SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ उग्गह 726 अभिधानराजेन्द्रः / भाग 2 उग्गह तानि वस्त्रपादीनि मिश्राणि सभाण्डोपकरणस्त्री पुरुषादीनि यानि द्रव्याणि स द्रव्ये द्रव्यविषयऽवग्रहः। कथभूत इत्याह। योयेन शक्रादिना परिगृहीतः स तस्य संबंधी द्रव्यावग्रहः / किमुक्तं भवति / देवेन्द्रावग्रहेऽत्र यानि स चित्तासचित्त मिश्राणि द्रव्याणि तानि सर्वाण्यपि देवेन्द्र द्रव्यावग्रहः। एवं राजावग्रहादिप्वऽपि भावना कार्या। अथ कालावग्रहमाह दोसागराउ पठमो, चक्की सत्तसय पुव्वचुलसीई। सेसनिवंसि मुहुत्तं, जहन्नमुक्कोसए भयणा।। प्रथमो देवेन्द्रावग्रहः स द्वे सागरोपमे यावद्भवति शक्रस्य द्विसागरोपमस्थितिकत्वात् चक्री चक्रवर्त्यवग्रहे जघन्यतः सप्तवर्षशतानि ब्रह्मदत्तवत्। उत्कर्षतः पुनश्चतुरशीतिपूर्वशतसहस्राणि भरतचक्रवर्तिवत्। तथा च चूर्णिः " चक्कवदि उग्गहो जहन्नेणं सत्तवाससया बंभदत्तस्स उक्कोसेणं चुरासीइ पुव्वसय सहस्साई भरहस्स" अत्रा परः माह। तत्रा ब्रह्मदत्तः कुमारतायामष्टाविंशतिमाण्डलिकत्वे षट्पञ्चाशतं दिग्विजये षोडशवर्षाण्यातिक्रम्य षट्वर्षशतान्येव चक्रवर्तिपदवी-मनुबभूव / भरतोऽपि सप्तसप्ततिपूर्वलक्षाणि कु मारभावमनुभूय वर्षसहस्रं माण्डलिकत्वमनुपाल्य षष्टिवर्षसहस्राणि विजययात्रायां व्यतीत्य ततः किं चिन्न्यूनानि षट्पूर्वलक्षाणि सर्व भूमिश्रियं बुभुजे ततः कथमनयोः सप्तवर्षशतानि चतुरशीतिपूर्वलक्षाणि च यथाक्रमं चक्रवर्त्यवग्रहः प्रतिपाद्यमानोन विरुध्यत। नैष दाषः यतो योग्यतामङ्गीकृत्य भरतादयो जन्मन एव चक्रवर्तिनो मन्तव्याः / यत उत्पन्नमात्र एव चक्रवर्तिनि तदीयतथाविधाद्भुतभाग्यसंभारसमावर्जितास्त दाभाव्यक्षेत्रानिवासिदेवता उत्पन्नोऽयं सकलमही-वलयस्वामीति प्रमादभाजस्तदा नुकूल्यवृत्तयस्तथा-विधाभिलाषिणस्तत्प्रत्यनीकयुक्तप्रत्यूहापहाराय प्रवर्तन्त इति समीचीनमेव यथोक्तमवग्रहकालमानम् / अन्यथा वा बहुश्रुतैरुपयुज्य निर्वचनीयमिति (सेस निवंसिमुहत्तंति) चक्रवर्तिनं मुक्तवाषः शेषो नृपस्तस्य जघन्यतो मुहुर्त कालावग्रहः / कृतराज्याभिषेकस्यान्तमुहूर्तादूचं मरणाद्राज्यपदपरिभ्रंशाद्वा शेषनृपतीनामुत्कृष्ट कालावग्रहे भजना कार्या : किमुक्तं भवति / अन्तर्मुहूर्तादारम्य समयवृद्ध्या वर्द्धमानानि चतुरशीतिपूर्वलक्षाणि यावद्यान्यायुः स्थानानि तेषां मध्ये यद्येषां नृपतीनामायुस्थानं निर्वर्तितं यो वा यावन्तं कालं राज्यैश्वर्यमनुभवति तस्य स उत्कृष्ट : कालावग्रहः। एवं गहवइसागारिए विचरिमे जहन्नओ मासा। उकोसो चउमासा, दोसुवि भयणा उ कञ्जम्मि।। एवं गृहपतिसागारिकयोरपि शेषनृपतिवञ्जघन्योत्कृष्टश्च कालावग्रहो द्रष्टव्यः / इह च यद्यपि शेषनृपतिगृहपतिसा-गारिकाणामायूंषि पूर्वकोटिपर्यवसितान्यपि संभाव्यन्ते तथा पि चूर्णिणकृता किमपि बाहुल्यादिकारणमुद्दिश्य चतुरशीति पूर्वलक्षपर्यन्तान्येवाभिहितानित्यत्रापि तदनुरोधेन तथैव व्याख्यातानि। तथा चरमे साधर्मिकावग्रहे ऋतुबद्धे मासकल्पविहारिणां जघन्यो मासमेकमुत्कृष्टो वर्षासु चतुरो मासान् कालावगृहः (दोसु वि भयणाउ कजम्मित्ति) द्वयोरपि जघन्योत्कृष्टयोः कार्ये समापतिते भजना। किमुक्तं भवतिग्लानादिभिः कारणैः कदाचिदृतुबद्धौ मासौवर्षासु चत्वारोमासान प्रतिपूर्येरन्नतिरिक्ता वा भवेयुः / गतः कालावग्रहः।। अथ भावावग्रहमाह। चत्तारो दइअम्मि,खओवसमियम्मि पच्छिमो होइ। मणसीकरणमणुन्नं च, जाण जं जत्थ कम्मइ।। चत्वारो देवेन्द्रराजगृहसागारिकाणामवग्रहा औदयिके भावे वर्तन्ते ममेदं क्षेत्रामित्यादि मूर्छायास्तेषु सद्भावातस्याश्च कशायमोहनीयोदयजन्यत्वात् / पश्चिमः साधर्मिकावग्रहः स क्षायोपशमिके भावे वर्तते कषायमोहनी यक्षायोपशमयुक्त तया ममेदं क्षेत्रां ममायमुपाश्रय इत्यादिमूर्छायाः साधूनामभावात् / एष भावावग्रहः / तदेवं प्ररूपितः पञ्चविधोऽप्यवग्रहः / अथ यदुक्तं द्वारगाथायां ''पंचविहम्मि परूवियनायव्वो जो जहिं कमइत्ति' तदिदानीं भाव्यते " मणसीकरणमणुन्नं चेत्यादि " मनसि करणमनुज्ञां च जानीहि / यद्या देवेन्द्रवग्रहादौ कामति अवतरतितका मनसिचेतसि करणमनुजानीताम् / यस्यावग्रह इति मनस्येवानुज्ञापनमिति हृदयं यत्पुनर्वचसानुज्ञाप्यते साऽनुज्ञाऽन्तर्भूतण् यर्थत्वादनुज्ञापनोति भावः तत्रा देवेन्द्रे राजावग्रहयोर्मनसैवानुज्ञापनं करोति गृहपत्यव -नियमाद्वचासऽनुज्ञापना। यथानुज्ञापना यथानुजानीतारमाकं शय्यां वस्त्रपात्राशैक्षादिकं चेत्यादि। अथ भावावग्रहं प्रकारान्तरेणाह।। भावावग्गहो अहव दुहा, मइगहण अत्थ वंजणे उ मई। गहणे जत्थ उ गिण्ह, मणसीकरण अकरणतिविहं।। अथवा भावावग्रहो द्विधा मतिभावावग्रहो ग्रहणभावावग्र हश्च / तत्र मतिर्मतिज्ञानरुपो भावावग्रहो भूयोपिद्विधा ध्यञ्जनावग्रहोऽविग्रहश्च गाथायां बन्धानुलोम्येन पूर्वमर्थशब्दस्य निर्देशः ग्रहणे ग्रहणविषये भावावग्रहः / यत्रा तु यस्मिन पुनर्देवन्द्रावग्रहादौ यदा साधुः किं चिद्वस्तुजातं गृह्णाति सचित्तमचित्तं मिश्रं वा तस्य तदाग्रहणं भावावग्रहः (मणसिकरणत्ति) मनसि करणस्योप-लक्षणत्वादनुज्ञापनायाश्याकरणे त्रिविधं प्रायश्चितम् / एतदेव सविशेषमाह। पंचविह परूविएस, उग्गहो जाणएण घेत्तव्यो। अन्नाएउग्गहिए, पायच्छित्तं भवे तिविहं।। पञ्चविधेऽवग्रहे प्ररूपितेसतीदं तात्पर्यमभिधीयते स एवं विधोवग्रहो ज्ञापकेनपञ्चप्रकारोवग्रहः स्वरूपवेदितो गृहीतव्यो नाज्ञापकेनकुत इत्याह अज्ञातेऽनिधिगमे सति यद्यवग्रहमवगृह्णाति ततस्तस्मिन्नवगृहीते त्रिविधं प्रायश्चितं भवेति तदेवाह। इकडकठिणे मासो, चाउम्मासो अपीडफलएसु। कहकलिंचे पणगं, छारे तह मल्लगाईसु।। इक्कमःदढणी कठिनः शररस्तम्बस्तयोः संस्तारकेमासलघु-काष्ठमयेषु पीठेषुफलेषु च प्रत्येकं चत्वारो मासलघवः काष्ठं च काष्ठशफलं कलिञ्चं च वंशदलं काष्ठकलिञ्चं तत्र तथा क्षारे भस्मनि मल्लकादिषु मल्लक शरावमादि शब्दात्तृणडगलादिपरिग्रहः / एतेषु सर्वेष्वपि पञ्चक पश्चारात्रिंदिवानि इति त्रिविधं प्रायश्चित्त-मज्ञातावग्रह रूपस्यावग्रहणे द्रष्टव्यम्। उक्तोऽवग्रहकल्पिकः व्य०१ उ०। साम्प्रतं द्रव्याद्यवग्रहप्रतिपादनायाह। दवुग्गहो उतिविहो, सचित्ताचित्तमीसिओ चेव। खेत्तुग्गहो वि तिविहो, दुविहे कालग्गहो होइ।।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy