SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ उदयसंठिइ 814 - अभिधानराजेन्द्रः - भाग 2 उदयसंठि संप्रति स्वमतं भगवानुपदर्शयति / (वयंपुणइत्यादि) वयं पुनरेवं वक्ष्यमाणेन प्रकारेण वदामस्तमेव प्रकारमाह (ताजंबूद्दीवेदीवे इत्यादि) ता इति पूर्ववत् जम्बूद्वीपे द्वीपे सूर्यो यथायोगमण्डल-परिभ्रम्या भ्रमन्तौ मेरोरुदक्प्राच्यामुत्तरपूर्वस्यां दिशि उद्गच्छतः तत्र चोदत्य प्राग् दक्षिणपूर्वस्यामागच्छतः ततो भरतादिक्षेत्रापेक्षया प्राग दक्षिणपूर्वस्यामुद्गत्य दक्षिणापरस्यामागच्छतस्तत्रापि च दक्षिणापरस्यामपरविदेहक्षेत्रापेक्षया उद्गत्यापाच्युदीच्यामपरोत्तरस्यामागच्छतस्तत्रापि चापरोत्तरस्यामैरावतादिक्षेत्रापेक्षया उद्गत्य उदक् प्राच्यामुत्तरपूर्वस्यामागच्छतः एवं तावत्सामान्यतोद्वयोरपि सूर्ययोरुदयविधिरुपदर्शितो विशेषतः पुनरयं यदैकः सूर्यः पूर्वदक्षिणस्यामुगच्छति तदा अपरः उत्तरस्यां दिशि समुद्गच्छति दक्षिणपूर्वोद्गतश्च सूर्यो भरतादीनि क्षेत्राणि मेरुदक्षिणदिग्वर्तीनि मण्डलपरिभ्रम्या परिभ्रन् प्रकाशयति अपरोत्तरस्यामुद्रतः सन् तत ऊर्ध्वमण्डलपरिभ्रम्या परिभ्रमन् ऐरावतादीनि क्षेत्राणि मेरोरुत्तरदिग्भावीनि प्रकाशयति भारतश्च सूर्यो दक्षिणापरस्यामागतः सन्नपरविदेहक्षेत्रापेक्षया उदयमासादयति ऐरावतः सूर्यः पुनरुत्तरपूर्वस्यामागतः पूर्व विदेहापेक्षया समुद्गच्छति ततो दक्षिणापरस्यामुद्रतः सन्तत ऊर्द्धमण्डलभ्रम्या परिभ्रमन् अपरविदेहान् प्रकाशयति / उत्तरपूर्वस्यामुद्गतः सन् तत ऊर्द्ध मण्डलगत्या चरन् पूर्वविदेहानवभासयति तत एष पूर्वक्देिहप्रकाशकः सूर्यो दक्षिणपूर्वस्यां भरतादिक्षेत्रापेक्षयोदयमासादयति अपरविदेहप्रकाशकस्त्यपरोत्तरस्यामिति। तदेवं जम्बूद्वीप सूर्ययोरुदयविधिरुक्तः संप्रतिक्षेत्रविभागेन दिवसरात्रिविभागमाह (ता जयाणमित्यादि) तत्र यदाणमिति वाक्यालंकारे जम्बूद्वीपे 2 दक्षिणार्द्ध दिवसो भवति तदा उत्तरार्द्धऽपि दिवसो भवति एकस्य सूर्यस्य दक्षिणदिशि परिभ्रमणसंभवे अपरस्य सूर्यस्यावश्यमुत्तरदिशि भ्रमणसंभवात् यदा चोत्तरार्द्ध दिवसस्तदा जम्बूद्वीप द्वीपे मन्दरस्य पर्वतस्य (पुरच्छिमपञ्च-च्छिमेणंति) पूर्वस्यामपरस्यां च दिशि रात्रिर्भवति तदानीमेकस्यापि सूर्यस्य तत्राभावात्। (ताजयाणमित्यादि)तत्रयदा जम्बूद्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां दिशि दिवसां भवति एकस्य सूर्यस्य पूर्वदिग्भागसंभवे अपरस्य सूर्यस्यावश्यमपरस्यां दिशि भावात् / एतच प्रागेव भावितम् / यदा च पश्चिमायामपि दिशि दिवसो भवति तदा जम्बूद्वीपे मन्दरस्य पर्वतस्य (उत्तरदाहिणेणंति) उत्तरतो दक्षिणतश्च रात्रिर्भवति (ता जयाणमित्यादि) तत्र यदा णमिति प्राग्वत् जम्बूद्वीपे दक्षिणार्द्ध उत्कर्षत उत्कृष्टोऽष्टादशमुहूर्तप्रमाणो दिवसो भवति तदा उत्तरार्द्धपि उत्कृष्टोऽष्टादशमुहूर्तोऽष्टादशमुहूर्तप्रमाणो दिवसः उत्कृष्टो ह्यष्टादशमुहूर्तप्रमाणा दिवसः सर्वाभ्यन्तरमण्डलचारित्वे तत्र च यदैकः सूर्यः सर्वाभ्यन्तरमण्डलचारी भवति तदा अपरोऽप्यवश्यं तत्समायातश्रेण्या सर्वाभ्यन्तरमण्डलचारी भवतीतिदक्षिणार्द्ध उत्कृष्टदिवससंभवे उत्तरार्द्धऽप्युत्कृष्टदिवससंभवः / यदा उत्तरार्द्ध उत्कृष्टोऽष्टादशमुहूर्तप्रमाणो दिवसो भवति तदा जम्बूद्वीपे 2 मन्दरस्य पर्वतस्य (पुरच्छिमपञ्चच्छि-मेणंति) पूर्वस्यामपरस्यां च दिशि जघन्या द्वादशमुहूर्ता रात्रिर्भवतिसवाभ्यन्तरे मण्डलेचारं धरतोः सूर्ययोःसर्वत्रापि रात्रेदिशमुहू-तप्रमाणाया एव भावात् तया (ताजयाणमित्यादि) तत्र यदा जम्बूद्वीपे द्वीपे मन्दरस्थ पर्वतस्य पूर्वस्यां दिशि उत्कर्षत उत्कृष्टो-- ऽष्टादशमुहूर्तो दिवसो भवति तदा मन्दरस्य पर्वतस्य पश्चिमायामपि दिशि उत्कृष्टोऽष्टादशमुहूर्तो दिक्सः कारणं दक्षिणोत्तरार्द्धगतं प्रागुक्तमनुसरणीयम्।यदाच मन्दरपर्वतस्य पश्चिमायामपि दिशि उत्कृष्टोऽष्टादाशमुहूर्तो दिवसो भवति तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य (उत्तरदाहिणेणति) उत्तर तो दक्षिणतश्च जघन्या द्वादशमुहूर्ता रात्रिः / अत्रापि कारणं पूर्व पश्चिमार्द्ध रात्रिगतं प्रागुक्तमनुसरणीयम् / (एवमित्यादि) एवमुक्तेन प्रकारेण एतेनानन्तरोदितेन गमेनालापकगमेन वक्ष्यमाणमपि नेतव्यम्। किं तद्वक्ष्यमाणमित्याह। (अट्ठारसमुहुत्ताणंतरइत्यादि) यदा मन्दरस्य पर्वतस्य दक्षिणोत्तरार्द्धयोः पूर्वपश्चिमयोर्वा अष्टादशमुहूर्तानन्तरः सप्तदशभ्या मुहूर्तेभ्य ऊर्द्ध किंचिन्त्यूनाष्टादशमुहूर्तप्रमाणो दिवसस्तदा पूर्वपश्चिमयोदक्षिणोत्तरार्द्धयोर्वा सातिरेका द्वादशमुहूर्ता रात्रिर्भवतीति एवं शेषाण्यपितदानि भावनीयानि सूत्रपाठोऽपि प्रागुक्तालापकगमानुसारेण स्वयं परिभावनीयः / स चैवं "ता जयाणं जंबुद्दीवे दीवे दाहिणड्डे अट्ठारसमुहुत्ताणंतरे दिवसे हवइ तया णं उत्तरड्डेवि अट्ठारसमुहत्ताणंतरे दिवसे भवइ जया णं उत्तरड्ढे अट्ठारसमुहुत्ताणंतरे दिवसे हवइ तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरच्छि-मपचच्छिमेणं सातिरेगदुवालसमुहुत्ता राई भवइ ता जया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्सपुरच्छिमेणं अट्ठारसमुहुत्ताणंतरे दिवसे हवइ तयाणं पचच्छिमेण वि अट्ठारसमुहुत्ताणंतरे दिवसे हवइ / जया णं पचच्छिमेण वि अट्ठारसमुहुत्ताणंतरे दिवसे भवइतया णं जंबुद्दीवे दीवे मंदरस्स पथ्ययस्स उत्तरदाहिणेणं साइरेगदुवालसमुहुत्ता राई भवइ' एवं सप्तदशमुहूर्तादिवसादिप्रतिपादका अपि सूत्रालापका भावनीयाः (ता जयाणमित्यादि) तत्र यदा जम्बूद्वीपे दक्षिणार्द्ध वर्षाणां वर्षाकालस्य प्रथमः समयः प्रतिपद्यते भवति तदा उत्तरार्द्धऽपि वर्षाणां प्रथमसमयो भवति समकाले नैयत्थेन दक्षिणार्द्ध उत्तरार्द्ध च सूर्ययोश्वारभावात् यदा चोत्तरार्द्ध वर्षाकाल-स्य प्रथमःसमयो भवति तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य (पुरच्छिमपञ्चच्छिमेणंति) पूर्वस्यामपरस्यां च दिशि (अणंतरपुरक्खडेत्ति) अनन्तरमव्यवधानेन पुरष्कृतोऽग्रे कृतो यः सोऽनन्तरपुरस्कृतोऽनन्तरद्वितीय इत्यर्थः / तस्मिन् काले (समयंसित्ति) समयः संकेतादिरपि भवति ततस्तद्व्यवच्छेदार्थ कालग्रहणं कालश्वासौ समयश्च कालसमयस्तत्र वर्षाकालप्रथमसमयः प्रतिपद्यते भवति किमुक्त भवति यस्मिन् समये दक्षिणार्होत्तरार्द्ध-योर्वर्षाकालस्य प्रथमः सभयो भवति तस्मादूर्ध्वमनन्तरे द्वितीये समये पूर्वपश्चिमयोवर्षाकालस्य प्रथमसमयो भवति (ताजयाणमित्यादि) तत्र यदा णमिति प्राग्वत् / जम्बूद्वीपे 2 मन्दरस्य पर्वतस्य पूर्वस्यां दिशि वर्षाकालस्य प्रथमः समयो भवति तदा मन्दस्य पर्वतस्य पश्चिमायामपिदिशिवर्षाकालप्रथमसमयो भवति सम-कालनैयत्येन पूर्वपश्चिमयोरपि सूर्ययोश्चारचरणात्। यदाच पश्चिमायामपि दिशि वर्षाकालस्य प्रथमः समयः भवति तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य (उत्तरदाहिणेणंति) उत्तरतो दक्षिणतश्च अनन्तरमव्यवधानेन पश्चात्कृतोऽनन्तरपश्चात्कृतस्तस्मिन् कालसमये वर्षाकालस्य प्रथमः समयः प्रतिपन्नो भवति भूत इत्यर्थः / इह यस्मिन् समये दक्षिणार्द्ध उत्तरार्द्धं च वर्षाकालस्य प्रथमः समयो भवति तदनन्तरेऽग्रतने द्वितीये सगयेपूर्वपश्चिमयोर्वर्षाणां प्रथमसमयो भवतीति / एतायन्मात्रोक्तावपि यस्मिन् समये पूर्वपश्चिमयोर्वर्षाकालस्य प्रथमः समयो भवति ततोऽनन्तरे पश्चाद्धाविनि समये दक्षिणोत्तरार्द्धयोर्वर्षा-कालस्य प्रथमः समयो भवतीति गम्यते तत्किमर्थमस्योपादानम् उच्यते इह क्रमाभ्यामभिहितोऽर्थः प्रपञ्चितज्ञानां शिष्याणामतिसुनिश्चितो भवति ततस्तेषामनुग्रहाय
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy