________________ उद्देसिय 547 - अमिधानराजेन्द्रः - भाग 2 उद्देसिय (साहणंति) कथनं करोति वाशब्दो यदि साधवो बहुप्रमाणास्तत एकस्यावस्थानमिति सूचनार्थं स सर्वेभ्यो निवेदयति यथात्रास्मिन् गृहेऽब्राजिषुरनेषणा वर्तत इति। एवमपियैः संघाटकैः कथमपि न ज्ञातं भवति तेषां परिज्ञानायायमाह। मा एयं देह इमं, पुढे सिट्ठम्मि तं परिहरंति। जं दिन्नं तं दिन्नं, संपइ देहि गिण्हंति।। साधुनिमित्तं कुतोऽपि स्थानाद् भिक्षामाददती कथाचिन्निषिध्यते मा एतद्देहि किंचिदविवक्षितभाजनस्थं देहि तत एव कृते निषेधिते साधुः पृच्छति किमेतन्निषिध्यते किं वा इदंदाप्यते इति ततः सा प्राह। इदमेव दानाय कल्पितम् नेदमिति तत एवं शिष्टे कथिते साधवस्तत्परिहरन्ति। यदि पुनर्यद्दतं तद्दत्तं मा शेष संप्रति दद्यादिति निषिध्यात्मार्थीकृतमौद्देशिकं भवति तदा तत्कल्पते इति कृत्वा गृह्णन्ति तदेवमुक्तमुद्दिष्टौद्देशिकम्। संप्रति कृतौद्देशिकस्यसंभवहेतून स्वरूपंच प्रतिपादयति। रसमायणहेउं वा, मा कुच्छीहिं इमा सुहं च दाहोमि। दहिमाई आयत्तं, करेइ कूडं कडं एयं // मा कोहिंति अवघ्नं, परिकट्टम्मियं व दिज्जइ सुहं तु / वियडेण फालिएण व, मिटेण समं तु वटुंति॥ रसेन दध्यादिना रुद्धमिदं भाजनं तस्मादेतेन दध्यादिना यदुद्व-रितं शाल्योदनादि तत् करम्बीकृत्य इदं भाजनं करोमि येनान्यत्प्रयोजनमनेन क्रियते इति। रसभाजनहेतोर्यद्वा इदंद्रव्यादिना अमिश्रितं क्वथिष्यते / न च क्वथितं पाषण्ड्यादिभ्यो दातुं शक्यते। यद्वा दध्यादि सन्मिश्रमेकेनैव प्रयासेन सुखंदीयत इत्यादिना कारणजातेन द्रव्याद्यायत्तं दध्यादिसन्मिभं करोति करम्बौदनम् / एतत् कृतं ज्ञातव्यम्। तथा यदि भिन्न भिन्नं मोदकाशोकवादिचूर्ण दास्यामि ततो मे पाषण्ड्यादयोऽवर्णमश्लाघां करिष्यन्ति यद्वा परिकट्टलितमेकत्र पिण्डीकृतं सुखेन दीयते / अन्यथा क्रमेण मोदकाशोकवादिचूर्णः स्वस्वस्थानादानीयानीय दाने भूयान गमनागमनप्रयासो भवति / अपान्तराले साचूर्हिस्ताक्षरित्वा पतति ततो विकटेन मद्येन देशविशेषापेक्षमेतद्यद्वा फाणितेन कक्कवादिना यद्वा स्निग्धेन घृतादिना मोदकचूर्णादिसमं वर्तयति पिण्डतया बन्धन्ति / अत्र द्वयोर्गाथयोः पूर्वार्धाभ्यां संभवहेतव उक्ता उत्तरार्धाभ्यां तु स्वरूपम्। संप्रति कौ देशिकस्य संभवहेतून स्वरूपं चातिदेशेनाह। एमेव य कम्मम्मि वि, उण्हवणे तत्थ नवरि नाणत्तं। तावियविलीणएणं, मोयगचुन्नी पुणकरणं // यथा कृतस्य संभवस्वरूपं चोक्तमेवं कर्मण्यति द्रष्टव्यं नवरंतत्र कर्माणि उष्णापने उष्णीकरणे नानात्वं विशेषस्तथा हितापितविलीनेन तापितेन विलीनेन च गुडादिना मोदकचूयाः पुनर्मोदकत्वेन करणं नान्यथा तथा तुवर्यादि भक्तमपि रात्र्युषितं द्वितीयदिने भूयः संस्कारापादनेन कर्मतया निष्पाद्यमानं नाग्निमन्तरेण निष्पाद्यते ततोऽवश्यं कर्मण्युष्णापने नानात्वम् / संप्रत्यत्रैव कल्प्यकल्प्यविधिमाह // असुगंति पुणो रद्धं, दाहमकप्पं तमारओ कप्प। खेत्ते अंतो बाहिं, कालेसु इत्थं परेचं वा / / भिक्षार्थ प्रविष्टं साधुप्रति यदिगृहस्थो भणति यथान्यस्मिन् गृहे विहृत्य व्यावर्त्तमानने त्वया भूयोऽपि मद्गृहे समागन्तव्यं यतोऽह-ममुकं मोदकचूर्णादि भूयोऽपि राद्धगुडपाकादिदानेन मोदकादि कृत्वा दास्यामि एवमुक्ते तथा कृत्वा चेददाति तर्हि तन्न कल्पते कर्मोद्देशिकत्वात् / आरात् भूयः पाकारम्भादक् िपुनः कल्प्यं दोषाभावात् / तथा क्षेत्रेऽन्तर्बहिर्वा काले स्वस्तनं परतरदिनभवं वा अकल्प्यमारतः कल्प्यम्। इयमत्र भावना। यद् गृहस्यान्तर्बहिर्वा मोदक चूर्णादिकं मोदकादितया उपस्करिष्यामि कालविवक्षायां यदद्य स्वः परतरे वा दिने भूयोऽपि पक्ष्यामि तत्तुभ्यं दास्यामीत्युक्ते तथैव चेत् कृत्वा ददाति ततो न कल्पते भूयोऽपि पाकादारतस्त्वसंसक्तं कल्पते // तथा चाह॥ जं जह व कयं दाहं, तं कप्पइ आरओ तहा अकयं / कय पाकमणिहत्त-ट्ठियं पि जावत्ति यं मोत्तुं / यत्सामान्यतो द्रव्यं यद्वा यथा क्षेत्रनिर्धारणेन वा भूयोऽपि कृतं दास्यामीत्युक्ते तथैव कृतं चेद्ददाति तदान कल्पते तथा अकृतं तुभूयोऽपि पाकादारतः कल्पते / यत्तु निर्धारितक्षेत्रकालव्यतिकरण पच्यते तन्न दातु संकल्पितमिति कल्पते यत्तु क्षेत्रे कालनिर्धारणविवक्षिते च सामान्यतो भूयोऽपिपक्त्वा दास्यामीति संकल्पितं तदन्तर्बहिर्वा स्वस्तने परतरदिने वा न कल्पते। अथ कौशिकं कृतपाकमात्मार्थीकृतमपि यावदर्थिकं मुक्त्वा शेषमनिष्टं नानुज्ञातं तीर्थकरगणधरैर्यावदर्थिक त्वात्मार्थीकृतं कल्पते / अथ आधाकर्मकौदेशिकयोः परस्परं प्रतिविशेष उच्यते। यत्प्रथमत एव साध्वर्थं निष्पादितं तदाधाकर्म यत् पुनाराद्धं सद्भूयोऽपि पाक-करणेन संस्क्रियते तत्कौद्देशिकमिति। उक्तमौदेशिकद्वारम्।। पिं०। दर्श०। नि०चू०। प्रव०पंचा०ा ग०। जीताव्य असणं पाणगं वा वि,खाइमं साइमं तहा। जं जाणिज्ज सुणिज्जा वा, दाणट्ठा पगडं इमं / / 47 / / अशनं पानकं वापि खाधं स्वाद्यम् अशनमोदनादि पानकं वारनालादि खाद्यं लड्डुकादिस्वाद्यं हरीतक्यादियजानीयादामन्त्रणादिना शृणुयाद्वा अन्यतः यथा दानार्थं प्रकृतमिदं दानार्थं प्रकृतं नाम साधुवादनिमित्तं यो ददात्यव्यापारपाषण्डिभ्यो देशान्तरादेरागतो वणिकप्रभृतिरिति सूत्रार्थः। तारिस भत्तपाणं तु, संजयाणं अकप्पियं / दितियं पडिआइक्खे, न मे कप्पइ तारिसं // 48|| तादृशं भक्तपानंदानार्थ प्रवृत्तव्यापार संयतानामकल्पिकं यत-श्चैवमतः ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः। असणं पाणगं वावि, खाइमं साइमं तहा। जं जाणिज्ज सुणिज्जा वा, पुन्नट्ठा पगडं इमं ||4|| तं भवे भत्तपाणं तु, संजयाणं अकप्पियं / दितियं पडिआइक्खे, न मे कप्पइ तारिसं // 50 // असणं पाणगं वावि, खाइमं साइमं तहा। जं जाणिज्ज सुणिज्जा वा, वणिमट्ठा पगडं इमं // 51 // तं भवे भत्तपाणं तु, संजयाण अकप्पियं / दितियं पडिआइक्खे, न मे कप्पइ तारिसं // 52 // असणं पाणगं वावि, खाइमं साइमं तहा। जंजाणिज्ज सुणिज्जा वा, समणट्ठा पगडं इमं // 53|| तं भवे भत्तपाणं तु, संजयाण अकप्पियं / दितियं पडिआइक्खे, न मे कप्पइ तारिसं 1 // 54 // उद्देसियं कीयगडं, पूइकम्मं च आहडं।