SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ उईरणा 708 अभिधानराजेन्द्रः / भाग 3 उईरणा जाते द्वे शते त्र्यशीत्यधिके ( 283 ) ते द्वाभ्यां गुण्यते जातानि पञ्च शतानि षट्षष्ट्यधिकानि (566 ) तान्येकषष्टिसहितानि क्रियन्ते जातानिषट् शतानि सप्तविंशत्यधिकानि (627) तेषां द्वाविंशेन शतेन भागो ह्रियते लब्धाः पञ्च पश्चाद शादुद्वरन्ति सप्तदश तेषामर्द्ध लब्धाः साद्धा अष्टौ / आगतं पञ्च ऋतवोऽतिक्रान्ताः षष्ठस्य च ऋतोः प्रवर्तमानस्याष्टौ दिवसा गताः नवमो वर्तते। तथा युगे द्वितीये दीवोत्सवे केनापि पृष्टं कियन्तऋतवोऽतिक्रान्ताः को वा संप्रतिवर्तते। तत्रैतावति काले पर्वाण्यतिक्रान्तानि एकत्रिंशत्पञ्चदशभिर्गुण्यते जातानि चत्वारि शतानि पञ्चषष्ट्यधिकानि ( 465 ) अवमरावाश्चैतावति' काले व्यतिक्रामत्यष्टौ तताऽष्टौ पात्यानि शेषाणि चत्वारि शतानि सप्तपञ्चाशताधिकानि ( 457 ) तानि द्विगुण / क्रियन्ते जातानि नवशतानि नवशतानि चतुदशोत्तराणि (314) तथैकषष्टिप्रक्षेपे जातानि नवशतानि पञ्चसप्तत्यधिकानि (675) एतेषां द्वाविंशत्यधि-कशतेन भागहरणं, लब्धाः सप्त उपरिष्टादशादुदरन्ति एकविंशतिशतं ( 121) तस्य द्वाभ्यां भागे हृत लब्धाः षष्टिसार्धाः सतानां च ऋतूनां षड्भिर्भाग हृते लब्धएककः / एक उपरिष्टान्न तिष्ठन्ति आगतमेकसंवत्सरोऽतिक्रान्तः। एकस्य च संवत्सरस्योपरि प्रथम ऋतुः प्रावृड्नाम निगतो द्वितीयस्य च षष्टिर्दिनान्यतिक्रान्तान्येकषष्टितम वर्तते इति एवमन्यत्रापि भावना कार्या। सांप्रतममूनामृतूनां नामान्याह। पाउस वासारत्ता, सरओ हेमंत वसंत गिम्हो य। एए खलु छप्पि उउ, जिणवरदिट्ठा मए सिट्ठा / / प्रथम ऋतुः प्रावृड्नामा द्वितीया वर्षारात्रा तृतीया शरश्चतुर्थो हेमन्तः, पञ्चमो वसन्तः, षष्ठो ग्रीष्मः / एते षडपि ऋतवः एवं नामतो जिनवरदृष्टाः सर्वज्ञदृष्टा मया शिष्टाः कथिताः / साम्प्रतमेतेषामृतूनां मध्ये क ऋतु: कस्यां तिथौ समाप्तिमुपयातीति परस्य प्रश्नमाशक्य तत्परिज्ञानाय करणमाह। इच्छा उऊदुगुणितो, रुवोणगुणिओ उपव्वाणि। तस्सद्ध होइ तिही, जत्तसमत्ता उऊतीसं / / यस्मिन् ऋतौ ज्ञातुमिच्छा स ऋतुः ध्रियते तत्संख्या ध्रियते इत्यर्थः ततः स द्विगुणितः सन् रूपोनः क्रियते। ततः पुनरपि स द्वाभ्यां गुण्यते गुणयित्वा च प्रतिराश्य तद्विगुणितश्च सन् भवन्ति तावन्ति पर्वाणि द्रष्टव्यानि तस्य च प्रतिराशि तस्यार्द्ध क्रियते / ततश्चाधं यावत् भवति तावत्यस्तिथयः प्रतिपत्तव्याः / यासु युगभाविनीस्त्रिंशदपि ऋतवः समाप्ताः समाप्तिमैयरुरिति करणगाथाक्षरार्थः / सम्प्रति करणभावना विधीयते / किल प्रथम ऋतुतुिमिष्टो यथा युगे कस्यां तिथौ प्रथमतः प्रावृड्लक्षण ऋतुः समाप्तिमुपयातीति / तत्र एकका ध्रियते स द्वाभ्यां गुण्यत जाते वे स्वरूपोनः क्रियते। जात एकक एवं स भूयोपि द्विगुण्यते द्वे रूप प्रतिराश्यते तयोरट्टे जातमेकं रूपमागतं / युगादौ द्वे पर्वणी अतिक्रम्य प्रथमायां तिथौ प्रतिपदिप्रथमः प्रावृड्नामा ऋतुः समापत्। तथा द्वितीये ऋतौ ज्ञातुमिच्छति द्वौ स्थापितो तथा द्वाभ्यां गुणने जाताश्चत्वारस्ते रूपोनाः क्रियन्ते। जातास्त्रयस्तेभूयो द्विर्गुण्यन्ते जाताः षट्ते प्रतिराश्यन्ते प्रतिराशीनां चार्द्धः क्रियते जातास्त्रय आगतं युगादितः षट् पर्वाण्यतिक्रम्य तृतीयायां तिथौ द्वितीय ऋतुः समाप्तिमुपागमत्। तथा तृतीये ऋतौ ज्ञातुमिच्छति त्रयो ध्रियन्ते। द्वाभ्यां गुण्यन्ते जाताः षट् ते रूपोनाः कृताः सन्तो जाताः पञ्च ते भूयो द्विगुण्यन्ते जाता दश ते प्रतिराशीनां चाढ़े लब्धाः पञ्च / आगतं युगादित आरभ्य दश पण्यितिक्रम्य पञ्चम्यां तिथौ तृतीय ऋतुः समाप्तिमियाय। तथा षष्ठे ऋतौ ज्ञातुमिच्छति षट् स्थाप्यन्ते / ते द्वाभ्यां गुण्यन्ते जाता द्वादश रूपोनाः सन्तो जाता एकादश ते द्विर्गुण्यन्ते / जाता द्वाविंशतिः / सा प्रतिराशि तयोश्चार्द्ध क्रियते। जाता एकादश। आगतं युगादितो द्वाविंशतिपर्वाण्यतिक्रम्य एकादश्यां तियौ षष्ठ ऋतुः समाप्नोति / तथा युगे नवमे ऋतौ ज्ञातुमिच्छता नव स्थाप्यन्तेते द्वाभ्यां गुण्यन्तेजाता अष्टादश ते रुपोनाः क्रियन्ते। जाताः सप्तदश ते भूयो द्विगुण्यन्ते जाताश्चतुस्त्रिंशत्। संप्रतिराश्यते तस्या अर्द्ध क्रियते जाताः सप्तदश आगतं युगादितश्चतुस्विंशत्पण्यितिक्रम्य द्वितीये संवत्सरे पौषमासे शुक्लपक्षे द्वितीयस्यां तियौ नवम ऋतुः परिसमाप्तिं गच्छति। तथा त्रिंशत्तमे ऋतौ जिज्ञासति त्रिंशद् ध्रियते सार्द्धिगुण्यते जाता षष्टिः सा रूपोना क्रियते जाता एकोनषष्टिः सा भूयो द्वाभ्यां गुण्यते जातमष्टादशोत्तरं शतं तत् प्रतिराश्यते तस्यार्द्ध क्रियते जाता एकोनषष्टिः / आगतं युगादितोऽष्टादशोत्तरपण्यितिक्रम्य एकोनषष्टितमायां तिथौ / किमुक्तं भवति। पञ्चमे संवत्सरे प्रथमे आषाढमासे शुक्लपक्षे चतुर्दश्यां त्रिंशत्तम ऋतुः समाप्तिमुपायासीत् व्यवहारतः प्रथमाषाढपर्यन्त इत्यर्थः संप्रति वर्षाकाले शीतकाले ग्रीष्मकालेषु चतुर्मासप्रमाणेषु यस्मिन् पर्वणि कर्ममासापेक्षयाऽधि कोहोरात्रः सूर्यर्तुपरिसमाप्तौ भवति तत्प्रतिपादयन्नाह। वइयम्मि उ कायत्त, अतिरत्तं सत्तम पचम्मि। वासहिमागम्हकाले, चाउम्मासे विहीयत्ते।। वर्षाहिमग्रीष्मकालेषु प्रत्येकं चतुर्मासेषु चतुर्मासप्रमाणेषु पृथक् अतिरात्रा अधिका अहोरात्रा विधीयन्ते तद्यथा एकातृतीयपर्वण्यपरा सहिमपर्वणि। इयमत्र भावना। सूर्यर्तुचिन्तायां कर्ममासपेक्षया वर्षाकाले श्रावणादौ तृतीये पवणि गते कोऽधिकोऽहोरात्रो द्वितीयः सप्तमे पर्वणि हेमन्तकाले पि एकस्तृतीये पर्वणि द्वितीयः सप्तमे ग्रीष्मकाले पि एकस्तृतीये पर्वणि द्वितीयः सप्तमे। अत्राह पूर्वपूर्वावमरात्रसहितमुक्तम्। इदानीं त्वधिकरात्रोपेतमिति किमत्र पर्वकरणमत आहे। उउसहियं अतिरत्तं, जुगसहियं होइ अउमरत्तं तु। रविसहियं अइरत्तं, सहितहियं अमरत्तं तु / / इह पर्वऋतुसहितं विवक्षते तदा विवक्षितं तृतीयादिकवर्षाकालादिसम्बन्धि अतिरात्रमधिकारात्रम् / सूर्यर्तुपरिसमाप्तिचिन्तायां तस्मिन् विवक्षिते तृतीयादौ पर्वणिकर्ममासापेक्षयाधिकोऽहोरात्रो भवति। तथाहि कर्ममासस्त्रिंशता दिन : सूर्यभासस्त्रिंशता मासद्वयात्मकश्च ऋतुः / ततः सूर्यर्तुपरिसमाप्तौ कर्ममासापेक्षयकोधिकोहोरात्रो भवतीति / तथा युगं चन्द्राभिवर्द्धितरूपं संवत्सरपञ्चकान्ते च पञ्चापि संवत्सराश्चन्द्रमासापेक्षया ततो यदि पर्ययुगसहितं चन्द्रमासोपेतं विवक्ष्यत तदा विवक्षितं पर्वतृतीयादिकं वर्षाकालादिसम्बन्धे अवमरात्रोपेतं भवति कर्ममासापेक्षया तस्मिन् तृतीयादौ पर्वणि नियमादेकोऽहोरात्रः पततीति भावः / एतदेवाह
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy