SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ उग्गह 736 - अमिधानराजेन्द्रः - भाग 2 उग्गह भद्दो एव्वं विरइ-प्पंते पुण दिक्खवजमियराणि / / इम सिट्ठा इम काउं, निग्गं ते गुरुगाय आणादी।। एवं कथितेसति यो भद्रकः ससर्वविरतिप्रान्तः पुनर्दीक्षावर्ज-मितराणि सर्वाण्यप्याहारादीनि अनुजानाति प्रव्रज्यांपुनर्नाज्ञापयति तत्र यदितस्य राज्ञोऽनुशिष्टमकृत्वा आदिशब्दात् विद्यादिवा प्रभुकरणं वा अकृत्वा यदि तद्विषयात् निर्गच्छन्ति तदा तेषां प्रायश्चित्तं चत्वारो गुरुका आज्ञादयश्च दोषाः। चेइय सावगपव्वइउ-काम अंतरंतबालवुड्डा य। जत्ता अजंगमा वि य, अभत्ति तित्थस्स परिहाणी॥ अन्यच चैत्यानि तेन परित्यक्तानि श्रावका ये च प्रवजितु - कामास्तथा ।अतरन्तो ग्लाना बाला वृद्धा अजङ्गमाश्चैते सर्वे परित्यक्ता अभक्तितस्तीर्थकराङ्गाखण्डनात्। तीर्थस्य च परिहा--णिरापदिता तथा हि ये तत्र विषये प्रव्रजितुकामास्ते न प्रवजिप्यन्ति श्रावका अपि सम्यक्तवमणुव्रतानि च गृह्णन्तो न ग्रहीप्यन्ति ततो भवति तीर्थस्य व्यवच्छेदः / यद्येवंतर्हि तत्रैव तिष्ठन्तु। तत्राप्याह।। अत्थंताण वि गुरुगा, अभत्ति तित्थस्स हाणि जावुत्ता। भणमाण भाण चेत्ता, अत्थंति अणेत्थ वचंति।। तत्र तिष्ठतामपि प्रायश्चित्तं चत्वारो गुरुका मासाः देशान्तरे भव्यपोण्डरीकस्याप्रतिबोधेन लोभ्ज्ञतो भ्रष्टत्वात्। तथा तीर्थकरा--णामभक्तिं तिष्ठद्भिः कृत्वा तदाज्ञाखण्डनात्तीर्थस्य हानिरापादिता तथा स्वयमेव तेन राज्ञोक्ते स्त्रीपुरुषा न दीक्षितव्या इति / यद्येवं तर्हि किं कर्तव्यमत आह। स्वयं भणन्तः प्रज्ञापयन्तोऽन्यैर्भाणयन्तस्तिष्ठन्ति / तथापि चेत्स नेच्छेत्तर्हि ततो देशात् ब्रजन्ति। अह पुण हवेज दोन्नी, रजाइं तस्स नरवरिंदस्स। तहियं अणुजाणतो , दोसुवि रज्जेसु अप्पवहुं / / अथ पुनस्तस्य नरवरेन्द्रस्य स्क्यमन्यैर्वा प्रज्ञाप्यमाणस्य कदाचिद्दे राज्ये भवतस्तत्र तयोद्वेयोराज्ययोर्मध्ये एकत्रक्वाप्यनुजानाति / यथा मम द्वे राज्ये तत्र तयोर्द्वयोर्मध्ये यत्रैकत्र भवद्भ्यो रोचते तत्र प्रव्राजयत द्वितीये नानुजानामि / एवमुक्ते अल्पबहु परिभाव्ययत्र भूयान् तीर्थप्रव्रज्यादिलाभस्तत्र स्थातव्यमेतदेव स्पष्टतरमाह।। एक्काहि विदिन्नं रज्जे, रज्जे एगत्थ होइ अवि दण्णं / एगत्थ इत्थियत्तो, पुरिसवायाय एगत्थ।। एकत्र एकस्मिन राज्ये वितीर्णमनुज्ञातं भवति। एकस्मिन्राज्ये वितीर्ण यत्रानुज्ञातं तत्र स्त्रियाः पुरुषा वा अनुज्ञाताः / अथवा एकत्र राज्ये स्त्रियोऽनुजानीत एकत्र पुरुषाननु जानीते। थेरा तरुणा य तहा, दुग्गया अद्दया य कुलपुत्ता। जाणवयानागुरुया, अब्भतरयो कुमारा य। अथवा एकत्र राज्ये स्थवराननुजानात्येकत्र तरुणान्। अथवा एकत्र दुर्गतकान् परत्र आद्यान् / यदि वैकत्र कुलपुत्रानपरत्राभीरान् एवमेकत्र जानपदानन्यत्र नागरकान्। एकत्राभ्यन्तरकान् अभ्य-न्तरका नाम ये राजानमतिप्रत्यासन्नीभूयावल्गन्ति कुमारा राज्ञो दायादाः / एवमनुज्ञातेकिं कर्तव्यमित्याह। ओहीमादीउ जत्थ, बहुतरया उपव्वयंति तहिं। ते विति समणुजाणसु, असती पुरिसेवजे बहुगा / / अवध्यादिनादिशब्दात् श्रुतातिशयविशेषण निमित्तविशेषेण वा ज्ञात्वा यत्र बहुतरकाः अनुज्ञाताः सन्ति अवध्यादेनिमित्तविशेषस्य वा अभावे ये बहवः पुरुषास्तानेवानुज्ञापयति न शेषान् स्तोकानष्टप्रभृतीनिति॥ एयाण वि धरति तहिं, कम्मघणो पुण भणेज तत्थ। इम दिहा उ अमंगल्ल, मा वा दिक्खेज अत्थत्ता। एतानि अनन्तरोदितानिप्रान्तोऽपि मनाग भद्रकः सन्तत्रात्मीये राज्ये वितरति / यः पुनः कर्मधनो निवडपापकर्मा तत्रानुज्ञापनायां क्रियमाणायामिदं ब्रूयात् दृष्टा अपि सन्तो यूयममङ्गलास्तस्मादप्रतिष्ठन्तो मा कंचनदीक्षयेयुरिति / वा शददो व्यपेक्षया विकल्पने। मा वा दच्छामि पुणो, अमिक्खणं वेंति कुणति निव्विसए पभवंतो भणति ततो, भरहाहिवति सति तुमंति॥ यदि वा मा पुनर्भूयो द्रक्ष्याम्येतान् / अभीक्ष्णं वा ब्रुवन्ति स्वयमन्यैर्वा पुनः पुनर्विज्ञपन्तीति कृत्वा निर्विषयान्करोति ततो यः प्रभवन् वक्ष्यमाणगुणोपेतो ब्रूते नासि त्वं सकलस्य भरतस्यापि पतिर्येन निर्विषयत्वाज्ञापनेऽस्माकं भयं स्यात्त्र स्थातु न दास्यसि ततो ऽन्यत्र यास्यामः / तथा इदमपि ब्रूते। केवइयं वा एयं, गोपयमेत्तं इमं तुहं रनं / जं पेल्लिउ नासिपगं,मंतिय मुहुत्तमित्तेण / / कियद्वा एतद्रगोष्पदमात्रमिदंच राज्यं यत्प्रेयं मुहूर्तमात्रेण तं दृष्ट्वा गम्यते : एवमुक्ते स राजा प्राह। जं होउ तं होउ, पभवामि अहं तु अप्पणो र / सो भणइ नीहमिजं, रजा तो किं बहुं णाउं / स राजा ब्रूते यत् यावन्मात्रं तावन्मात्रं वा भवतु आत्मनो राज्ये तावदह प्रभवामि / तस्मात्किमत्र बहुना मम राज्याचूयं निर्गच्छतेति / एवमुक्ते यत्कर्तव्यं तदाह। अणुसट्ठी धम्मकहा, वजनिमित्तादिएहिं आउट्टो। अहिए य सुण्णकरणं, जहा कथं विण्हुणा पुट्वि / / अनुशिक्षया अनुशासनेन धर्मकथया विद्यया निमित्तेन आदिशब्दान्मन्त्रेण चूर्णयोगैर्वातंराजानमावर्तयेत् अनुकूलयेत्। अत्रैवमपि नतिष्ठति तर्हि तस्मिन् अस्थिते प्रभोरन्यस्य करण कर्तव्यम्। यथा कृतं विष्णुना विष्णुकुमारेण / अथ कीदृशस्तं राजानमन्यप्रभुकारणे प्रेरयन्तीत्यत आह। वेउव्वियलद्धी वा, ईसत्थे विजतो रसवली वा। तवलद्धिपुलातो वा, पेल्लेति तमेतरे गुरुगा।। यो वैक्रियलब्धिमान् यो वा इषुशास्त्रे निर्मातोऽनेकैरपि पुरु-- षमहास्वैर्दुर्जयः। अथवा विद्यावलवान् यदि वौरसवली साधर्मिको-ऽथवा तपोलब्धिपुलाकः स तमन्यप्रभुकरणेन प्रेरयति।यस्तु सत्यामपि शक्ती प्रभुमन्यं न करोति तस्मिन्नितरस्मिन्प्रायश्चित्तं चत्वारो गुरुकाः / कथंमन्यं प्रभुं करोतीत्यत आह। तं घेत्तु बंधिऊण, पुथ्वरजं ठवेंति उसमत्थो। असती अणुवसमंते, निग्गंतव्वं ततो ताहे / / तं राजानं गृहीत्वा बन्धनेन च बध्वा समर्थस्तस्य पुत्रं राज्ये स्थापयति / असति सामर्थ्य अनुशिष्यादिभिरुपशमयति / स च तथोपशम्यमानोऽपि नोपशाम्यति तर्हि ततो देशान्निर्गन्तव्यम् / तथाध्वनि यतनामाह। पदाहा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy