SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ इस्सर 667 अभिधानराजेन्द्रः भाग 2 इस्सर उचितकार्यकल्पनायां नियतदेशस्थायित्वेपि न किंचिद्दषण-मुत्पश्यामः नियमदेशस्थायिनां सामान्यदेवानामपि संकल्पमात्रेणैव तत्तत्कार्यसंपादनप्रतिपत्तेः / / किंच तस्य सर्वगतत्वेङ्गीक्रियमाणेऽशुचिषु निरन्तरसन्तमसेषु नरकादिस्थानेष्वपि तस्य वृत्तिः प्रसज्यते तथाचानिष्टापत्तिः / अथ युष्मत्पक्षेऽपि यदाज्ञानात्मना सर्वजगत्रयं व्यापोतीत्युच्यते / तदाऽशुचिरसास्वादादीनामप्युपलम्भसंभावनान्नारकादिदुःखस्वरूपसंवेदनात्मकतया दुःखानुभवप्रसङ्गाचानिष्टा-पत्तिस्तुल्यैवेति चेत्तदेतदुपपत्तिभिः प्रतिकर्तृमशक्तस्य धूलिभिरेवावकरणं यतो ज्ञानमप्राप्यकारि स्वस्थलस्थमेव विषयं परिच्छिनत्ति न पुनस्तत्र गत्वा तत्कुतो भवदुपालम्भः समीचीनः। तर्हि भवतोप्यशुचिज्ञानमात्रेण तद्रसास्वादानुभूतिस्तद्भावे हि सक्चन्दनाङ्गनारसवत्यादिचिन्तनमात्रेणैव तृप्तिसिद्धौ तत्प्राप्तिप्रयत्नवैफल्यप्रसक्तिरिति / यत्तु ज्ञानात्मना सर्वगतत्वे सिद्धसाधनं प्रागुक्तं तच्छक्ति मात्रमपेक्ष्य मन्तव्यं तथाच वक्तारो भवन्ति / "अस्य मतिः सर्वशास्त्रेषु प्रसरति इति" | न च ज्ञानं प्राप्यकारि तस्यात्मधर्मत्वेन बहिर्निर्गमाभावाबहिर्निर्गमे चात्मनोऽचैतन्यापत्त्याऽजीवत्सप्रसङ्गान्नाहि धर्मो धर्मिणमतिरिच्य वचन केवलो विलोकितः / यञ्च परे दृष्टान्तयन्ति "यथा सूर्यस्य किरणा गुणरूपा अपि सूर्यान्निष्क्रम्य भुवनं भासयन्त्येवं ज्ञानमप्यात्मनः सकाशाद्वहिर्निर्गत्य प्रमेयं परिच्छिनत्तीति" तत्रेदमुत्तरं किरणानां गुणत्वमसिद्धं तेषां तैजसपुगलमयत्वेन द्रव्यत्वात्। यश्च तेषां प्रकाशात्मा गुणः स तेभ्यो न जातु पृथग्भवतीति। तथाच धर्मसंग्रहण्यां श्रीहरिभद्राचार्यपादाः "किरणा गुणा नदव्वं, तेसिं पयासो गुणो न वा दव्वं! जं नाणं आयगुणो, कहमदव्यो स अन्नत्थ१" गंतूण नपरिछिदइ, नाणं नेयं तयम्मिदेसम्मि। आयत्थम्मि य नवरं, अचिंतसत्तीउ विन्नेयं ॥२शा लोहोवलस्स सत्ती, आयत्था चेव भिन्नदेसम्मि। लोहं आगरिसंती दीसइ इह कज्जपचक्खा // 3 / / एवमिह नाणसत्ती, आयत्था चेव हंदिलोग तं। जइपरिछिंदइ सव्वं, कोणु विरोहो भवे तत्थ' ||4|| इत्यादि अथ सर्वगः सर्वज्ञः इति व्याख्यानं तत्रापि प्रतिविधियते। ननु तस्य सार्वज्ञयं केन प्रमाणेन गृहीतं प्रत्यक्षेण परोक्षण वा / न तावत्प्रत्यक्षेण तस्येन्द्रियार्थसन्निकर्षोत्पन्नतयाऽ तीन्द्रियग्रहणासामर्थ्यात् / नापि परोक्षेण तद्धि अनुमानं शाब्दं वा स्यात् / न तावदनुमानं तस्य लिङ्गग्रहणं लिङ्गि लिङ्गसंबन्ध-स्मरणपुर्वकत्वान्न च तस्य सर्वज्ञत्वेऽनुमेयं किंचिदव्यभिचारि-लिङ्गं पश्यामस्तस्याऽ-- त्यन्ताविप्रकृष्टत्वेन तत्प्रतिबद्धलिङ्गसंबन्ध-ग्रहणाभावात्। अथ तस्य सर्वज्ञत्वं विनाजगद्वैचित्र्यमनुपपद्यमानं सर्वज्ञत्वमर्थादापाययतीति चेन्न अविनाभावा ऽभावात् / न हि जगद्वैचित्री तत्सार्वयं विनाऽन्यथा नोपपन्ना / द्विविधं हि जगत् स्थावरजङ्गमभेदात्तत्र जङ्गमानां वैचित्र्यं स्वोपात्तशुभा शुभ-कर्मपरिपाकवशेनैव / स्थावराणां तु सचेतनानामियमेव गतिः अचेतनानां तु तदुपभोगयोग्यतासाधनत्वेनानादिकालसिद्धमेव वैचित्र्यमिति / नाप्यागमस्तत्साधकः / सहि तत्कृतोऽन्यकृतो वा स्यात् / तत्कृत एव चेत्तस्य सर्वज्ञतां साधयति / तदा तस्य महत्त्वक्षतिः स्वयमेव स्वगुणोत्कीर्तनस्य महतामनधिकृतत्वात्।अन्यच तस्य शास्त्रकर्तृत्वमेव नयुज्यते।शास्त्रं हि वर्णात्मकम्। तेच ताल्वादिव्यापारजन्याः। सचशरीर एव सम्भवी। शरीराऽन्युपगमे च तस्य पूर्वोक्ता एष दोषाः / अन्यकृतश्चेत्सोऽन्यः सर्वज्ञोऽसर्वज्ञो वा। | सर्वज्ञत्वे तस्य द्वैतापत्त्या प्रागुक्त-तदेकत्वाभ्युपगमबाधः / तत्साधकप्रमाणचर्चायामनवस्थापातश्च / असर्वज्ञश्चेत् कस्तस्य वचसि विश्वासः अपरं च भवदभीष्ट आगमः प्रत्युत तत्प्रणेतुरसर्वज्ञत्वमेव साधयति पूर्वाऽपर-विरुद्धाऽर्थवचनोपेतत्वात् / तथाहि "न हिंस्यात्सर्वभूतानि" इति प्रथममुक्त्वा पश्चात्तत्रैव पठितम् 'षट्शतानि नियुज्यन्ते पशुनां मध्यमे ऽहनि / अश्वमेधस्य वचनान्न्यूनानि पशुभिस्त्रिभिः / " तथा "अग्नीषोमीयं पशुमालभेत'' सप्तदश प्राजापत्यान् पशूनालभेत" इत्यादिवचनानि कथमिव न पूर्वापरविरोधमनुरुध्यन्ते। तथा 'नानृतंब्रूयात्' इत्यादिनाऽनृतभाषणं प्रथमं निषिध्य पश्चाद् "ब्राह्मणा-र्थेऽनूतं ब्रूयादित्यादि" तथा "ननर्मयुक्त वचनं हिनस्ति न स्त्रीषु राजन्न विवाहकाले। प्राणात्यये सर्वधनापहारे पञ्चाऽनृ-तान्याहुरपातकानि ||1|| तथा "परद्रव्याणि लोष्ठवत्" इत्यादिना अदत्तादानमनेकधा निरस्य पश्चादुक्तं "यद्यपि ब्राह्मणो हठेन परकीयमादत्ते छलेन वा, तथापि तस्य नाऽदत्तादानम्। यतः सर्वमिदं ब्राह्मणेभ्यो दत्तम् / ब्राह्मणानां तु दौर्बल्यावृषलाः परिभुञ्जते तस्मादपहरन् ब्राह्मणः स्वमादत्तेस्वमेव ब्राह्मणो भुड़े वस्ते स्वं ददातीति। तथा "अपुत्रस्य गतिनास्ति' इति लपित्वाऽनेकानि सहस्राणि कुमारा ब्रह्मचारिणां दिवंगतानि विप्राणामकृत्वा कुल संतति, मित्यादि कियन्तो वादधिमाषभोजनात्कृपणा विवेच्य-न्ते। तदेवमागमोपि न तस्य सर्वज्ञता वक्ति / किं च सर्वज्ञः सन्नसौ चराचरं चेद्विरचयति तदा जगदुपप्लवकरणस्वैरिणः पश्चादपि कर्त्तव्यनिग्रहान् सुरवैरिण एतदधिक्षेपकारिणश्चास्मदादीन् किमर्थं सृजतीति तन्नायं सर्वज्ञः। तथा स्ववशत्वं स्वातन्त्र्यं तदपि तस्य न क्षोदक्षमम्। स हि यदि नाम स्वाधीनः सन् विश्वं विधत्ते परमकारुणिकश्च त्वयावर्ण्यते तत्कथं सुखितदुःखिताद्यवस्थाभेदवृन्दस्थपुटित घटयति भुवनमेकान्तशर्मसंपत्कान्तमेव तु किं न निर्मिमीते / अथ जन्मान्तरोपार्जिततत्तदीयशुभाशुभकर्मप्रेरितः संस्तथा करोतीति दत्तस्तर्हि स्ववशत्वाय जलाञ्जलिः / कर्मजन्ये च त्रिभुवनवैचित्र्ये विशिष्ट हेतुक विठपसृष्टिकल्पनायाः कष्टकफलत्वादस्मन्मतमेवाङ्गीकृतंप्रेक्षा-वता। तथा चायातोऽयं "घटकुट्यां प्रभातमिति' न्यायः / किंच प्राणिनां धर्माधर्मावपेक्षमाणश्चेदयं सृजति प्राप्तं तर्हि यदयमपेक्षते तन्न करोति इति / नहि कुलालो दण्डादि करोति एवं कर्मा-पेक्षश्चेदीश्वरोजगत्कारणं स्यान्नहि कर्मणीश्वरोऽनीश्वरःस्यादिति। तथा नित्यत्वमपि तस्य स्वगृह एव प्रणिगद्यमानं हृद्यम् / स खलु नित्यत्वेनैकरूपः सन् त्रिभुवनसर्गस्वभावोऽतत्स्वभावो वा प्रथमविधायां जगन्निर्माणात् कदाचिदपिनोपरमेत। तदुपरमे तत्स्वभावत्वहानिः। एवं च सर्गक्रियायाः अपर्यवसानादेकस्या-पि कार्यस्य न सृष्टिः / घटो हि स्वारम्भक्षणादारभ्यापरिसमाप्ते रुपान्त्यक्षणं यावन्निश्वयनयाभिप्रायेण न घटव्यपदेश-मासादयति जलाहरणाद्यर्थ क्रियायामसाधकतमत्वात् / अत-त्स्वभावपक्षेतुनजातुजगन्ति सुजेत्तत्स्वभावायोगागमनवत्। अपिच तस्यैकान्तनित्यस्वरूपत्वेसृष्टिरिव संहारोपिनघटतेनाना रूपकार्यकारणे नित्यत्वापत्तेः / स हि येनैव स्वभावेन जगन्ति सृजेत्तेनैव तानि संहरेत्स्वभावान्तरेण वा तेनैव चेत् सृष्टि-संहारयोर्योगपद्यप्रसङ्गः स्वभाषाभेदात्। एकस्वभावात्कारणादनेकस्वभावकार्योत्पत्तिविरोधाता स्वभावान्तरेण चेन्नित्यत्वहानिः / स्वभावभेद एव हि लक्षणमनित्यतायाः / यथा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy