SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ उईरणा 706 अभिधानराजेन्द्रः | भाग 2 उईरणा क्षीणकषायश्रुतिकेवलिन इतरस्य वा गुणितकर्माशस्य समयाधिकावलिका शेषायां स्थितौ उत्कृष्टा प्रदेशोदीरणा अवधिज्ञानावरणयोः पुनरवधिलब्धिरहितस्य क्षीणकषायस्य समयाधिकावलिका शेषायां / स्थितौ उत्कृष्टा प्रदेशोदीरणा निद्राप्रचलयोरुपशान्तकषायस्य प्रमत्तसंयते अप्रमत्तभावाभिमुखे स्त्यानद्धित्रिकस्य मिथ्यात्वानन्तानुबन्धिकषायाणामनन्तरसमये सम्यक्यं सयमसहितं प्रतिपत्तुंकामस्य मिथ्यादृष्टचरमसमये सम्यमिथ्यात्वस्य सम्यक्त्वप्रतिपत्त्युपान्त्यसमये अप्रत्याख्यानावरणकषायाणां प्रदेशविरतस्यानन्तरसमयाधिकावलिका शेषायां चरमसमये क्षपकस्य हानिः हानादिषट्कस्यापूर्वकरणगुणस्थानकचरमसमये सर्वत्र गुणितककर्माशस्योत्कृष्टा प्रदेशोदीरणा वेदितव्या। वेयाणियाणां गहिहि, से कालिअप्पमाईमिय विरओ। संघयणपगतणुदुग, उज्जो वा अप्पमत्तस्स // 307 / / यः प्रमत्तो द्वितीये समये अप्रमादंग्रहीष्यति सोऽप्रमत्तो भविष्यति प्रमत्तो न पञ्चकवैक्रियसप्तकाहारकसप्तकोद्योतनाम्नामुत्कृष्टा प्रदेशोदीरणा। देवनिरयाउ गाणं, जहन्नजेट्ठहिई गुरुअ साए। इयराउण वि अट्ठम वासे,णेयो अट्ठवासाउ।। 308 / / देवनारकायुषोर्यथाक्रमं देवनारको जघन्योत्कृष्ट स्थितिको / गुरुदुःखयोरुदये वर्तमानौ उत्कृष्ट प्रदेशोदीरको वेदितव्यौ। एतदुक्तं भवति। देवो दशवर्षसहस्रायुस्थितिको गुरुदुःखोदये वर्तमानो देवायुष उत्कृष्ट प्रदेशो-दीरकस्तथा नैरयिकस्त्रयस्त्रिंशत्सागरोपमायुःस्थितिको गुरुदुःखोदये वर्तमानो नारकायुष उत्कृष्टप्रदेशोदीरकः प्रभूतं हि दुःखमनुभवन् प्रभूतान् पुद्गलान् परिसाटयति इति तदुपादानम् / इतरा युषोस्तिर्यग्मनुष्यायु-षोर्यथासंख्यं तिर्यग्मनुष्योष्टवर्षायुवोऽष्टमे वर्षे वर्तमानो गुरुदुःखोदये युक्त उत्कृष्टप्रदेशोदीरको भवति। एगंततिरिगजोग्गा, नियग विसिट्टे तसु तह अपज्जत्तो। संमुच्छिममणुअंते, तिरियगई देसविरयस्स।।३०६॥ एकान्तेन तिरश्चामेवोदयं प्रति प्रायोग्याः प्रकृतयस्तासामे केन्द्रियजातिद्वीन्द्रिय जातित्रीन्द्रियजातिचतु-रिन्द्रियजात्यातपस्थावरसूक्ष्मासाधारणनाम्नामष्टानां निजकविशिष्टेषु निजनिज प्रकृतिविशिष्टेषु यथा एकेन्द्रियजातिस्थावरनाम्नो बादर प्रथिवीकायिके सर्वविशुद्धे आतपनाम्नः खरबादरपृथिवीकायिके सूक्ष्मस्य पर्याप्तसाधारण विकलेन्द्रियनाम्नां तन्नामसुपर्याप्तषु सर्वविशुद्धेषु उत्पृष्टा प्रदेशोदीरणां देशविरतस्य तस्य सर्वविशुद्धत्वात्। अणुपुथ्वीगइदुगाणं, सम्मदिट्ठीउ दुभगईणं। नीयस्स य से काले, गहियविरयत्ति सो चेव // 310 // चतसृणामानुपूर्वी णां तस्यां तस्यां गतौ वर्तमान तृतीये समये सर्वविशुद्धसम्यग्दृष्टिरुत्कृष्टप्रदेशोदीरकः केवलं नरकतिर्यगानुपूर्योः क्षायिकसम्यग्दृष्टिवक्तव्या देवनारकगत्योरपि स एव क्षायिकसम्यग्दृष्टिरुत्कृष्टप्रदेशोदीरकः तथा योऽनन्तरसमये संयमं प्रतिपत्स्यते स एवाविरतसम्यष्टिदुर्भगादीनां दुर्भगदुःस्वरानादेयायशः कीर्तीनां नीचैर्गोत्रस्योत्कृष्टप्रदेशोदीरकः। जागं उदीरगाणं, जोगते सरदुगाणुपाणूणं / नियन्ते के वलिणो, सध्वविशुद्धीए सवासिं // 311 / / योग्यन्तदीरणायोगी सयोगी केवली अन्ते चरमसमये उदीरको यासांता गोग्यन्तोदीरकास्तासां मनुजगतिपञ्चेन्द्रियजात्यौदारिकसप्तकतैजससप्तकसंस्थानषट्कप्रथमसंहननवर्णादिविंशत्यगुरुलघूपघातपराधातविहायोगतिद्विकत्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरशुभाशुभगादेययशः किर्तिनिर्माणतीर्थकरोचैर्गोत्राणां द्विषष्टिसङ्ख्यानां प्रकृतीनां संयोगिकेवली चरमसमये उत्कृष्ट प्रदेशोदीरकः। तथा केवलिनः स्वरद्विकप्राजापानयोर्निजकान्ते स्वस्वनिरोधकाले उत्कृष्टा प्रदेशोदीरणा तथाहि स्वरनिरोधकाले सुस्वरदुःस्वरयोःप्राणापाननिरोधकाले च प्राणापाननान उत्कृष्टा प्रदेशोदीरणा इह सर्वकर्मणामुत्कृष्ट प्रदेशोदीरणायामेषा परिभाषा “यो यः स्वस्वोदीरणाधिकारी स स तस्य कर्मणः स्वामी वेदितव्यः" आयुर्व्यतिरेकेण चान्यत्र सर्वत्रापि गुणितकाशत्वेन दानान्तरायादीनामपि पञ्चानां प्रकृतीनामुत्कृष्टप्रदेशोदीरणास्वामित्वं चेति। संप्रति जघन्यप्रदेशोदीरणास्वामित्वमाह। तप्पगइ उदीरगत्ति, संकिलिट्ठभावे असव्वपगईण। णेयो जहण्णसामी, अणुभागो य तित्थयरे॥३१२॥ यस्तासां प्रकृतीनामुदीरकः सोऽतिसंक्लिष्टभावोऽति संक्लिष्ट - परिणामः क्षपितकाशः सर्वप्रकृतीनां स्वस्वयोग्यानां त्रयाणां दर्शनावरणीयानां सातासातवेदनीययोर्मिथ्यात्वस्य षोडशानां कषायाणां नोकषायाणां सर्वसंख्यया पञ्चत्रिंशत्संख्यानां प्रकृतीनां मिथ्यादृष्टिः सर्वपर्याप्तिपर्याप्तः सर्वसंक्लिष्टो निद्रापञ्चकतत्प्रायोग्यसंक्लेशयुक्तो जघन्यप्रदेशोदीरणास्वामी। तथा योऽनन्तरसमये मिथ्यात्वं यास्यति सोऽतिसंक्लिष्टः सम्यक्त्वसम्यड्मिथ्यात्वयोर्जधन्यप्रदेशोदीरणास्वामी भवति।तथा गतिचतुष्टयपञ्चेन्द्रियजात्थौदारिकसप्तकवैक्रियसप्तकतैजससप्तकसंस्थानषट्कवर्णादिविंशतोपराघातोपघातागुरुलघूच्छ्वासोद्योतविहायोगतिद्विक त्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरशुभाशुभदुर्भगसुस्वरदुःस्वरादेयानादेययशःकीर्तिनिर्माणोधैर्गोत्रपञ्चविधान्तरायरूपाणां एकोननवतिसंख्यानां प्रकृतीनां संज्ञिपर्याप्तसर्वोत्कृष्टसंक्लेशयुक्तो जघन्यप्रदेशोदीरणास्वामी आहारकस्य वाऽऽहारशरीरी तत्प्रयोगसंक्लेशयुक्त आनुपूर्वीणामपि आतपस्य खरबादरपृथिवीकायिकः सर्वसंक्लिष्टएकेन्द्रिजातिस्थावरसाधारण-नाम्नामेकेन्द्रियःसर्वोत्कृष्ट संक्लेशयुक्तः सूक्ष्मनाम्नः सूक्ष्मैकेन्द्रियसर्वसंक्लिष्टो जघन्यप्रदेशोदीरणास्वामी अपर्याप्तकनाम्नः पुनरपर्याप्तमनुष्यसर्वसंक्लिष्टश्वरमसमये वर्तमानो जघन्यप्रदेशोदीरको भवति / तथा द्वित्रिचतुरिन्द्रियजातीनां यथाक्रमं द्वित्रिचतुरिन्द्रियाः सर्वाः संक्लिष्टा जघन्यप्रदेशोदीरणास्वामिनः (अणुभागोयतित्थयरत्ति) तीर्थकरनाम्न एव जघन्यानुभागोदीरणास्वामी / प्राक् प्रतिपादितः स एव जघन्यप्रदेशोदीरणास्वामी अपि वेदितव्यः तीर्थकरकेवली यावदद्यापि योजिकाकरणमारभते तावत्तीर्थकरनाम्नो जघन्यप्रदेशोदीरको वेदितव्य इत्यर्थः। ओहि ओहिजुए अइ-सुहवेयआउगाणं तु। पढमस्स जहन्नटिइ, सेसाणुक्कोसगढिईउ / / 313 / / अवधिज्ञानावरणावधिदर्शनावरणयो रवधिलब्धियुक्तः सर्वसंक्लिष्टो जघन्यप्रदेशोदीरणास्वामी। अवधिद्विक क्षेत्रादितो बहवः पुद्गलाः परिक्षीणा इत्यवधिलब्धिग्रहणम् / तथा चतु
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy