SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ उईरणा 703 अमिधानराजेन्द्रः। भाग 2 उईस स्थितिकः समाप्तःसर्वपर्याप्तिभिः पर्याप्तः सर्वसंक्लिष्टो वेदितव्यः। पंचेदियतसवायर-पज्जत्तगसायसुसुरगईणं। वेउव्वियसासाणं, देवो जेट्टट्ठिई सम्मत्तो / / 284 / / देवोज्येष्ठस्थितिकः उत्कृष्टस्थितिक-स्त्रयस्त्रिंशत्सागरोपमस्थितिकः समाप्तः सर्वाभिःपर्याप्तभिः पर्याप्तः सर्वविशुद्धःपञ्चेन्द्रियजातित्रसबादरपर्याप्तसातवेदनीय-सुस्वरदेवगतिवैक्रियसप्तकोच्छ्वासरूपाणां दशप्रकृतीनामुत्कृष्टानुभागोदीरणास्वामी। सम्मत्तमीसगाणं,सेकाले गहिहि तित्त्थमिच्छत्तं। हस्सरईणसहस्सा-रगस्सपज्जत्तदेवस्स।। 285 / / योऽनन्तरे समये मिथ्यात्वं ग्रहीष्यते तस्य सर्वसंक्लिष्टस्य सम्यक्त्वसम्यग्मिथ्यात्वयोर्यथासंख्यं संभवमुदये सत्युत्कृष्टानुभागोदीरणा / तथा सहस्रारकदेवस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य हास्यरत्योरुत्कृष्टानुभागोदीरणा। गइहुंडवघायाणि-दुखगइवीयाण दुहचउक्कस्स। निरउकस्सम्मत्ते, असमत्ता पन्नरसंते॥२६॥ नैरयिक उत्कृष्टस्थितौ वर्तमानः सर्वाभिः पर्याप्तिभिः पर्याप्तः सर्वोत्कृष्टसंक्लेशयुक्तोनरकगति हुंडसंस्थानोपघातोऽप्रसस्तविहायोगतिनीचैर्गोत्राणां (दुहचउक्कस्सत्ति )दुर्भगदुःस्वरानादेयायशःकीर्तिरूपस्य सर्वसंख्यया नवानां प्रकृतीनां हुंडसंस्थानमुत्कृष्टानुभागोदीरणास्वामी। तथा अपर्याप्तकनानो मनुष्योऽपर्याप्तश्चरमसमये वर्तमानः सर्वसंक्लिष्ट उत्कृष्टानुभागोदीरणास्वामी / संज्ञितिर्यक्पञ्चेन्द्रियादपर्याप्तान्मनुष्योऽपर्याप्तसंक्लिष्टतर इति तिर्यग्मनुष्यग्रहणम्। कक्खडगुरुसंघयणा, पुच्छी पुमसंठाणतिरियनामाणं। पंचिंदियतिरिक्खो,अट्ठमवासहवासाउ॥२७॥ कर्कशगुरुस्पर्शयोरादिवानाञ्च पञ्चानां संहननानां स्त्रीवेदपुरुषवेदयोःआद्यन्तवानां चतुर्णा संस्थानानां तिर्यग्मतेश्च सर्वसंख्यया चतुर्दशप्रकृतीनां तिर्यक्संज्ञिपञ्चेन्द्रियोष्टवर्षायुरष्टमे वर्तमाने सर्वसंक्लिष्ट उत्कृष्टानुभागोदीरणास्वामी। मणुओदालियसत्तग-वजरिसहनारायसंघयण। मणुओतिपलपज्ज-त्तो आउग्गं पिसंकिट्ठो॥२८॥ मनुष्यःपल्योपमायुःस्थितिकः सर्वाभिः पर्याप्तिभिः पर्याप्तः सर्वविशुद्धौ मनुष्यगतौदारिकसप्तकवजर्षभनाराचसंहननरूपाणां नवानां प्रकृतीनामुत्कृष्टानुभागोदीरणास्वामी / तथासर्वोत्कृष्टस्वस्वस्थितौ वर्तमानः सर्वाभिः पर्याप्तिभिः पर्याप्तश्च स्वकीयानामायुषां सर्वविशुद्धौ नारकायुषस्तुसर्वसंक्लिष्ट उत्कृष्टानुभागोदी-रको भवति / हस्सटिइपजत्ता, तन्नामविगलजाइसुहमाणं / थावर निगोयएगि-दियाणमवि बायरो नवरि॥२८६।। ह्रस्वस्थितिकाः पर्याप्तकास्तन्नामानो द्वीन्द्रिया जातिसूक्ष्मकर्मानुसारिनाम्नो विकलेन्द्रियजातीनां सूक्ष्मनाम्नश्चोत्कृष्टानुभागोदी-- रणास्वामिनः / एतदुक्तं भवति द्वित्रिचतुरिन्द्रियाः सूक्ष्माश्च सर्वजघन्यस्थितौ वर्तमाना/सर्वाभिः पर्याप्तिभिः पर्याप्ताः सर्वसंक्लि-ष्टया यथासंख्य द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातिनाम्नां सूक्ष्मनाम्नोश्चोत्कृष्टानुभागोदीरणस्वामिनः ह्रस्वस्थितौ वर्तमाना/ सर्व- संक्लिष्टा भवन्ति इति कृत्वा तदुपादागम् / तथा स्थावरसाधारणैकेन्द्रियजातिनाम्नां जघन्यस्थितौ वर्तमानो बादरै केन्द्रियः सर्वपर्याप्तिभिः पर्याप्तः सर्वसंक्लिष्टः स्थावरनाम्नः स्थावरसाधारणनाम्नः साधारण एकेन्द्रियजातेविपि उत्कृष्टानुभागोदीरणास्वामिनी भवतः। बादरस्य महान् सर्वसंक्लेशो भवतीति कृत्वा तदुपादानम्। आहारतणूपज्जत्त, गोउचरं समयओ य लहुगाणं / पत्तयखगइपराघा-याहारतणूण य विसुद्धो / / 260 // समचतुरस्रसंस्थानमृदुलघुस्पर्शप्रत्येकप्रशस्तविहायोगतिपराघाताहारकसप्तकरुपाणां त्रयोदशप्रकृतीनामाहारकशरीरी संयतस्य सर्वपर्याप्तिभिः पर्याप्तः सर्वविशुद्ध उत्कृष्टानुभागोदीरणास्वामी। उत्तरवेउव्विजो-यणामघाइखरपुढवी। निरयगईणं भणिआ, तइए समयाणुपुटवीणं / / 261 / / उत्तरवैक्रिये वर्तमानो धातिः सर्वाभिः पर्याप्ताभिः पर्याप्तः सर्वविशुद्ध उद्योतनाम्न उत्कृष्टानुभागोदीरणास्वामी तथा खरपृथिवीकायिक उत्कृष्टायां स्थितौ वर्तमानः सर्वपर्याप्तिपर्याप्तः सर्वविशुद्ध आतपनाम्नः उत्कृष्टानुभागो दीरणास्वामी तथा मनुष्यदेवतानुपूयॊविशुद्धा नरकतिर्यगानुपूर्योः संक्लिष्टा निजकगतीनां तृतीयेसमये वर्तमाना उत्कृष्टानुभागोदीरकाश्च भवन्ति। लोगंते सेसाणं, सुभाणमियरासि चउसु विगई। पज्जत्तकडमिच्छस्सो, हीणमणोकिलट्ठस्स / / 262 // योगिनः सयोगिकेवलिनस्तेसर्वापवर्तमानस्य शेषाणामुक्तव्यतिरिक्तानां शुभप्रकृतीनां तैजससप्तकमृदुलघुवय॑शुभवर्णाद्येकादशकागुरुलघुस्थिरशुभ-शुभगादेययशःकीर्तिनिर्माणोचैर्गोत्रतीर्थंकरनाम्नां पञ्चविंशतिसंख्यानामुत्कृष्टानुभागोदीरणा भवति इतरासां च शुभप्रकृतीनां मतिश्रुतमनः पर्यायकेवलज्ञानावरणकेवलदर्शनावरणमिथ्यात्वषोडश-कषायकर्कशगुरुवय॑शेषकुवर्णादिसप्तकास्थिराशुभरूपाणामे कत्रिंशत्प्रकृतीनां चतसृष्वपि गतिषु मिथ्यादृष्टे : सर्वपर्याप्तिपर्याप्तस्य उत्कृष्ट संक्लेशे वर्तमानस्योत्कृष्टानुभागोदीरणा भवति तथा अवधिज्ञानावरणदर्शनावरणयोस्तस्यैव चतुर्गतिकस्य मिथ्यादृष्टरनवधिकस्य वधिलब्धिरहितस्योत्कृष्टानुभागोदीरणा भवति अवधिलब्धियुक्तस्य हि प्रभूतोऽनुभागः क्षयं यातितत उत्कृष्टो न लभ्यते इतिनलब्धिकस्येत्युक्तम्। तदेवमुक्तमुत्कृष्टानुभागोदीरणास्वामित्वम्। सम्प्रति जघन्यानुभागोदीरणास्वामित्वं प्रतिपादयन्नाह। सुयकेवलिणो मइसुय-अचक्खुचक्खुणुदीरणा मंदा। विपुलपरमोहिणाणं,मणणाणेहि दुगसावि / / 263 // मतिश्रुतज्ञानावरणचक्षुरचक्षुर्दर्शनावरणानां श्रुतकेयलिनश्चतुर्दशपूर्वधरस्य क्षीणकषायस्य समयाधिकावलिका शेषायां स्थितौ वर्तमानस्य मन्दा जघन्यानुभागोदीरणा वर्तते! तथा क्षीणकषायस्य विपुलमतिमनः पर्यायज्ञानस्य समयाधिकावलिका शेषायां स्थितौ वर्तमानस्यायधिज्ञानावरणावधिदर्शनावरणयोर्जघन्यानुभा-गोदीरणा। खवणाएविग्यकेवल, संजलणाण य नो कसायाणं। सयसयउदीरणंते, निद्दापयलाणमुवस्संते॥ 264|| क्षपणायोस्थितस्य पञ्चविधान्तरायके वलज्ञानावरणके वलदर्शनावरणसंज्वलनचतुष्टयनवनोकषायरूपाणां विंशतिप्रकृ--
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy