________________ उवओग 586 - अभिधानराजेन्द्रः - भाग 2 उवओग दर्शनमेतदुच्यते पर्यायास्तिकस्य तु विशेष एव वस्तु स एव गृह्यते येन तज्ज्ञानमधीयते ग्रहणं विशेषितमिति विशेषग्रहणमित्यभिप्राययोरप्यनयोर्नययोरेकं प्रत्येकमर्थपर्यायोऽर्थविषयं पर्येत्यवगच्छति यः सोऽर्थपर्याय ईदृग्भूतार्थग्राहकत्वमित्यर्थः / उपयोगस्य चानाकारसाकास्तेसामान्यविशेषग्राहकेएते चत्वारस्तत्राभिधीयतेनविद्यमान आकारोभेदो ग्राह्यस्यास्येत्यनाकारोदर्शनमुच्यते सहाकाराह्यभेदैर्वर्तते यद्ग्राहकं तत्साकारं ज्ञानमित्युच्यते / अनाकारसाकारोपयोगी तूपसर्जनीकृततदितराकारौ स्वविभासकत्वेन प्रवर्तमानौ प्रमाणं नतु निरस्तेतराकारौ तथाभूतवस्तुविषयाभावेन निर्विषयतया प्रमाणत्वानुपपत्तेरितरांशविकल्पैकांशरूपोपयोगसत्तानुपपत्तेश्च तेनैकान्तवाद्यभ्युपगमो बोधमात्रं प्रमाणं साकारो बोधोऽनधिगतार्थाधिगन्तृत्वविशिष्टः स एव ज्ञातृव्यापारोऽर्थदृष्टताख्यफलानुमेयोऽसंवेदनाख्यफलानुमेयो वाऽनधिगतार्थो विगत इन्द्रियादिसंपाद्यो व्यभिचारादिविशेषणविशिष्टार्थोपलब्धिजनिका सामग्री तदेकदेशो वा बोधरूपो वा साधकत्वात्प्रमाणमित्यादिरूपोऽयुक्तः। निराकारस्य केवलबोधरूपस्य ज्ञानस्यैव प्रामाण्यमिति विज्ञानवादिनोऽन्ये च स्वस्वस्थाने स्वस्वमतमुद्भाव्य परास्ता भविष्यन्ति / सम्म० / (तदेतत्संमतितर्कत एव विज्ञेयमिहापि यथावसरं किञ्चिद्वक्ष्ये) सामान्यविशेषात्मके च प्रमाणप्रमेयरूपे वस्तुतत्वे व्यवस्थिते द्रव्यास्तिकस्यालोचनमात्रं विशेषाकारत्यागिदर्शनं यत्तत्सत्वमितरस्य तु विशेषाकारसामान्याकाररहितं यज्ज्ञानं तदिव पारमार्थिकमभिप्रेतं प्रत्येकमेषोऽर्थपर्याय इति वचनात् प्रमाणं तु द्रव्यपर्यायौ दर्शनज्ञानस्वरूपावन्योऽन्यावनिर्भागवर्तिनाविति दर्शयन्नाहदव्वढिओ वि होऊण,दंसणे पञ्जवढिओ होइ। उवसमिआई भावं, पडुच णाणे उ विवरीयं / / अस्यास्तात्पर्यार्थः दर्शनेऽपि विशेषांशोन निवृत्तोनापि ज्ञानेसामान्यांश इति द्रव्यास्तिकोऽपीति आत्मा द्रव्यार्थरूपः सभूत्वा दर्शने सामान्यात्मके स ह्यात्मा चेतनालोकमात्रस्वभावो भूत्वा तदैव पर्यायास्तिको विशेषकरोऽपि भवति यदा हि विशेषरूपतयाऽऽत्मा संपद्यते तदा सामान्यस्वभावं परित्यजन्नेव विशेषाकारश्च विशेषावगमस्वभाव ज्ञानं दर्शनसामान्यपर्यालोचने प्रवृत्तोऽप्युपात्तज्ञानाकारो न हि विशिष्टन रूपेण विना सामान्यं संभवति एतदेवाह औपशमिकादिभावं प्रतीत्येति औपशमिकक्षायिकक्षायोपशमिकादीन् भावान् अपेक्ष्य विशेषरूपत्वेन ज्ञानस्वभावात् वैपरीत्यं सामान्यरूपतां प्रतिपद्यते विशेषरूपः सन् स एव सामान्यरूपोऽपि भवति नास्ति सामान्य विशेषविकलं वस्तुत्वात् शिवकादिविकलमृत्त्ववत् विशेषा वा सामान्य विकला न सन्ति असामान्यत्वात् मृत्त्वरहितशिवकादिवदत्र च सामान्यविशेषात्मके प्रमेयवस्तुनितदग्राहि प्रमाणमपि दर्शनज्ञानरूपं तथाऽपि छद्मस्थोपयोगस्वाभाव्यात् कदाचिज्ज्ञानोपसर्जनो दर्शनोपयोगः कदाचित्तु दर्शनोपसर्जनो ज्ञानोपयोग इति क्रमेण दर्शनज्ञानोपयोगौ / क्षायिके तु ज्ञानदर्शने युगपद्धर्तिदीपमिति दर्शयन्नाह सूरिः। मणपज्जवणाणस्स यं, दरिसणस्सय विसेसोय। केवलणाणं पुण दंसणंति नाणंति य समाणं / / मनः पर्यायज्ञानं मनःपर्यवसानं यस्याविश्लेषस्य स तथोक्तः ज्ञानस्य च दर्शनस्य च विश्लेषः पृथग्भावः मत्यादिषु चतुषु ज्ञानदर्शनोपयोगी क्रमणे भवत इति यावत् / तथाहि चक्षुरचक्षुरवधिज्ञानानि चक्षुरचक्षुरवधिदर्शनेभ्यः पृथक्कालानिछद्मस्थोपयो-गात्मकज्ञानत्वात् श्रुतमनः पर्यायज्ञानवत्वाक्यार्थविशेषविषयं श्रुतज्ञानं मनोद्रव्यविशेषालम्बनं च मनः पर्यायज्ञानमेतद् द्वयमप्यदर्शनस्वभावं मत्यवधिज्ञानदर्शनोपयोगात् भिन्नकालं सिद्ध केवलज्ञानं पुनः केवलाख्यो बोधो दर्शनमिति चाज्ञानमिति वाऽन्यत्केवलं तत्समानकालं द्वयमपि युगपदेवेति भावः / / सम्म०। (अत्र बहु वक्तव्यं तच्च ग्रन्थविस्तरभयन्नोच्यते किंतु विशेषजिज्ञा-सुना सम्मतितर्कत एव समवलोकनीयम्) सिद्धः साकारोपयोग एव सिध्यतीति केवलस्य साकारत्वात् यौगपद्यम्। कथं पुनरसौ साकारोपयोग एव सिध्यतीत्याह। सव्वाओ लद्धीओ, जं सागारोवओगतो भाओ। तेणेह सिद्धलद्धी, उप्पञ्जइतवउत्तस्स। प्रतीतार्थव / एतच साकारोपयोगवर्तमानः सिध्यतीति विशेशेणं प्रज्ञापनायां विहितम्। अनेन चात्र केवलसाकारोपयोगे ये विप्रतिपद्यन्ते साकारानाकारोपयोगयोः सिद्धस्य युगपदभ्युपगमात्ते निरस्ताः अत एवाह। एवं च गम्मइ धुवं, तरतमजोगोवओगया तस्स। जुगवोवओगभावे, साकारविसेसणमुहुत्तं / / एवं च साकारोपयोगविशेषणाद्गम्यते किमत आह / ध्रुवं निश्चितं तरतमयोगोपयोगता सिद्धस्य अन्यस्मिन्काले तस्य साकारोपयोगोऽन्यत्र चानाकारोपयोग इति। अन्यथा बाधामाह। युगपदुपयोगभावे साकारविशेषणं प्रज्ञापनोक्तमयुक्तमेव स्यादिति / अत्र परमतमाशक्यपरिहरन्नाह। अहव मई सवं विय, सागारं से तओ अदोसो त्ति। नाणंति दसणंति य, न विसेसो तं च नो जम्हा।। सागारमणागार, लक्खणमेयंति भणियमिह चेव। तह नाणदसणाई, समए बीसुं पसिद्धाई। अथ मतिः परस्य सर्वमेव(से) तस्य सिद्धस्य ज्ञानं दर्शनं वा साकार ततः साकारोपयोगविशेषणे अदोष एव स्वरूपविशेषणत्वात्तस्यः। यदपि केवलज्ञानं केवलदर्शनं च तस्योच्यते तस्यापि तयोनिविशेष इत्यभिप्रायवता प्रोक्तं स्तुतिकारेण एवं कल्पितभेदमप्रतिहतं सर्वज्ञतालाञ्छनं सर्वेषां तमसां निहन्तृजगतामालोकनं शाश्वतं नित्यं पश्यति बुध्यते च युगपन्नानाविधानि प्रभास्थित्युत्पत्तिविनाशवन्ति विमलद्रव्याणि तत्केवलं तच न युक्तं यस्मात्साकारमनाकारं च लक्षणं सिद्धानामितीहैव पुरतो भणितं वर्तते यद्वक्ष्यति "असरीरा जीवघणा, उवउत्ता दंसणेय नाणे य / सागारमणागारं, लक्खणमेयं तु सिद्धाणं" इति। तदनयोः साकारनाकारलक्षणयोर्भेदेनोक्तत्वात्कथमुच्यते सर्वमेव तस्य साकारमिति भावः / तथा समये सिद्धान्ते विष्वक्पार्थक्येन ज्ञानदर्शने सिद्धानां तेषु तेषु स्थानेषु प्रसिद्ध अतः कथं तयोरविशेषः उच्यत इति हृदयम्। तद्विशेषे हि बहवो दोषाः के इत्याह। पत्तेयावरणत्तं, इहरा वारसविहोवओगोय। नाणं पंचवियप्पं, चउव्विहं दंसणं कत्तो / / इतरथा केवलज्ञानदर्शनयोरेकत्वे प्रत्येकावरणत्वं केवलज्ञानावरणके वलदर्शनावरणं चेति प्रत्येकमावरणं तयोः कुतो घटते नोकस्य द्वे आवरणे युज्येते ततः प्रत्येकावरणनिर्देशात्केवलज्ञा-- नदर्शनयोर्भेद एवेति भावः। तथा साकारोऽष्टधा अनाकारस्तु च