________________ उप्पत्तिया 854 - अभिधानराजेन्द्रः - भाग 2 उप्पत्तिया ग्रामलोकः / स्वगृहे भोजनाय भुक्तवा च समागतः शिलाप्रदेशे प्रारब्धं तत्र कर्म कतिपयदिनैश्च निष्पादितः परिपूर्णो मण्डपः / कृता च शिला तस्य आच्छादनं निवेदितं राज्ञे राजनियुक्तैः पुरुषैर्देवनिष्पादितो ग्रामेण देवादेशः। राजा प्राह कथमिति ततस्ते सर्वमपि मण्डपनिष्पादनप्रकार कथयामासुः। राजा पप्रच्छ कस्येयं बुद्धिस्ते ऽवादिषुर्देव ! भरतपुत्रस्य एषारोहकस्य औत्पत्तिकी बुद्धिः / एवं सर्वेष्वपि संविधानकेषु योजनीय ततो भूयोऽपि राजा रोहकबुद्धिपरीक्षार्थ मेढकमेकं प्रेषितवान् / एष यावत्पलप्रमाणः संप्रति वर्तते पक्षातिक्रमेऽपि तावत्पलप्रमाण एव समर्पणीयो न न्यूनो नाप्यधिक इति तत एवं राजादेशे समागते सतिसर्वोऽपि ग्रामो व्याकुलीभूतचेता बहिः सभायामेकत्र मिलितवान् सगौरवमाकारितो रोहकः आभाषितश्च ग्रामप्रधानैः पुरुषैः वत्स ! प्राचीनमपि दुष्टरा-जादेशसिन्धुं त्वयैव निजबुद्धिसेतुबन्धेन समुत्तारितः सर्वोऽपि ग्रामः। ततः संप्रत्यपि प्रगुणीकुरु निजबुद्धिसेतुबन्धेनास्यापि दुष्टराजादेशसिन्धोः पारमधिगच्छाम इति। तत उवाच रोहको वृकं प्रत्यासन्नं धृत्वा मेण्टकमेनं यवसदानेन पुष्टीकुरुतयवसं हि भक्षयन्नेष नदुर्बलो भविष्यति वृकंच दृष्ट्वा न वृद्धिमाप्स्यते ततस्तैतथैव कृतवन्तः पक्षातिक्रमे च तं राज्ञः समर्पयामासुः तोलने च तावत्प-लप्रमाण एव जातः / ततो भूयोऽपि कतिपयदिनानन्तरं राज्ञाकुर्कुटः प्रेषितः एष द्वितयं कुर्कुट विना योधयितव्य इति एवं संप्राप्ते राजादेशे मिलितः सर्वोऽपि ग्रामो बहिः संभायामाकारितो रोहकः कथितश्व राजादेशः / ततो रोहकेणादर्शको महाप्रमाण आनायितो निसृष्टश्च भूत्या सम्यक् ततो घृतः पुरो राजकुछुटस्तस्य ततः स राजकुक्कुटः प्रतिविम्बमात्मीयमादर्श दृष्ट्वा मत्प्रतिपक्षोऽयमपरः कुक्कुट इति मत्वा साहंकारं योद्धुं प्रवृत्तो जडचेतसो हि प्रायस्तिर्यञ्चो भवन्तिा एवं च परकुक्कुटमन्तरेण योधिते राजकुक्कुटे विस्मितः सर्वोऽपि ग्रामलोकः संपादितो राजादेशः निवेदितं च राज्ञो निजपुरुषैः / ततो भूयोऽपि कतिपयदिवसातिक्रमे राजा निजादेशं प्रेषितवान् युष्मद्ग्रामस्य सर्वतः समीपे रमणीया वालुका विद्यते ततः स्थूला वालुकामया कतिपया दवरकाः कृत्वा शीघ्र प्रेषणीया इति एवं राजादेशेसमागते भिलितः सर्वोऽपि बहिः सभायां ग्रामः पृष्टश्च रोहकस्ततो रोहकेण प्रत्युत्तरमदायि नटा वयं ततो नृत्यमेव वयं कर्तुं जानीमो न दवरकादि / ततो राजादेशश्वावश्यं कर्तव्यः ततो वृहद्राजकुलमिति चिरन्तना अपि कतिचिद्वालुकामया दवरका भविष्यन्तीति तन्मध्यादेकः कश्चित्प्रच्छन्दभूतः प्रेषणीयो येन तदनुसारेण वयमपि वालुकामयान् दवरकान् कुर्म इति / ततो निवेदितमेवं राज्ञो नियुक्तपुरुषैः / राजा च निरुत्तरीकृतः तूष्णीमास्त। ततः पुनरपि कतिचिदिनानन्तरं जीर्णहस्ती रोगग्रस्तो मुमूर्षुग्राम राज्ञा प्रेषितः यथाऽयं हस्ती मृत इति न निवेदनीयोऽथ च प्रति-दिवसमस्य वार्ता कथनीया अकथने ग्रामस्थ महान् दण्डः / एवं च राजादेशे रामागते तथैव मिलितः सर्वोऽपि ग्रामो बहिः सभायाम् / पृष्टश्च रोहकस्ततो रोहकेणोक्तं दीयतामस्मै यवसः पश्चाद्यद्भवष्यति तत्करिष्यामः। ततोरोहकादेशने दत्तोयवसस्तस्मै रात्रौ च स हस्ती पञ्चत्वमुपगतः / ततो रोहकवचनतो ग्रामेण गत्वा राजे निवेदितम् / देवाऽद्य हस्ती न निषीदति नोत्तिष्ठति न कवलं गृह्णाति न नीहार कराति नाप्युच्छ वासनिःश्वासौ विदधाति किं बहुना देव ! कामपि सचेतनचेष्टांन करोति। ततोराज्ञा भणितं किंरे मृतो हस्तीततो ग्रामलोक आह देव ! देवपादा एवं ब्रुवते न वयमिति। ततएवमुक्ते राजा मौनमाधाय | स्थितः। आगतोग्रामलोकः स्वग्रामे। ततो भूयोऽपि कतिपयदिनातिक्रमे राजा समादिष्टवानस्ति यौष्माकीर्ण ग्रामे सुस्वादुजलसंपूर्णः कूपः स ही सत्वरं प्रेषणीयः। तत एवमादिष्टो ग्रामो रोहकं पृष्टवान्। रोहक प्राह / एष ग्रामेयकः कूपो, ग्रामेयकश्व स्वभावाद्भीरुर्भवति न च सजातीयमन्तरेण विश्वासमुपगच्छति ततो नागरिकः कश्चिदेकः कूपः प्रेष्यतां येन तत्रैष विश्वसय तेन सह समागमिष्यति इत्येवं निरुत्तरीकृत्य मुत्कलिताः राजनियुक्ताः पुरुषाः तैश्च राज्ञो निवेदितं राजा च स्वचेतसि रोहकस्य बुद्ध्यतिशयं परिभाव्य मौनमवलम्ब्य स्थितस्ततो भूयोऽपि कतिपयदिवसातिक्रमेऽभिहितवान् / वनखण्डो ग्रामस्य पूर्वस्यां दिशि वर्तमानः पश्चिमायां दिशि कर्तव्य इति अस्मिन्नपि राजादेशे समागते ग्रामो रोहकबुद्धिमुपजीव्य वनखण्डस्य पूर्वस्यां दिशि व्यवतिष्ठते ततो जातो ग्रामस्य पश्चिमायां दिशि वनखण्डःनिवेदितंच राज्ञोराजनियुक्तैः पुरुषैः / ततःपुनरपि कालान्तरे राजा समादिष्टवान् वहिसंपर्कमन्तरेण पायस पक्तव्य-मिति तत्रापि सर्वो ग्राम एकत्र मिलितोरोहकमपृच्छत् रोहकश्चोक्तवान् तन्दुलानतीव जलेन भिन्नान् कृत्वा दिनकरकरनिकरसन्तप्तकरीषपलालादीनामुष्मणि तन्दुलपयोभृता स्थाली निवेश्यतां येन परमानं संपद्यते तथैव कृतं परमान्नं निवेदितं राज्ञो विस्मितं तस्य चेतः। ततो राज्ञा रोहकस्य बुद्ध्यतिशयमवगम्य तदाकारणाय समादिष्ट येन वालकेन मदादेशाः सर्वेऽपि प्रायः स्वबुद्धिवशात्संपादितास्तेन चावश्यमागन्तव्यम् परं न शुक्लपक्षे न कृष्णपक्षे न रात्रौ न दिवा न च्छायया नाप्यातपेन नाकाशेन नापि पादाभ्यां न पथा नाप्युत्पथेन न स्नातेन नास्नातेन तत एवमादिष्टे स रोहकः कण्ठस्नानं कृत्वा गन्त्रीचक्रस्य मध्यभूमिभागेन ऊरणमारूढो धृतचालनीरूपातपत्रः संध्यासमयेऽमावश्याप्रतिपत्संगमेनरेन्द्र-पार्श्वमगमत्। स च रिक्तहस्तो न पश्येच राजानं देवतां गुरुमिति लोकश्रुति परिभाव्य पृथिवीपिण्ड मेकमादाय गतः प्रणतो राजा मुक्तश्च तत्पुरतः पृथिवीपिण्डस्ततः पृष्टो राज्ञा रोहकः। रेरोहक! किमेतत् ? रोहकः प्राह देव ! देवपादाः पृथिवीपतयः ततो मया पृथिवी समानीता। श्रुत्वा चेद प्रथमदर्शन मङ्गलवचः तुतोष राजा मुत्कलितः शेषग्रामलोकः रोहकः पुनरात्मपायें शायितः गते च यामिन्याः प्रथमे याने रोहकः शब्दितो राज्ञा, रे रोहक ! जागर्षि किं वा स्वपिषि / देव ! जागर्मि रे तर्हि किं चिन्तयसिस प्राह देव अश्वत्यपत्राणां किं दण्डो महान् उत शिखेति तत एवमुक्त राजा संशयमापन्नो वदति साधु चिन्तितं कोऽत्र निर्णयः / ततो राजा तमेव पृष्टवान् रे कथय कोऽत्र निर्णय इति तेनोक्तं यावदद्यापि शिखाग्रभागो न शोषमुपयाति तावद्वे अपि समे ततो राज्ञा पार्श्ववर्ती लोकः पृष्टः तेन च सर्वेणाप्यविज्ञानतः प्रतिपन्नं ततो भूयोऽपि रोहकः सुप्तवान् पुनरपि न द्वितीययानेऽपगते राज्ञा शब्दितः पृष्टश्च रे किं जागर्षि किंवा स्वपिषि रा प्राहदेव ! जागर्मि किं रे चिन्तयसि देव! छागिकोदरे कथं भ्रभ्युत्तीर्णा इव वर्तुलगुलिका जायन्ते तत एवमुक्ते राजा संशयापनस्तमेव पृष्टवान् कथय रे रोहक ! कथमिति स प्राह देव संवर्तकाभिधानवातविशेषात् / ततः पुनरपि रोहकः सुष्वाप तृतीयेयामेऽपगते भूयोऽपि राज्ञा शब्दितः रे किं जागर्षि किं वा स्वपिषि सोऽवादीत् देव ! जागर्मि किं रे चिन्तयन्वर्तसे देव खाडहिलाजीवस्य यावन्मानं शरीरं तावन्मानं पुच्छमुत हीनाधिकमिति तत एवमुक्ते राजा निर्णयं कर्तुमशक्तः तमेवापृच्छत रेकोऽत्र