणां पुरुषाणां गच्छता प्रहरो द्वित्र्यादिलक्षणो गतिविशेषाद्भिन्नो गतिकालो विशिष्यते दृश्यते एवं कर्मणः तुल्यस्थितिकस्यापि तीव्रमन्दमध्यमाध्यवसायविशेषाज्जघन्यमध्यमोत्कृष्टलक्षणस्त्रिविधोऽनुभवनकालो भवति / यदिवा यथा तुल्येऽपि शास्त्रेऽध्येतॄणां मतिर्ग्रहणबुद्धिर्मेधा पुनरिडावधारणस्वरूपा गृह्यतेत दाविविधो ग्रहणस्य पठनस्य कालो भिन्नोऽनेकरूपो विलोक्यते एवमायुषोऽपि परिणामविशेषात्तुल्य स्थितिक स्थाप्यनेकरूपोऽनुभवनकाल इति / पथि शास्त्रदृष्टान्तयोः प्रकृतयोजनामाह / (तहतुल्लम्मिवीत्यादि) गतार्थव नवरं (परिणामाइ किरियाविसेसाओत्ति)परिणामोऽध्यवसानमादिशब्दादबाह्यदण्डकशस्वादयो गृह्यन्ते क्रिया च परिणामादिलक्षणा परिणामादयश्च क्रिया च परिणामादिक्रियास्तद्विशेषास्त दा बहुभिस्तुल्यस्थितिके बद्धेऽपि कर्मणि भिन्न एवानुभवनकाल इति यथा दीर्घा प्रसारिता रञ्जुरेकस्मात्पक्षात्क्रमेण ज्वलन्ती प्रभूतेनैव कालेन दह्यते पुञ्जीकृता तु पिण्डिता तु ज्वलन्ती क्षिप्रं शीघ्रमेव भस्मी भवति / एवं कर्माप्यायुष्कादिकं दीर्घकालस्थितिकं प्रतिसमयं क्रमेण वेद्यमानं चिरकालेन वेद्यते अपवर्त्य पुनर्वद्यमानमल्पेनैव कालेन वेद्यत इति। यथा वा जलार्द्रः पिण्डीभूतः। पटश्चिरकालेन शुष्यति विततः प्रसारितः पुनरल्पेनैव कालेन शुष्यत्येवं कर्मापीत्युपनयस्व (यथैवेति) यथा वा लक्षादिकस्य महतो राशेर्निरपवर्तनोऽपवर्तनोपवर्त्तनारहितो भागःक्रमशश्चिरेण हियते अन्यथा पुनरपवर्तनायां विहितायां क्षिप्रं शीघ्रमेवापहियते / तथाहि किल लक्षप्रमाणस्य राशेर्दशभिर्भागो हरणीयः स च यद्यपवर्तनामन्तरेण हियते तदा महती वेला लगति यदि तु गुणस्य लक्षस्य गुणकारकस्य च दशलक्षस्य पञ्चभिरपवर्त्तना विधीयते पञ्चभिर्भागो हियत इत्यर्थः तदा शीघ्रमेव हियते भागो लक्षस्य हि पञ्चभिर्भाग हृते लब्धानि विंशतिसहस्राणि दशानां तु पञ्चभिर्भागे हृते लब्धी द्वौ एताभ्यां विंशतिसाहसिकस्य लघुराशेगि हृते झटित्येव दशसहस्राण्यागच्छन्ति अनपवर्तितैस्तुदशभिरनपवर्तितस्यैव लक्षस्यैव दी? भागापहारकालो भवति एवमायुषोऽप्यनपवर्तितस्य तु लघुरसाविति यथा वा समेऽपि कुष्ठादिके रोगे क्रियाविशेषाचिकित्साया रोगनिग्रहलक्षणायाः कालभेदा भवत्येवमायुषोऽपीति। तदेवं सप्रसङ्गो द्विविधोऽप्युक्त उपक्रमकालः / / विशेगा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy