________________ उईरणा 666 - अभिधानराजेन्द्रः - भाग 2 उईरणा मूलस्थितशब्दात्प्राकृतत्वात् प्रत्येकं षष्ठीविभक्तिलोपः ततोऽयमर्थः मूलप्रकृतीनांमध्ये मोहस्यमोहनीयस्थितेरुदीरणा अजघन्या चतुर्विधा चतुःप्रकारा तद्यथा सादिरनादिधुंवाऽध्रुवाच। तथामोहनीयस्यजधन्या स्थित्युदीरणा सूक्ष्मसंपराय क्षेपकस्य स्वगुणस्थानकसमयादिकावलिका शेषे वर्तमानस्य भवति शेषकालं त्वजघन्या नामाशेषे वर्तमानस्य भवति / ततोऽन्यत्र सर्वत्राप्यजघन्या सा चोपशान्तमोहगुणस्थानकेषु न भवति ततः प्रतिपाते च भवति ततोसौ सादिः तत्स्थानमप्रातस्य पुनरनादिः / ध्रुवा अभव्यानाम्, अध्रुवा भव्यानां, शेषा ज्ञानावरणदर्शनावरणनामनोगोत्रान्तरायाणां स्थित्युदीरणा। अजघन्या त्रिधा त्रिप्रकारा तद्यथा अनादिधुवा अधुवा च तथाहि ज्ञानावरणदर्शनावरणान्तरायाणां जघन्या स्थित्युदीरणा क्षीणकषायस्य स्वगुणस्थानसमयाधिकावलिकाशेषे वर्तमानस्य भवति शेषकालं त्वजघ-न्या सा चानादिसदैव भावात् ध्रुवाध्रुवे पूर्ववत् / नामगोत्रयोस्तु जघन्या स्थित्युदीरणा सयोगिकेवलचरमसमये सा चानादिरध्रुवा च ततोऽन्या सर्वाप्यजघन्या सा चानादिः ध्रुवाध्रुवे पूर्ववत् / वेदनीयायुरजघन्या स्थित्युदीरणा द्विधा तद्यथा सादिरध्रुवा च तया सर्वा हि वेदनीयस्य जघन्या स्थित्युदीरणो एकेन्द्रियस्य सर्वस्तोकस्थितिसत्कर्मणोलभ्यते ततस्तस्यैव समयान्तरे प्रवर्द्धमानसत्कर्मणो ऽजघन्या ततः पुनरपि जघन्येति जघन्या। अजघन्या च सादिरधुवा च आयुषः पर्यन्तावलिकायां न भवति परभवोत्पत्तिसमये च भवति साच सादि रधुवा च। तया सर्वासां प्रकृतीनां शेषविकल्पा उत्कृष्टा उत्कृष्टजघन्यलक्षणः द्विधा द्विप्रकारा यथा सादयो ध्रुवाश्च तथाहि सर्वेषामपि कर्मणामायुर्वर्जाना-- मुत्कृष्टा स्थित्युदीरणा मिथ्यादृष्टरुत्कृष्टः संक्लेशे वर्तमानस्य किय-- त्कालं प्राप्यते। ततः समयान्तरेतस्याप्यनुत्कृष्टाततः पुनरपि समयान्तरे उत्कृष्टा संक्लेशे विशुद्धा प्रायः प्रतिसमयमन्यथाभावात् ततो द्वे अपि साद्यध्रुवे। जघन्या च द्विधा प्रागेव भाविता अयुषां तु विकल्पत्रये युक्तिः प्राक्तन्येव प्रायोऽवसेया / तदेवं कृता मूलप्रकृति-विषया साधनादिप्ररूपणा। ___ संप्रत्युत्तरविषयां तां चिकीर्षुराह। मिच्छत्तस्सचउद्धा, अजहण्णा ध्रुवं उदीरणाण तिहा। सेसविगप्पा दुविहा, सव्वविगप्पाय सेसाणं / / 255 / / मिथ्यात्वस्य अजघन्या स्थित्युदीरणा चतुर्विधा तद्यथा सादिरनादिधुवाध्रुवा चातत्र मिथ्यादृष्टेः प्रथमसम्यक्त्वमुत्पादयतो मिथ्यात्वस्य प्रथमस्थितौ समयाधिकावलिका शेषायां जघन्या स्थित्युदीरणा सादिरध्रुवा च सम्यक्त्वाच्च प्रतिपतितो जघन्या सा च सादिस्तत्स्थानप्राप्तस्य पुनरनादिः धुवाध्रुवे अभव्यभवयापेक्षया। तथा ध्रुवोदीरणानां पञ्चविधज्ञानावरणचक्षुरचक्षुरवधिकेवलदर्शनावरणपञ्चविधान्तरायतैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभगुरुलघुनिर्माणाख्यानामजघन्या स्थित्युदीरणा त्रिधा / तत्र प्रथमानादिधुंवाध्रुवा च तथाहि ज्ञानावरणपञ्चकान्तरायपञ्चकचक्षुरचक्षुरवधिकेवलदर्शनावरणरूपाणां चतुर्दशप्रकृतीनां क्षीणकषायस्य स्वगुणस्थानकसमयाधिकावलिका शेषे वर्तमानस्यास्थित्युदीरणा। सा च सादिरध्रुवाच। शेषा सर्वाप्य-जघन्या सा चानादिः सदैव भावात् ध्रुवाध्रुवे पूर्ववत् / तैजससप्तका-दीनां च त्रयस्त्रिंशत्संख्याकानां नाम च प्रकृतीसना जघन्या स्थित्यु-दीरणा | सयोगिकेवलिचरमसयमे सा च सादिरधुवा च ततोन्या सर्वा प्यज्धन्या सा चानादिः / धुवाधुवे पूर्ववत् / एतासामेव मिथ्यात्वादिप्रकृतीनामष्टचत्वारिंशत्संख्याकानां शेषविकल्पाउत्कृष्टानुत्कृष्टजघन्यलक्षणा द्विप्रकारास्तद्यथा सादयो ध्रुवाश्च / तया होतासामुत्कृष्टा स्थित्युदीरणा मिथ्यादृष्टरुत्कृष्ट संक्लेशे वर्तमानस्य कियत्कालं लभ्यते ततः समयान्तरेतस्याप्यनुत्कृष्टा ततोद्वे अपि साद्यधुवे जघन्या च प्रागेव भाविता (सव्वविकप्या य सेणाणं ति) शेषाणां शेषप्रकृतीनां दशोत्तरशसख्यानां सर्वे विकल्पाउत्कृष्टानुत्कृष्टजघन्यरूपा विकल्पास्तद्यथा सादयो ध्रुवाश्च साद्यधुवत्वं चा ध्रुवोदयत्वोद्भावनीयम् कृता साधनादिप्ररूपणा // __संप्रत्युद्धाछेदस्य स्वामित्वस्य च प्रतिपादनार्थमाह / / अद्धाओ सामित्तं, पिठइ संकमे जहा नवरि।। तचेइसु निरइयगई, एवा विनिसुहिहिम्मखीईसु // 256|| अद्धाच्छेदः स्वामित्वं च यथा स्थितिसंक्रमेऽभिहितं तथैवात्राप्यवगन्तव्यं नवरमयं विशेषसंक्रमकरणे तदावेदेष्वपि स्थितिसंक्रम उक्तः / उदयाभावेऽपि संक्रमस्य भावात् / उदीरणा पुनरियं तदुदयेष्वेव वेदितव्या / उदयाभावे उदीरणया अभावात् / इदमपि संक्षिप्तमुक्तमिति किंचिद्विशेषतोभाव्यते / तत्र येषां कर्मणामुदये सति बन्धोत्कृष्टा स्थितिस्तेषां ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयतैजससप्तकवर्णादिविंशतिनिर्माणस्थिराशुभागुरु लघुमिथ्यात्वषोडशकषायत्रसनादरपर्याप्तप्रत्येकदुःस्वरदुर्भभानादेयायशः कीर्ति वैक्रियसप्तकपञ्चेन्द्रियजातिहुंडोपघातपराघातोच्छ्वासतपोद्योताशुभविहायोगतिनीचैर्गोत्ररूपाणां षडशीतिसंख्यानां बन्धावलिकायामतीतायामुदयावलिकात उपरितनी सर्वापिस्थितिः उदीरणाप्रायोग्या केवलं तानि कर्माणिवे-दयमानानां वेदितव्या / उदयसत्तेवोदीरणाया अभावात्। बन्धावलिकारहिता च सर्वास्थितिः / इह आवलिकाद्विकरूपोऽद्धाच्छेदतदुभयवतस्तूदीरणा स्वामिनः येषां तु कर्मणां मनुजगतिसातवेदनीयस्थिरादिषट्कहास्यादिषट्कवेदत्रय-शुभविहायोगतिप्रथमसंस्थानपञ्चकप्रथमसंहनन पञ्चकोचैर्गोत्ररूपाणामेकोनस्विंशत्संख्याकानामुदये सति संक्रमेणोत्कृष्टा स्थितिः। तेषामावलिका त्रिकहीना सर्वास्थिति-रुदीरणा प्रायोग्या केवलं तानि कर्माणि वेदयमाना वेदितव्या अत्र बन्धावलिका संक्रमावलिरहिता च सर्वा स्थितिर्यत्स्थितिरिह आवलिकात्रिकरूपोद्धाच्छेदस्तदुदयवन्तस्तदीरणास्वामिनः / एवमुत्तरत्रापि यावत् यावानुदीरणाया अयोग्यः कालस्तावानद्धाच्छेद-स्तदुदयवन्तस्तूदीरणास्वामिनो वेदितव्याः / तथा सप्ततिसागरोपमकोटीप्रमाणमिथ्यात्वस्य स्थितिर्मिथ्यादृष्टिना सताद्धा च ततोऽन्तर्मुहूर्तकालं यावन्मिथ्यात्वमनुभूय सम्यक्त्वं प्रतिपद्यते ततः सम्यक्त्वे सम्यड् मिथ्यात्वे चान्तमुहूर्ताना मिथ्यात्वस्थितिः सकलामपि संक्रमयति संक्रमावलिकायां चातीतायामुदीरणा योग्या तत्र संक्रमावलिकातिक्रमेपि सान्तर्मुहूर्तो नैव ततः सम्यक्त्वमनुभवतः सम्यक्त्वस्यान्तमुहूर्ताना सप्ततिसागरोप-मकोटा-कोटिप्रमाणा उत्कृष्टा स्थितिरुदीरणा योग्या ततः कश्चित् सम्यक्त्वेप्यन्तर्मुहूर्त स्थित्वा सम्यगमिथ्यात्वं प्रतिपाद्यते ततः सम्यग्मिथ्यात्वमनुभवतः सम्यङ् मिथ्यात्व